________________
विश्वतत्त्वप्रकाशः
[ ११
२२
[११. अदृष्टसमर्थनम् । ]
अथ अदृष्टास्तित्वं कथं निश्चीयत इति चेदुच्यते । अनुभूयमानं सुखदुःखादिकं निर्हेतुकं सहेतुकं वा । निर्हेतुकत्वे सुखादिकं सर्वदा सदेव स्यात् निर्हेतुकत्वात् पृथ्वीवत् । अथवा सुखादिकं सर्वदा असदेव स्यात् निर्हेतुकत्वात् खरविषाणवदित्यतिप्रसंगः स्यात् । न चैवं, कादाचित्कत्व - दर्शनात् । ततः सहेतुकत्वमङ्गीकर्तव्यम् । तत्रापि समानोद्योगिनां मध्ये कस्यचित् संपूर्णफलं कस्यचित् त्रिपादफलं कस्यचिदर्धफलं कस्यचिनिष्फलं कस्यचिद् विपरीतफलं भवतीति दृष्टकारणव्यभिचारात् " विचित्रमदृष्टकारणमस्तीति निश्चीयते । एवं च सति स्वकृतादृष्टात् स्वकीयपदार्थस्तुतिपूजादिव्याजेन स्वस्यैव सुख दुःखोत्पत्तेः कृतनाशाकृताभ्यागमदोषस्याप्रसंगः नापसिद्धान्तापातोऽपि । एतेन यदप्यनुमानद्वयमभ्यधायि - स्तुतिपूजादयो नादृष्टप्रभवाः स्तुतिपूजादित्वात् शिलादीनां स्तुतिपूजादिवत् वीतं चित्रं नादृहप्रभवं विचित्रत्वात् पाषाणादिवैचित्र्यवदिति, तन्निरस्तम् । उभयत्र दृष्टान्तस्य साध्यविकलत्वात् ।
११. अब अदृष्ट का अस्तित्व स्पष्ट करते हैं । जीव को सुखदुःखदि का जो अनुभव मिलता है वह अकारण नही है | अकारण वस्तु या तो पृथ्वी आदि के समान सर्वदा विद्यमान होती है या खरविषाण के समान कभी विद्यमान नही होती । सुखदुःख का अनुभव सर्वदा विद्यमान या सर्वदा अविद्यमान नही है - कादाचित्क है अतः वह अकारण नही है । दूसरे, समान काम करनेवाले जीवों में किसी को उस काम का पूरा फल मिलता है, किसी को पौन भाग, किसी को आधा फ मिलता है । किसी का काम निष्फल होता है तो किसी को उलटा फल भी मिलता है । इस विचित्रता का कोई दृष्ट कारण नही है अतः अदृष्ट कारण होना चाहिये । इस प्रकार पृथिवीकांयिक जीव को उसी के द्वारा किये कर्म का स्तुतिपूजादि फल मिलता है अतः कृतनाश या अकृताभ्यागम दोष की यहां सम्भावना नही है तथा हमारे सिद्धान्त के विरुद्ध
१ भो चार्वाक जैनः पृच्छति । २ सुखदुःखस्य च कादाचित्कत्वदर्शनात् । ३ सुखदुःखादेः। ४ समान उद्यमीनाम् । ५ समानोद्योगः दृष्टकारणं तस्य व्यभिचारः कथं समानोद्योगेऽपि कस्यचित् संपूर्णफलं कस्यचित् त्रिपादफलम् इत्यादि व्यभिचारः । ६ त्वया चावण |