________________
१७
प्राबल्यनिर्णयेन च तच्छिष्यत्वमुररीकृत्य, तदन्ते वसन् 'शोभन' - स्तदुपदिष्टयम-नियमाभ्यामुन्मथ्यमान मिथ्यामतिः शनैः शनैः सम्यक्त्वसम्पत्तिशाली समपादि ।
अत्रान्तरे शोभनगृहीत जैनधर्मामर्षवशेन श्रीमद्भोजराजसाम्राज्ये प्राप्ताप्रतिमप्रतिपत्तिकेन धनपालेन द्वादश वर्षाणि तद्राज्ये जैनदर्शनप्रवेशे महताभिनिवेशेनावरुद्धे, तद्धर्मोपासकैस्तत्प्रचारार्थमत्यर्थमभ्यर्थनया धारानगरमानीतेनावगाहितागमग्रन्थिसुरधुनिना शोभनमुनिना सह प्रवृताभ्यामुक्ति--प्रत्युक्तिभ्यामाकृष्टेन हृष्टेन चेतसा जैनधर्ममङ्गीकृत्य कदाचन नृपेण साकमरण्यङ्गत्वा मृगयायां तेन मृगं वाणेन विद्धमवलोक्य जीवदयोद्रेकार्द्रहृदयः सन्
" रसातलं यातु तवात्र पौरुषं, कुनीतिरेषा शरणो ह्यदोषवान् ।
निहन्यते यद् बलिनाsपि दुर्बलो, हहा ! महाकष्टमराजकं जगत् ॥ १॥ " इत्येवं तं भर्त्सयन्मृगयाव्यसनान्निवर्त्तयामास । एवं क्वचन यज्ञमण्डपे यूपत्रद्धछागस्य करुणकन्दनमाकर्ण्य "यूपं कृत्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते ॥ १ ॥ सत्यं ग्रूपं तपो ह्यग्निः कर्माणि समिधो मम ।
अहिंसामाहुतिं दद्यादेवं यज्ञः सतां मतः ॥ २ ॥ " इत्येवमहिंसामुपदिश्य राजानमपि जैनधर्मे प्रवर्त्तयामास ||
- तिलकमञ्जर्याः कथायाः टिप्पनकारस्य श्रीशान्तिसूरिमहाराजस्यऐतिहासिकः परिचयः --
प्रस्तुत 'तिलकमञ्जरी' कथायाः पदपद्धतेः श्लेष-भङ्गप्रभृतिवैपम्यस्य पञ्चाशदधिकसहस्रश्लोकप्रमितटिप्पनरूपाया विवृतेः कर्त्तारः श्रीशान्तिसुरय: श्री पूर्णतल्लगच्छीयाः सन्तीति तच्चरपद्ये नावगम्यते । चरमपद्यद्वयमपरावचीनायां प्रतौ नोट्टङ्कितं दरीदृश्यते, अपि तु 'अणहीलपुरपत्तन (पाटण) स्थ' संघपतिपाटक (संघवीपाडा) गतजैनभण्डारस्य १२५ सपादशततमायाः प्रतेः मान्ते दृष्टिपथमवतरति । तच्च ( गायकवाड ओरीएन्टलसिरिझ नं. ७६ संस्थाद्वारा प्रकाशित - ) 'पाटण जैन - भण्डार - कॅटलॉग' - प्रथमभागस्य ८७ तमे पृष्ठे मुद्रितमस्ति, 'घडोदरा (वटपटू ) - प्राच्यविद्यामन्दिर' -स्य हस्तलिखितप्रतावपि तत् समवलोक्यते ।
" श्री शान्तिसूरिरिह श्रीमति पूर्णतले, गच्छे वरो मतिमतां बहुशास्त्रवेत्ता ।