________________
-२७]
सर्वज्ञसिद्धिः
७१
रपि सकलदेशकालं धर्मिणं गृह्णाति तदविनाभूतकल्पनाभावात्' । अभावं च न भावग्राहकं प्रमाणं किंत्वभावग्राहकमेव । तस्मान्मीमांसकानां धर्मिग्राहकप्रमाणाभावादाश्रयासिद्धो हेत्वाभासः २ । अथ पराभ्युपगमात् प्रसिद्धौ देशकालौ धर्मीक्रियेते इति चेत् तर्हि पराभ्युपगमः स्वस्य प्रमाणमप्रमाणं वा । प्रमाणं चेत् तर्हि पराभ्युपगमादेव सर्वशसहितत्वमप्यस्तु, अविशेषात् । ततः कालात्ययापदिष्टत्वं हेतोः । अप्रमाणं चेदाश्रयासिद्धो हेतुः स्यात् ।
किं च । एतद्देशकालप्रवर्तनां दृष्ट्वा सर्वत्र सर्वदा तथा प्रसाधयतां लोकायतमीमांसकानां मते सुरगुरुजैमिन्यादीनां सहस्रशाखावेदपारगाणामश्वमेधादियागकर्तॄणामध्यभावः स्यादित्यतिप्रसज्यते । तथा हि विमतौ देशकालौ सुरगुरु जैमिन्यादिरहितौ देशकालत्वात् एतद्देशकालवदिति स्वव्याघातोत्पत्तिप्रसंगत्वादेवंविधः प्रयोगो न कर्तव्यः । से स्वीकार किया है यह कथन भी ठीक नहीं । दूसरों का कथन ही मानना हो तो सर्वज्ञ का अस्तित्व भी मानने में क्या दोष है ?
इस देश तथा काल में सर्वज्ञ नही हैं अतः किसी देश या काल में सर्वज्ञ नही होते इस कथन की व्यर्थता निम्न उदाहरण से स्पष्ट होगी । इस देश तथा काल में बृहस्पति – जो कि चार्वाक दर्शन के प्रणेता माने गये हैं – नही हैं अतः किसी देश या काल में बृहस्पति नही हो सकते; क्या ऐसा कहना ठीक है ? मीमांसा दर्शन के प्रणेता जैमिनि, हजार शाखाओं में विभक्त वेद के ज्ञाता, अश्वमेधादि यज्ञ करनेवाले - ये सब इस देश तथा इस काल में नही हैं अतः वे किसी देश या काल में नही हो सकते यह कहना क्या उचित होगा ? उसी प्रकार इस देश तथा समय को देखकर सभी देश तथा समयों में सर्वज्ञ का अभाव मानना अनुचित है ।
१ सदृशकल्पकानाम् । २ देशकालत्वादयं हेतुः हेत्वाभासः । ३ तव मते । ४ देशकालयोः सर्वज्ञसहितत्वमस्तु । ५ हेतुना देशकालौ सर्वज्ञरहितौ साध्येते, पराभ्युपगमात् सर्वज्ञसहितौ देशकालौ भवतः इतिकालात्ययापदिष्टत्वं हेतोः । ६ दूषणान्तरम् । ७ सर्वज्ञो नास्तीति प्रसाधयताम् । ८ लोकायतानां मूलगुरुः सुरगुरुः मीमांसकानां मतस्य कर्ता जैमिनिः ।