________________
५४
आराधनासारः
परीषहदवदहनतप्तो यदि ज्ञानसरोवरे प्रविशति जीवस्तदा किं लभते इत्याबेदयत्याचार्य:परिसहदवग्गितत्तो पइसइ जइ णाणसरवरे जीवो। ससहावजलपसित्तो णिव्वाणं लहइ अवियप्पो॥४६॥
परीषहदवाग्नितप्तः प्रविशति यदि ज्ञानसरोवरे जीवः । स्वस्वभावजलप्रसिक्तो निर्वाणं लभते अविकल्पः ॥ ४६॥ परिसहदवग्गितत्तो परीषहदवाग्नितप्तः उक्तलक्षणाः परीषहास्त एव दवाग्निः' क्षुत्पिपासादिभिः शरीरसंतापजनकत्वात् तेन तप्तः सन् जीवो जीवः आत्मा गाणसरवरे ज्ञानसरोवरे अमीभिः परीषहैर्यद्वाध्यते तदहं न भवामि योऽहं स परीषहलेशैरपि स्पृष्टुमपि न शक्यः । शरीरामनोरत्यंतमंतरमिति लक्षितत्वादित्यादि भेदज्ञानं तदेव सरोवरं तत्तापापोहाय मोहापोहिभिरवगाहितत्वात् जइ पविसइ यदि प्रविशति यदि प्रवेशं करोति तदा । किं भवतीत्याह । ससहावजलपसित्तो स्वस्वभावजलप्रसिक्तः तत्र स्वस्वभावः स्वकीयशुद्धपरमात्मनः स्वभावः परमानंदययः स एव जलं पानीयं सहजशुद्धचैतन्यनिर्विकारमात्मस्वरूपमेघजन्यत्वात् तेन प्रसिक्तः अभिषिक्तः । किं करोति । अवियप्पो अविकल्पो भूत्वा णिव्वाणं निर्वाणं परमालादलक्षणं लभते प्राप्नोति । यथा कश्चन दावाग्निना दह्यमानः सन् सरोवरे प्रविशति तत्र जलेन प्रसेव्यमानः शैत्यं प्राप्नोति तथासौ परीषहदावाग्निना दह्यमानो ज्ञानसरोवरमवगाह्य निर्वाणं प्राप्नोतीति तात्पर्य ॥ ४६॥ एतेन परीषहजयं व्यारव्यायाधुना कमायातमुपसर्गसहनमितीदं पंचमस्थलं षड्भिः गाथाभिः प्रथयति । __ तत्र यदि कथमपि मुनेर्दुःखजनका उपसर्गा भवति तदा तेन ते किं कर्तव्या भवतीत्याह;जइ हुंति कहविजइणो उवसग्गा बहुविहाहु दुहजणया। ते सहियव्वा प्रणं समभावणणाणचित्तेण ॥ ४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org