________________
३२
आराधनासारः
प्रथमायां न दोषः । बाह्याभ्यंतरपरिग्रहलक्षणः संगस्तस्य त्यागः परित्यजनं तं । न केवलं संगत्यागं । कृत्वा कसायसल्लेहणा य कषायसल्लेखनां च कषायाः क्रोधमानमायालोभलक्षणास्तेषां सल्लेखना संन्यासः सर्वथा परिहारः तां कषायसल्लेखनां । किंविशिष्टां। कायव्वा कर्तव्यां मुमुक्षभिरवश्यमेव करणीयां तदकरणे साध्यसिद्धरभावात् । न केवलं कर्तव्यां कषाय-- सल्लेखनां च । कृत्वा । विजयमभिभवं । कासां । परीषहचमूनां बुभुक्षादिद्वाविंशतिपरीषहसेनानां । न केवलं परीषहचमूनां विजयं । कृत्वा सहणं सहनं मर्षणं क्षमणमिति यावत् । केषां । उवसग्गाणं उपसर्गाणां सचेतनाचेतनेभ्यः समुत्पन्नोपप्लवानां । कथं । तहा तथा । न केवलं उपसर्गाणां सहनं जओ जयं विजयलक्षणं । केषां । इंदियमल्लाण इंद्रियमल्लानां स्पर्शनादिलक्षणानि पंचेंद्रियाणि तान्येव महासुभटास्तेषां । न केवलं इंद्रियमल्लानां जयं । संजमणं संयमनं संकोचनं । कस्य । मणगयपसरस्स मनोगजप्रसरस्य मनश्चित्तं तदेव गजो हस्ती तस्य प्रसरः स्वेच्छापरिभ्रमणं तस्य प्रथमम) भूत्वा संगत्यागं करोति तदनु कषायसल्लेखनां करोति पुनः परीषहसेनां जयति तथा उपसर्गान् सहते इंद्रियमल्लानां च जयं करोति मनोगजप्रसरं च निरोधयति । एवं सामग्री संमील्य क्षपकः कर्माणि क्षपयतु। इति सप्तमस्थलसमुदायसूचनायां गाथाद्वयं गतं ॥२२॥२३॥ इदानीमादावेव निर्दिष्टस्याहस्य लक्षणमाह अस्यैव ज्येष्ठत्वात् ;छंडियगिहवावारो विमुक्कपुत्ताइसयणसंबंधो। जीवियधणासमुक्को आरिहो सो होइ सण्णासे ॥२४॥ त्यक्तगृहव्यापारः विमुक्तपुत्रादिस्वजनसंबंधः ।
जीवितधनाशामुक्तः अर्हः स भवति सन्न्यासे ॥ २४ ॥ होइ भवति । कोसौ। अरिहो अर्हः योग्यः । क्व । सण्णासे संन्यासे अयोग्यहानयोग्योपादानलक्षणसंन्यासः तस्मिन् । स किंविशिष्टो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org