________________
११६
आराधनासारः
पुनरहमात्मा ईग्विध इति भावनापरः क्षपको भवतादित्यादिशति;णिच्चो सुक्खसहावो जरमरणविवजिओ सयारूवी । णाणी जम्मणरहिओ इक्कोहं केवलो सुद्धो ॥१०४॥
नित्यः सुखस्वभावः जरामरणविवर्जितः सदारूपी ।।
ज्ञानी जन्मरहितः एकोहं केवलः शुद्धः ॥ १०४ ॥ अयमात्मा यद्यपि व्यवहारेण अनित्यस्तथापि शुद्धनिश्चयनयापेक्षया नित्यः आविनश्वरः । यद्यपि व्यवहारेण अनाद्यशुभकर्मवशात् कदाचिद्दुःखी शुभकर्मवशात्कदाचित्सुखी तथापि शुद्धद्रव्यार्थिकनयापेक्षया सुखसद्भावः परमानंदमेदुरानंतसुखस्वरूपः, यद्यपि व्यवहारण पंचप्रकारशरीराश्रितत्वात् . जरामरणाक्रांतः तथापि निश्चयनयेन जरामरणविवर्जितः । यद्यपि अनुपचरितासद्भूतव्यवहारेण स्पर्शरसगंधवर्णवत्पुद्गलाश्रितत्वात् मूर्तस्वरूपः गौरकृष्णादिरूपोपेतः तथापि शुद्धनयापेक्षया अरूपी रूपवर्जितः । यद्यपि व्यवहारण मतिश्रुतज्ञानाद्युपेतत्वात् ज्ञानी तथापि निश्चयनयापेक्षया केवलज्ञानस्वभावत्वात् ज्ञानी । यद्यपि व्यवहारेण चतुरशीतिलक्षयोनिषु गृहीतजन्मत्वाज्जन्मी तथापि शुद्धनिश्चयनयादजन्मा । यद्यपि व्यवहारेण सुरनरादिभेदादनकस्तथापि निश्चयेन टंकोत्कीर्णचित्स्वभावत्वादेकः । यद्यपि व्यवहारेण ज्ञानावरणादिद्रव्यकर्मसंयोगादकेवलः तथापि द्रव्यार्थिकनयापेक्षया केवलः । यद्यपि व्यवहारेण रागाद्युपाधिसंयोगादशुद्धः तथापि शुद्धद्रव्यार्थिकनयापेक्षया शुद्धः ॥ यदुक्तम्
नो शून्यो न जडो न भूतजनितो नो कर्तृभावं गतो नैको न क्षणिको न विश्वविततो नित्यो न चैकांततः । आत्मा कायमितिश्चिदेकनिलयः कर्ता च भोक्ता स्वयं संयुक्तः स्थिरताविनाशजननैः प्रत्येकमेकः क्षणे ॥ १०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org