________________
टीकासहितः।
परिसहपराचक्काभिओ जइं तो पइसेहि गुत्तितयगुत्ति। ठाणं कुण सुसहावे मोक्खगयं कुणसु मणवाणं ॥४५॥
परीषहपरचक्रभीतो यदि तदा प्रविश गुप्तित्रयगुप्तिम् ।
स्थानं कुरुष्व स्वस्वमावे मोक्षगतं कुरुष्व मनोवाणम् ॥ ४६॥ भो क्षपक पइसेहि प्रविश तो तदा जइ परिसहपरचक्कभिओ यदि परीषहपरचक्रभीतः कर्मनिर्जरार्थ मुनिभिः परितः सर्वप्रकारेण सह्यंत इति परीषहाः परीषहा एव परचक्र शत्रुसैन्यं परीषहपरचक्र तस्माद्भीतः साध्वसाकांतः परीषहपरचक्रभीतः यदि त्वं दुःसहपरीषहवैरिवीररजनितभीतिचलितचित्तोसि तदा प्रविश । कं गुत्तितयगुतिं गुप्तित्रयगुप्तिं गोपनं गुप्तिः मनोवाक्कायानां सम्यग्निग्रहो गुप्तिः गुप्तीनां त्रयं गुप्तित्रयं गुप्तित्रयमेव गुप्तिः परीषहशत्रूणामगम्यं दुर्ग चिच्चमत्कारमात्रपरमब्रह्मलक्षणं । अब मनोवचनकायगुप्तिकारणं परमसमयसारानुचितनमेव । यदुक्तं-- “ अलमलमतिजल्पैर्दुर्विकल्पैरनल्पैरयमिह परमार्थश्चिंत्यतां नित्यमेकः । स्वरसविसरपूर्णज्ञानविस्फूर्तिमात्रन्न खलु समयसारादुत्तरं किंचिदस्ति " ॥ .. तथा ठाणं कुण सुसहावे पुनरपि कुरुष्व । किं तत् । स्थानमवस्थानं । कस्मिन् । स्वस्वभावे सहजशुद्धचिदानंदैकस्वभावे निजात्मनि । मुहुः शिक्षां यच्छन्नाह । मोक्खगयं कुणसु माणवाणं कुरुष्व । कं । मनोवाणं । मनश्चित्तं तदेवातिचंचलत्वाद्वाणः शरः मनोवाणस्तं मनोवाणं । कीदृशं कुरुष्व । मोक्षगतं सकलकर्मविप्रमोक्षो मोक्षस्तत्र गतः स्थितः मोक्षगतः तं मोक्षगतं अनंतसुखपदप्रतिष्ठितं निजमनो विधेहि । परीषहादिवैरिव्रातजनितातंकं हित्वेति भावार्थः । यथा कश्चिच्छूरः तनुत्राणेन तनुं परिवेष्य वै शाखादिस्थानं विरचयित्वा वाणं मोक्षगतं विसर्गगतं कुरुते तथा ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org