________________
१५ क्तिलेशोऽपि । तथाहि- पुण्डरीकशापाच्चन्द्रात्मनश्चन्द्रापीडस्य प्राणोत्क्रमणकीर्तनेन कादम्बरी कथायामापाततोऽप्यमङ्गल्यः करुणविप्रलम्भशृङ्गारः प्रधानरसः, तिलकमरीकथायान्तु पूर्वरागात्मक एवासाविति व्यक्तो व्यतिरेकः ।।
२. किश्च कादम्बर्यामगणितविशेषणैर्वर्णनाडम्बरः कथारसास्वादं व्यवदधानो व्याहन्ति, तिलकमभर्यान्तु प्रतिपदप्रतीक्षितप्रागुण्यभूषणैः परिगणितविशेषणैर्वर्णनमभ्यर्णतामेवाधत्ते कथारसानामित्येषोऽपि व्यतिरेकः।
३. अपि च कादम्बर्यामनुपदवर्णितवर्णनाटोपौपयिकविशेषणगवेषणप्रवर्तमानान्तःसंघट्टेन भट्टेन यमकानुप्रासाभ्यां शब्दसौन्दर्यमुपैक्षि, तिलकपअर्यान्तु सर्वतोमुखकाव्योत्कर्षधनपालेन धनपालेन परिसंख्याद्यर्थालङ्कारस्थलेऽपि शब्दालङ्कारप्राग्भारः प्रतिपदमपेक्षीत्यपि वैलक्षण्यमुपलभ्यते । यथा-अयोध्यावर्णने
"उच्चापशब्दः शत्रुसंहारे, न वस्तुविचारे । गुरुवितीर्णशासनो भक्त्या, न प्रभुशक्त्या। वृद्धत्यागशीलो विवेकेन, न प्रज्ञोत्सेकेन । अवनितापहारी पालनेन, न लालनेन ।
अकृतकारुण्यः करचरणे, न शरणे ।" इत्यत्र लेपानुप्राणितपरिसंख्यालशरस्थलेऽपि प्रतिवाक्यमन्त्यानुपासो न्यवेशि ।
एवम्-“सतारकावर्ष इव वेतालदृष्टिभिः, सोल्कापात इब निशितपासवृष्टिभिः' इत्यत्र समरसंघट्टोत्प्रेक्षास्थलेऽपि। __एवम्-“सगरान्वयप्रभवोऽप्यमृतशीतलप्रकृतिः, शत्रुघ्नोऽपि विश्रुतकीर्तिः, अशेषशक्त्युपेतोऽपि सकलभूभारधारणक्षमः, रक्षिताखिलक्षितितपोवनोऽपि त्रातचतुराश्रमः" इत्यत्र विरोधा भासस्थलेऽपि।
एवम्- वैतादयगिरिवर्णने-मेरुकल्पपादपालीपरिगतमपि न मेरुकल्पपादपालीपरिगतम् , चनगजालीसंकुलमपि न वनगजालीसंकुलम्" इत्यत्र विरोधाभासस्थलेऽपि यमकं पर्यरक्षि। एवम्- मेघवाहननृपवर्णने-~-"दृष्ट्वा वैरस्यवैरस्यमुज्झितास्रो रिपुव्रजः ।
यस्मिन् विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥"
इत्यतिशयोक्यलकृतपद्येऽपि ॥ ४. किंबहुना ? श्रुत्यनुप्रासेन प्रायः सर्वत्रैव सुश्रव्यत्वं समपादि । ५. किश्च कादम्बर्यामन्यत्रान्यत्रोपलब्धपूर्वा एष शब्दा उपलभ्यन्ते, तिलकमर्यान्तु 'तनी