________________
-४१]
भ्रान्तिविचारः
१२९
मूकादीनां स्मरणेऽपि तच्छब्दोच्चारणं न श्रूयते इत्येतावता तेषामपि तदंशज्ञानं न स्यात् । तथा च मूकादीनां दत्तनिक्षेपादिषु प्रवृत्यभाव एव स्यात् । न चैवं तस्मात् स्मरणं सर्वमपि तदंशग्रहणत्वेनैवोत्पद्यत इति अङ्गीकर्तव्यम् ।
यदप्यन्यदचूचुदत्-रजतज्ञानस्य स्मरणरूपत्वं पारिशेषप्रसिद्ध पुरोदेशे निवेशिपदार्थस्य रजतज्ञानालम्बनत्वासंभवात्। तथा हिपुरोदेशे निवेशि वस्तु रजतज्ञानालम्बनं न भवति रजतत्वासमवायित्वात् शुक्तित्वात् प्रसिद्धशक्तिवदिति-तदप्ययुक्तमेव । हेतोः कालात्ययापदिष्टत्वात् । कुतः एतावत्कालपर्यन्तमिदं शुक्तिशकलमेव रजतत्वेन प्रत्यभा. दिति प्रत्यभिज्ञानप्रत्यक्षेण पक्षस्य बाधितत्वात्। तस्माद् वीतं रजतक्षानं पुरोवर्तिवस्तुविषयं पुरोवर्तिवस्तुनैव पुरुषस्य प्रवर्तकत्वात् सत्यरजतज्ञानवत् । तथा वीता प्रवृत्तिः पुरोवर्तिरजतज्ञानपूर्विका रजतेच्छाधीनपुरोवर्ति प्रवृत्तित्वात् संप्रतिपन्न प्रवृत्तिवत् । तथा वीता प्रवृत्तिः एकानुभवपूर्विका प्रवृत्तित्वात् प्रसिद्धप्रवृत्तिवत् । तथा इदं रजतमिति व्यवहारः एकानुभवपूर्वकः१० समानाधिकरण१व्यवहारत्वात् नीलमुत्पलमितिव्यवहारवत् इति प्रतिपक्षसिद्धिः। यदप्यन्यदनूद्यापास्थत्-अथ नयनदोषवशात् शुक्तिशकलमेव रजतत्वेन प्रतिभासते इति न रजतज्ञानं स्मरणमिति चेन्न शुक्तिन रजतत्वेनावभासते तद्रूपेणासत्त्वात् पाषाणवदिति प्रमाण. अन्तर है। गंगे लोग भी ' यह वह है ' ऐसा कह तो नही सकते किन्तु जान सकते हैं । इसी प्रकार शब्द से अर्थ के स्मरण में तथा अभावरूप स्मरण में 'वह वस्तु ' यह अंश अवश्य होता है - (ऐसा अंश प्रस्तुत चांदी के ज्ञान में नही होता अतः यह ज्ञान स्मरण नही है)।
आगे पडी हुई वस्त सीप है - चांदी नही है, अतः यह वस्त चांदी के ज्ञान का आधार नही हो सकती - इसलिए चांदी के ज्ञान को स्मरणरूप मानना चाहिए - यह कथन भी उचित नही। जब 'यह सीप है' ऐसा ज्ञान हो जाता है तब पुरुष को यह भी प्रतीत होता है कि 'यही सीप अबतक चांदी प्रतीत हो रही थी' इस प्रतीति से स्पष्ट है कि चांदी के ज्ञान का आधार यह सीप ही है। यदि सीप इस ज्ञान
१ घटादि। २ मूकादीनाम् । ३ पदार्थांश । ४ शुक्तौ। ५ शुक्तिलक्षणस्य । ६ वस्तुनि ।: ७ घटादिप्रवृत्तिवत् । ८ इदं रजतम् इति । ९ न स्मरणं प्रत्यक्षमेव । १० रजतानुभवपूर्वकः । ११ शुक्ताविदं रजतम् । वि.त.९