________________
टीकासहितः ।
९१
दसुधारससंभृतः स्फुटं निश्चितं भवतीत्यर्थः । एवं ज्ञात्वा विषयशून्यं ध्यान -- मवलंब्य स्वात्माराधनीयोऽनंतसौख्यं प्राप्सुनेति ॥ ७७ ॥
अधुना शून्यध्यानलक्षणमाह;
जत्थ ण झाणं ज्ञेयं झायारो णेव चिंतणं किंपि । णय धारणा वियप्पो तं सुण्णं सुद्ध भाविज्ञ ॥ ७८ ॥ यत्र न ध्यानं ध्येयं ध्यातारो नैव चिंतनं किमपि ।
न च धारणा विकल्पस्तं शून्यं सुदु भावयेः ॥ ७८ ॥
भो क्षपक तं सुणं सुट्टु भाविज्ज तत् शून्यं सुष्ठु अतिशयेन भावये -- स्त्वं जानीया इति भावार्थः । तत् किं । यत्र आर्तरौद्रधर्मशुक्लभेदाच्चतुर्विकल्पं ध्यानं नास्ति जिन सुगतहर ब्रह्मभेदाद्यने कविकल्पं ध्येयं च नास्ति तथा शायारो
शुचिः प्रसन्नो गुरुदेवभक्तः सत्यवतः शीलदयासमेतः । दक्षः पटुर्बीजपदावधारी ध्याता भवेदीदृश एव लोके ।
-
इत्यादिगुणोपेतो ध्यातापि नास्ति तथा यत्र णेव चिंतणं किंपि नैव । किंतत् । चितनं शुक्लकृष्णरक्तपीतादिकमन्यदपि शत्रुवधादिकं स्त्रीराजवश्यादिकं वा चिंतनं नास्ति । तथा ण य धारणा यत्र धारणापि नास्ति कालांतरादविस्मरणं धारणं तन्नास्तीत्यर्थः तथा वियण्णो असंख्येयलोकप्रमाणो विकल्पोपि नास्ति तच्छून्यं ध्यानं अर्थान्निर्विकल्प समाधिलक्षणं ध्यानं निःसंदेहं भावयेरिति । ईदृग्विधशून्यतापरिणतो ध्याता नयपक्षपातोज्झितः स्वरूपगुप्तो भवति । यश्व स्वरूपगुप्तः स परमानंदामृतमेवास्वादयति । यदुक्तं
•
य एव मुक्त्वा नयपक्षपातं स्वरूपगुप्ता निवसति नित्यम् । विकल्पजालच्युतशांतचित्तास्त एव साक्षादमृतं पिवति ॥
अनुच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org