________________
-३८] प्रामाण्यविचारः
१०९ निरवयवत्वात् अनणुकत्वे सति बाह्येन्द्रियाग्राह्यत्वात् अजडत्वात् अविबोधकत्वात् व्यतिरेके चर्मादिवत् । ननु ज्ञानं न स्वसंवैध शरीरकार्यत्वात् उच्छ्वासवदिति चेन्न । एतस्य हेतोरपि. पूर्ववदसिद्धत्वात् । कुतः शानं शरीरकार्य न भवति इत्यत्रापि उक्तहेतूनां समानत्वात् । नतु शानं न स्वसंवेद्यं शरीरगुणत्वात् रूपादिवदिति चेन्न। ज्ञानस्य शरीरगुणत्वासिद्धेः । कुतः ज्ञानं न शरीरगुणः चेतनत्वात् अणुद्वयणुकानाश्रितत्वे सति बाह्येन्द्रियाग्राह्यत्वात् अजडत्वात् स्वप्रतिबद्धव्यवहारे संशयादिव्युदासाय परानपेक्षत्वात् अर्थावबोधरूपत्वाच्च व्यतिरेके शरीररूपवदिति। तस्मात् ज्ञानं स्वसंवेद्यम् अर्थसंवेदनरूपत्वात् स्वप्रतिबद्धव्यवहारे संशयादिव्युदासाय परानपेक्षत्वात् अजडत्वात् चिद्रूपत्वात् च व्यतिरेके पटादिवदिति चार्वाकं प्रति ज्ञानस्य स्वसंवेदनत्वसिद्धिः।
ननुशानं न स्वसंवेद्यं प्रकृतिपरिणामत्वात् पटादिवदिति चेन। ज्ञानस्य प्रकृतिपरिणामत्वासिद्धेः। अथ ज्ञानं प्रकृतिपरिणामः उत्पत्तिमत्वात् पटादिवदिति ज्ञानस्य प्रकृतिपरिणामत्वसिद्धिरिति चेन्न। अनुअग्राह्य है तथा शरीर अचेतन, मूर्त, सावयव, बाह्य इन्द्रियों से ग्राह्य है इस प्रकार इन दोनों की भिन्नता पहले स्पष्ट की है। इसी प्रकार ज्ञान को शरीर का कार्य अथवा शरीर का गुण मानने का भी पहले खण्डन किया है। अतः ज्ञान के स्वसंवेद्य होने में यह कोई बाधा नही है। ज्ञान के विषय में कोई सन्देह हो तो उस का निराकरण ज्ञान द्वारा ही होता है - किसी दूसरे द्वारा नही होता अतः ज्ञान को स्वसंवेद्य मानना चाहिये - इस प्रकार चार्वाकों की आपत्ति का निराकरण हुआ।
अब सांख्यों की आपत्ति का विचार करते हैं । ज्ञान प्रकृति का परिणाम है ( अतः जड है इस लिए )- वह वस्त्र आदि के ही समान
१ यच्छरीरात्मकं भवति तच्चेतनं न भवति यथा चर्मादि । २ ज्ञानं शरीरात्मकं न भवति चेतनत्वादित्यादयः। ३ अणुद्वयणुकव्यतिरिक्ते सति । ४ यस्तु शरीरगुणः स न चेतनः यथा शरीररूपम् । ५ यत् स्वसंवेद्यं न भवति तत् अर्थवेदनरूपं न भवति यथा पटः। ६ अथ सांख्यः प्रत्यवतिष्ठते। ७ प्रकृतिरचेतनाज्ञानमपि सांख्यमते अचेतनम् । ८ यस्तु उत्पत्तिमान् स प्रकृतिपरिणामः यथा पटादिः ।
war