SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ १६ मेण्ठ–लञ्चा-लाकुटिक-लयनिका - गल्वर्कप्रभृतयोऽश्रुतपूर्वा अपत्यस्था अपूर्वापूर्वशब्दरत्नाकरा - मककविकृतित्वमपि व्यतिरेकः ॥ “तिलकमञ्जरीमञ्जरिरसम्झरिलोल द्विपश्चिद लिजाल: 1 12 प्रकृतमहाकवे - जैनारण्येऽसालः कोऽपि रसालः पकाल धनपालः || १ || रितिवृत्तम् अस्ति काचिदखण्डब्रह्माण्डमण्डलाखण्डलस्य मत्यैर्भुवनमण्डलस्य महामहिषीवसीम सौभाग्य सम्पद्विशाला भारतमहाभूरुहोतुङ्गशाला विशालानाम्नी समfararat नगरी | अदसीयमध्यप्रदेशसंकाशमान 'सकाश्य' समाख्यनिवेशलब्धजन्मा 'देवर्षि' नामा भूदेवर्षिरासीत् । तस्यानेकश्रीमन्मान्यन्य स्वसद्वैदुष्यसन्तुष्यदवनीपतिततिप्रतिपादितातिमात्रधनसम्पदा दान्यस्य श्रम-क्रमाम्यामभ्यस्तसमस्तवाङ्मयः सकलासु ललितकलासु कलितनिरतिशयोदयः 'सर्वदेव' नामाऽऽत्मजन्मा बभूव । तस्य 'धनपाल 'नामा ज्यायान्, 'शोभन' नामा च कनीयांस्तनूजन्मा, तयोः कनीयसी 'सुन्दरी'नाम्नी चैका कन्यका समजनि । तत्कुटुम्बनिकुरम्बमितस्ततो विघटितमपि सिन्धुराजसमये - ऽवन्तिराजधान्या एवान्तर्न्यविविक्षतेति लक्ष्यते । समुल्लसद्विमल- विप्रकुलचालतोचितबाह्यन्तरद्युतिजालः श्रीधनपाल : शैशवादेवाभ्यस्यन्नविकलया कलया साकमखिलवेद-वेदाङ्ग-स्मृतीतिहास-पुराणेषु प्रकाण्डपाण्डित्यमापनस्तरुणिमनि 'धनश्री' नाम्नीमतिकुलीनां कन्यकामुदवोद | स च मालवदेशाधिपतेर्मुञ्जराजस्य, तद्भ्रातृव्यस्य भोजराजस्य च समकालिकः श्रूयते । १०३१ वैक्रमसंवत्सरादारभ्य १९७८ वैक्रमसंवत्सरं यावन्मुञ्जराजस्य राज्यसमय आसीत्, ततः पश्चाच्च तेन स्वपदेऽभिषिक्तस्य भोजराजस्य । राजसभायामतिकमनीयाशुतरकवित्वव्युत्पच्या पत्युत्पन्नप्रतिपच्या च तयोः समन्तादन्तस्तपयन्नसौ तत्सदस्यानां कवीनामुत्तमाङ्गमणितामापेदे । मुञ्जराजः स्वसभामभ्यागच्छन्तममुं प्रत्यक्षसरस्वतीपदेन व्याहरन्नतीर सत्करोति स्म कृत्रिमपुत्रवद्व्यवहरति स्म च । सच धनपालः कदाचन स्वपितुरुपाश्रयमभ्यागतेन वर्धमानसरिणा पुत्रमेकं स्वशिष्यताम्प्रतिग्राहयितुम्प्रतिज्ञापितेन स्वपित्राऽत्यन्तमागृहीतोऽपि जैनधर्मविद्वेषितया न मनागपि जिघृक्षाश्चकार जैनदीक्षाम्, प्रत्युत "हस्तिना ताड्यमानोऽपि न गच्छेजैनमन्दिरम् " इत्येवमाहं तमतमशोभनमुपदिशन् निजानुजं शोभनमपि ततो वारयामास । तथापि पितुः प्रतिज्ञाभङ्गपातकभयेन पित्राज्ञा - भ्रात्राज्ञयोर्बलाबलविचारेण पित्राज्ञाया एव
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy