________________
टीकासहितः।
७१
इंदियवाहेहिं इंद्रियव्याधैः इंद्रियाण्येव व्याधा आखेटिकाः परनिमितसुखरूपपलाभिलाषित्वेन स्वव्यापारे प्रवर्तमानत्वात् । तैरािंद्रयव्याधैः हया हता घातिताः शल्यगोचरीकृताः सरपीडापीडियंगचलचित्ता शरपीडापीडितांगचलचित्ताः । शरो बाणः । बाणस्थानीयोत्र क इति चेत् । शरशब्देन स्मरो लभ्यते प्राकृतलक्षणदर्शनत्वात् स्मर एव शरः । शरशब्द एक एवेति चेत् नास्ति दोषः । एकस्मिन्नेव शब्देऽपि मुख्योपचारयोरुभयार्थयोः प्राप्यमाणत्वात् । न भवेदिति चेत् तदा चिंत्यमेतत् दूष्यं वैदुष्यैः । स्मररूपशरस्य पीडा बाधा तया पीडितांगे बांधितांगे सति चलचित्ता लोलमनसः जणहरिणा जनहरिणाः जना एव हरिणा मृगाः कत्थवि कुत्रापि रइ रतिं ण कुणंति न कुर्वति । कस्मिन्नपि स्थाने स्वगततत्त्वे परगततत्त्वे वा शास्त्रश्रवणे देवपूजायां आर्तरौद्रपरिहारनिमित्तमन्यस्मिन्नपि शुभावलंबने वा न रज्यंते न स्थितिं कुर्वति स्थातुमपि न वांछंतीत्यर्थः । कस्मात् । अनादिकर्मबंधवशादनंतवीर्यावरणेनात्मनोऽधैर्यप्रादुर्भावात् । तदा ते किं कुर्वतीति प्रश्ने। विसयवणं जंति विषयवनं यांति विषया एव वनं विषयवनं यांति गच्छंति । यथा व्याधेन बाणेन बाधिताः चलचित्ता भूत्वा कुत्रापि रतिमकुर्वाणा मृगा धनमाश्रयति तथेंद्रियैरमनस्कतां नीता स्मरपीडनेन चलचेतसो जाता जनाः कुत्रापि रतिं न कुर्वति । तर्हि किं कुर्वति । स्रक्चंदनवनितादीन विषयानेव सेवंते येषु सेवितेषु तदलाभे सति इहैव दारुणं दुःखं भवति, परभवे नरकतिर्यग्योन्यादेर्भूरि दुःखान्यनुभवंति । एवं ज्ञात्वेंद्रियविजयं विधाय परमात्मध्यानविधानं विधीयतामिति तात्पर्यम् ॥ ५३॥
ननु समस्तसंन्यस्तत्वेन प्रतिज्ञानिष्ठानां यदि विषयाभिलाषः स्यान तु सेवने प्रवृत्तिस्तदा किंचिद्रूपं प्रादुर्भवतीति वदंतं प्रत्याह;सव्वं चायं काऊ विसए अहिलससि गहियसण्णासे । जइ तो सव्वं अहलं दंसण णाणं तवं कुणसि ॥ ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org