________________
इन्द्रियविचारः
-६९ ]
.२३१
न्धेन संबद्धस्यैव रूपादेः पुरुषादिपटादिविशेषणत्वदर्शनात्' । अथ गोमान् धनवानित्यादिषु गोधनादीनां संबन्धरहितानामपि विशेषणत्वं दृश्यत इति चेत् तर्हि तवैव तत्र विशेषणविशेष्यभावो दुर्घटः स्यात् । विशेषणं विशेष्यं च संबन्धं लौकिकीं स्थितिम् ।
गृहीत्वा संकलय्यैतत् तथा प्रत्येति नान्यथा ॥ [ प्रमाणवार्तिक ३-१४५] इति स्वयमेवाभिधानात् । तस्मात् षोढासंनिकर्ष कल्पनं खपुष्पपरिकल्पनमिव प्रतिभासते विचारासहत्वात् । तथा स्पर्शनं वायवीयं न भवति इन्द्रियत्वात् दुःखित्वात् चक्षुर्वत्, ज्ञानकरणत्वात् मनोवदिति च । तथा घ्राणं पार्थिवं न भवति इन्द्रियत्वात् चक्षुर्वत् ज्ञानकरणत्वात् मनोवदिति च । तथा रसनमाप्यं न भवति इन्द्रियत्वात् चक्षुर्वत् ज्ञानकरणत्वात् मनोवदिति च । तथा श्रोत्रं नाभसं न भवति इन्द्रियत्वात् चक्षुर्वत् ज्ञानकरणत्वात् मनोवदिति च सर्वेषां प्रतिपक्षसिद्धिः । तर्हि इन्द्रि - याणां कुतो निष्पत्तिरिति चेत् तत्तदिन्द्रियावरणक्षयोपशमविशिष्टाङ्गोपाङ्गनामकर्मोदयादिति पुद्गलेभ्यस्तेषां निष्पत्तिरिति ब्रूमः । तस्मात् श्रोत्रेन्द्रियस्य नाभसत्वनिषेधेन पौद्गलिकत्वसमर्थनात् रूपादिमत्वसिद्धेः मनोद्रव्यं रूपादिमद् भवति ज्ञानकरणत्वात् श्रोत्रवदिति न साध्यविकलो दृष्टान्तः स्यात् । तथा च मनोद्रव्यस्य रूपादिमखेन पुद्गलत्वान्न भिन्नद्रव्यत्वम् ।
1
1
संभव है । किन्तु यह वैशेषिक मत के ही अन्य कथन से विरूद्ध है । कहा भी है - ' विशेषण, विशेष्य, सम्बन्ध तथा लौकिक स्थिति इन सबका ज्ञान तथा संकलन होनेपर ही वैसी प्रतीति होती है, अन्यथा नहीं । " अतः दृश्याभाव एवं समवाय का विशेषणविशेष्यभाव से सम्बन्ध होना संभव नही है । तात्पर्य, संयोग आदि छह प्रकारों से इन्द्रिय और पदार्थों के संनिकर्ष की कल्पना निराधार सिद्ध होती है । स्पर्शन आदि इन्द्रिय ज्ञान के साधन हैं, दुखःरूप हैं तथा इन्द्रिय हैं अतः मन के समान ये सब भी पृथ्वी आदि से उत्पन्न नही हो सकते । तब इन इन्द्रियों की उत्पत्ति कैसे होती है यह प्रश्न हो सकता है। उत्तर है - इन्द्रियों के ज्ञानावरण कर्म के क्षयोपशम से तथा अंगोपांग नामकर्म के उदय से पुद्गलों से ये इन्द्रिय बनते हैं । कणन्द्रिय आकाश निर्मित नहीं है, पुद्गलनिर्मित है, उसी प्रकार मन भी पुद्गानिर्मित है - स्पर्शरहित द्रव्य नही है ।
१ यथा पुरुषः दण्डी पटः वान् इत्यादि । २ संकलनं कृत्वा ।