________________
टीकासहितः। श्रुतस्य यत् सारं रहस्यभूतं । किमर्थमाराधयतु । संसारमोक्खलु पंचप्रकारसंसारमोक्षार्थ भवविनाशार्थमिति ॥ ९० ॥ यैर्मोक्षणोर्थः स्वसात्कृतस्तत्प्रशंसामाह;धण्णा ते भयवंता अवसाणे सव्वसंगपरिचाए। काऊण उत्तमढे सुसाहियं णाणवंतेहिं ॥ ९१ ॥
धन्यास्ते भगवंतः अवसाने सर्वसंगपरित्यागं ।
कृत्वा उत्तमार्थ सुसाधितं ज्ञानवद्भिः ॥ ९१ ॥ __णाणवंतेहिं यैः ज्ञानवद्भिः ज्ञानं विद्यते येषां ते ज्ञानवंतः तैः ज्ञानवद्भिः विशुद्धज्ञानदर्शनस्वभावपरमात्मज्ञानसंपन्नैः परात्मज्ञानिनश्च संसारे त्रिचतुराः संति । यदुक्तं
विद्यते कति नात्मबोधविमुखाः संदेहिनो देहिनः प्राप्यते कतिचित्कदाचन पुनर्जिज्ञासमानाः क्वचित् । आत्मज्ञाः परमात्ममोदसुखिनः प्रोन्मीलदंतर्दृशो विवाः स्युर्बहवो यदि त्रिचतुरास्ते पंचषा दुर्लभाः ॥ इति यैर्ज्ञानवाद्भः। किं कृतं । सुसाहियं सुसाधितं स्वात्मसात्कृतं । किं तत् । उत्तमहं उत्तमार्थ मोक्षलक्षणपदार्थः । किंकृत्वा । काऊण कृत्वा । किं । सव्वसंगपरिचाए सर्वसंगपरित्यागं सर्वः स चासौ संगश्च सर्वसंगः बाह्याभ्यंतरपरिग्रहलक्षणस्तस्य परित्यागस्तं सर्वसंगपरित्यागं विधाय । कदा । अवसाणे अवसाने आयुःप्रांते अथवा अवसानमित्युपलक्षणं तेन बालकावस्थायां तरुणावस्थायां वृद्धावस्थायामपि सर्वसंगपरित्यागं विधाय उत्तमार्थः साधितः । सर्वसंगपरित्यागश्चानया रीत्या कृतः पुरातनराधुनिकैश्च कतिव्य इति तद्रीतिमाह । उक्तं च
स्नेहं वैरं संघ परिग्रहं चापहाय शुद्धमनाः। स्वजनं परिजनमपि च क्षात्वा क्षमयेत् प्रियैर्वचनैः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org