SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ टीकासहितः । ४५ हवइ भवति किसिसु कृषितेषु संज्वलनतां गतेषु कसाएसु कषायेषु च सत्सु झाणे ध्याने परमात्मस्वरूपचिंतायां धर्मशुक्ललक्षणे सवणो श्रमणो भट्टारको महात्मा विवेकी थिरो स्थिरो निश्चलात्मा हवइ भवति कषायकृषीकरणेन ध्यानस्थिरतां विधाय परमात्मानं चिंतयेति तात्पर्यम् ॥ ३८ ॥ संन्यस्ताः कषायाः किं न कुर्वतीत्याह; - सल्ले हिया कसाया करंति मुणिणो ण चित्तसंखोहं । चित्तक्खोहेण विणा पडिवज्जदि उत्तमं धम्मं ॥ ३९ ॥ सल्लेखिता कषायाः कुर्वेति मुनेर्न चित्तसंक्षोभम् । चित्तक्षोमेन विना प्रतिपद्यते उत्तमं धर्मम् ॥ ३९ ॥ 1 सल्लेहिया सल्लेखिताः संन्यस्ताः परित्यक्ताः कसाया कषायाः मुणिणो मुनेर्महात्मनः चित्तसखोहं चित्तसंक्षोभं मनोविक्षेपं ण करंति न कुर्वेति चित्तक्खोहेण विणा चित्तक्षोभेण विना मनोविक्षेपरहितेन उत्तमं परमकोटिमारूढं धम्मं धर्मः स्वस्वरूपस्वभावं प्रतिपद्यते स कषायसं -- न्यासी मुनिः प्राप्नोति । स्वस्वरूपलाभाय भव्यैः कषायसंन्यासो विधेय इति रहस्यं ॥ ३९ ॥ एवं कषायसल्लेखनानिर्देशस्वरूपकथनप्रपंचेन गाथाषट्रं । गता कषायसल्लेखना । अधुना " सीयाई " इत्यादि गाथासप्तकेन क्रमा यातं च चतुर्थस्थलगतं परीषहजयं कारयति इति समुदायपातनिका । सत्रादौ कति संख्याः परीषहाः किंस्वरूपा निर्दिष्टाः किं ते केन कर्तव्या इत्याह-सीयाई बावीसं परिसहसुहडा हवंति णायव्वा । जेयव्वा ते मुणिणा वरउवसमणाणखग्गेण ॥ ४० ॥ शीतादयो द्वाविंशतिः परीषहसुभटा भवंति ज्ञातव्याः । जेतव्यास्ते मुनिना वरोपशमज्ञानखङ्गेन ॥ ४० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy