________________
-३२ ]
वेदप्रामाण्यनिषेधः
कत्व भावात्' नास्तीत्यनुपाघित्वमिति । तस्य साध्यव्यापकत्वाभावः कथमिति चेत्,
व्यावर्तकं हि यद् यस्य स्वव्यावृत्तिवशादिह । तदूव्यापकं परं व्याप्यं गमकं व्यापकस्य तत् ॥
इति व्याप्यव्यापकयोर्लक्षणम् । तथा च पुरतः क्रियमाणकार्येषु स्मर्यमाणकर्तृकत्वाभावेऽपि पौरुषेयत्वसद्भावात् साध्याव्यापकत्वमिति । अथ ज्ञायमान कर्तृत्वमुपाधिरिति चेत् तर्हि ज्ञायमानसाध्यत्वमुपाधिरित्युक्तं स्यात् । तथा च साधनव्यापकत्वेन नोपाधित्वम् । अयमेकः प्रकारः । किं च । अस्मादनुमानं प्रतिसोपाधिकत्वसमर्थकस्य तवानुमानस्यापि तथा सोपाधिकत्वप्रसंगे स्वव्याघातित्वं स्यात् । अथ पौरुषेयत्वे कृतबुद्ध्युत्पादकत्वमुपाधिर्भविष्यतीति चेन्न । तस्याप्युपाधिलक्षणाभावात् । कुतः
वाक्य पौरुषेय नही हैं यह कथन भी सम्भव नही है । यह पहले स्पष्ट किया ही है कि जो पौरुषेय हैं उन के कर्ता का स्मरण हो ही यह आवश्यक नही । ( वाक्यों के पौरुषेय होने में इन पृष्ठों में जिन उपाधियों का वर्णन किया है उन का तान्त्रिक विवरण मूल पाठ से देखना चाहिए ।) अर्थात जिस के कर्ता का स्मरण नही है वह अपौरुषेय है यह भी नियम नही है । यदि कहें कि जिन वाक्यों के विषय में 'ये कृत हैं ' ऐसा ज्ञान होता है वे ही वाक्य पौरुषेय हैं तो इस से भी वेदवाक्य पौरुषेय ही सिद्ध होते हैं क्यों कि वेदवाक्यों के विषय में भी ' ये कृत है ' यह ज्ञान होता ही है । जिन वाक्यों की रचना शक्य हो वेही पौरुषेय होते
१ यत्र यत्र पैारुषेयत्वं तत्र तत्र स्मर्यमाणकर्तृत्वम् इति वक्तुं न पार्यते पिटकत्रये पौरुषेयत्वमस्ति स्मर्यमाणकर्तृव नास्ति । २ यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति अत्र अग्निर्व्यावर्तमानः धूममपि व्यावर्तयति अग्निस्तु व्यापकः घूमस्तु व्याप्यः । स्मर्यमाणकर्तृत्वं
व्यापकं व्यापकं किं यत् स्वव्यावृत्त्या अन्यव्यावर्तकं तत् व्यापकं स्मर्यमाणकर्तृत्वं निवर्तमानं सत् पौरुषेयत्वं साध्यं न व्यावर्तयति । २ साध्यं पौरुषेयत्वम् । ४ ज्ञायमानकर्तृत्वं साधनेऽपि वर्तते । ५ वेदवाक्यानि पौरुषेयाणि वाक्यत्वात् कादम्बरीवाक्यवत् इति । ६ वेदाः प्रमाणम् अपौरुषेयत्वात् संप्रतिपन्नलिङ्गवत् इति यत्र यत्र अस्मर्यमाणकर्तृत्वं तत्र तत्र अपौरुषेयत्वम् इति वक्तुं न पार्यते तेन साधनाव्यापकत्वं यत्र यत्र स्मर्यमाणकर्तृत्वं तत्र तत्र प्रमाणत्वम् इति साध्यसमव्याप्तिः ।