Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१६
मेण्ठ–लञ्चा-लाकुटिक-लयनिका - गल्वर्कप्रभृतयोऽश्रुतपूर्वा अपत्यस्था अपूर्वापूर्वशब्दरत्नाकरा - मककविकृतित्वमपि व्यतिरेकः ॥
“तिलकमञ्जरीमञ्जरिरसम्झरिलोल द्विपश्चिद लिजाल: 1
12
प्रकृतमहाकवे - जैनारण्येऽसालः कोऽपि रसालः पकाल धनपालः || १ || रितिवृत्तम् अस्ति काचिदखण्डब्रह्माण्डमण्डलाखण्डलस्य मत्यैर्भुवनमण्डलस्य महामहिषीवसीम सौभाग्य सम्पद्विशाला भारतमहाभूरुहोतुङ्गशाला विशालानाम्नी समfararat नगरी |
अदसीयमध्यप्रदेशसंकाशमान 'सकाश्य' समाख्यनिवेशलब्धजन्मा 'देवर्षि' नामा भूदेवर्षिरासीत् ।
तस्यानेकश्रीमन्मान्यन्य स्वसद्वैदुष्यसन्तुष्यदवनीपतिततिप्रतिपादितातिमात्रधनसम्पदा दान्यस्य श्रम-क्रमाम्यामभ्यस्तसमस्तवाङ्मयः सकलासु ललितकलासु कलितनिरतिशयोदयः 'सर्वदेव' नामाऽऽत्मजन्मा बभूव । तस्य 'धनपाल 'नामा ज्यायान्, 'शोभन' नामा च कनीयांस्तनूजन्मा, तयोः कनीयसी 'सुन्दरी'नाम्नी चैका कन्यका समजनि ।
तत्कुटुम्बनिकुरम्बमितस्ततो विघटितमपि सिन्धुराजसमये - ऽवन्तिराजधान्या एवान्तर्न्यविविक्षतेति लक्ष्यते । समुल्लसद्विमल- विप्रकुलचालतोचितबाह्यन्तरद्युतिजालः श्रीधनपाल : शैशवादेवाभ्यस्यन्नविकलया कलया साकमखिलवेद-वेदाङ्ग-स्मृतीतिहास-पुराणेषु प्रकाण्डपाण्डित्यमापनस्तरुणिमनि 'धनश्री' नाम्नीमतिकुलीनां कन्यकामुदवोद |
स च मालवदेशाधिपतेर्मुञ्जराजस्य, तद्भ्रातृव्यस्य भोजराजस्य च समकालिकः श्रूयते । १०३१ वैक्रमसंवत्सरादारभ्य १९७८ वैक्रमसंवत्सरं यावन्मुञ्जराजस्य राज्यसमय आसीत्, ततः पश्चाच्च तेन स्वपदेऽभिषिक्तस्य भोजराजस्य ।
राजसभायामतिकमनीयाशुतरकवित्वव्युत्पच्या पत्युत्पन्नप्रतिपच्या च तयोः समन्तादन्तस्तपयन्नसौ तत्सदस्यानां कवीनामुत्तमाङ्गमणितामापेदे । मुञ्जराजः स्वसभामभ्यागच्छन्तममुं प्रत्यक्षसरस्वतीपदेन व्याहरन्नतीर सत्करोति स्म कृत्रिमपुत्रवद्व्यवहरति स्म च ।
सच धनपालः कदाचन स्वपितुरुपाश्रयमभ्यागतेन वर्धमानसरिणा पुत्रमेकं स्वशिष्यताम्प्रतिग्राहयितुम्प्रतिज्ञापितेन स्वपित्राऽत्यन्तमागृहीतोऽपि जैनधर्मविद्वेषितया न मनागपि जिघृक्षाश्चकार जैनदीक्षाम्, प्रत्युत "हस्तिना ताड्यमानोऽपि न गच्छेजैनमन्दिरम् " इत्येवमाहं तमतमशोभनमुपदिशन् निजानुजं शोभनमपि ततो वारयामास ।
तथापि पितुः प्रतिज्ञाभङ्गपातकभयेन पित्राज्ञा - भ्रात्राज्ञयोर्बलाबलविचारेण पित्राज्ञाया एव
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 196