________________
१८ तेनाऽमलं विरचितं बहुधा विमृश्य,
संक्षेपतो वरमिदं बुध ! टिप्पितं भोः ॥ इदं विधाय यत्पुण्य, निर्मलं समुपार्जितम् । तेन भव्या दिवं लब्ध्वा, पश्चानिर्वान्तु मानवाः ॥"
[ग्रन्था० पञ्चाशदधिकं सहस्रम् । श्वेताम्बरजैनसम्प्रदायस्य 'कोटिकगण'स्य 'वज्रशारखा'यां 'चन्द्रकुल स्यालङ्कारभूतप्राच्य'गच्छेषु 'पूर्णतल्ल(प्रा० पुन्नतल्लोगच्छः प्रतिष्ठितगच्छ आसीत् । सुप्रसिद्धश्री-'हेमचन्द्राचार्यसदृशा विद्ववृन्दावतंसा अप्येतस्मिन्गच्छे संजाताः। श्रीदेवचन्द्रसूरिणा 'श्रीसिद्धराजजयसिंहस्य साम्राज्ये नभोरसेन्दुविधु-(१९६०)मिते वैक्रमेऽन्दे श्रीस्थंभनपुरे (खभातामिधे नगरे) विरचितस्य प्रा० श्रीशान्तिनाथचरित्रमहाकाव्यस्यान्ते या गुरुपरम्परा प्रदर्शिता, तत्राऽप्यात्मीयपूर्वज'श्रीयशोभद्रमूरिकुअरस्य परिचयं प्रदर्शयताऽस्य गच्छम्योल्लेखः कृतः--
"सिरिपुन्नतल्लगच्छुब्भवेण, कयमणसणं विहाणेण । कलिकाले वि हु वटुंतयंमि, दिवसाई तेरस उ ॥"
पाटण-जैन भण्डार कॅटलॉग (भा. १, पृ० ३३८)] उज्जयन्तशैलापरनाम 'गिरनारगिरि-'शिखरे विधिपूर्वकं त्रयोदशदिवसं यावदनशनं कृत्वा. ऽमरपुराऽऽतिथ्यमुपेयुषां तेषां यशोभद्रजुषां यशोभद्रसूरीशानां शिष्यावतंसाः श्रीप्रद्युम्नसरयः संजातास्तेषां पट्टे संजातानां मूरिभूरिगुणसेनासमन्वितानां श्रीगुणसेनमूरीणां पट्टप्रभावकाः 'श्रीदेवचन्द्रसूरयः' संजाताः । तेषामन्तिषदा कलिकालसर्वज्ञेत्युपपदेन जगति सुप्रसिद्धिमापन्नेन श्रीमता भगवता हेमचन्द्रमरिणाऽपि स्वविरचिते 'श्रीत्रिपष्टिशलाकापुरुषचरित्रे ' महाकाव्ये चरमायां प्रशस्तावप्येषेव गुरुपरम्परा प्रदर्शितास्तीति ।
जैनजगति यद्यपि श्रीशान्तिमरिनामानोऽनेके जैनाचार्या बभुवुस्तथापि प्रस्तुतटिप्पनकारेगात्मनात्मीय परिचयं प्रदर्शयता 'पूर्णतल्लगच्छीयाचार्यता' प्रदर्शिताऽस्ति। प्रतिभावैभवभासुरोसमेन वहुशास्त्रवेत्तृणा सारविचारसम्भारशीलेनानेन मूरिणा स्वगुरुनामधेयमस्मिन् टिप्पनके न ज्ञापितम् ; तथापि सद्भाग्येनास्य सूरिवरस्यैतादृश्योऽन्याः कृतयोऽप्युपलभ्यन्ते, तासां चरमोल्लेखतो ज्ञायते यत्तेषां गुरुवर्याणां नामधेयं 'वर्धमानमरि'-रासीदिति । तैश्चैवायं शान्तिमरिः स्वपदे संस्थापित इति व्यक्त निर्देशोऽन्यत्र विहितः। विद्ववृन्दवृन्दारकेनानेनाचार्येण यमकमयानामत्यन्तकठिनानां वृन्दावनादिपञ्चकाव्यानामुपर्यप्युत्तमां *वृत्ति विरच्याभ्यासिनां सुगमता कृताऽऽ*"वृन्दावनादिकाव्याना, यमकैरतिदुर्विदाम् । वक्ष्ये मन्दप्रबोधाय, पञ्चानां वृत्तिमुत्तमाम्।।"
____-जै. मं. ग्रन्थ सूचि (अप्रसिद्ध पृ० ५९)