________________
सीत् । बाणेन्दुनयनेन्दु (१२१५)-मिते विक्रमेन्दे लिखिता माच्या ताडपत्रीया यस्याः प्रतिकतिः 'जेसलमेरदुर्गस्य बृहच्चित्कोषे समासाद्यते [ दृश्यताम्-जेसलमेरभण्डारग्रन्थमचिपृष्ठं त्रिचत्वारिशत्तमम् , अप्रसिद्ध. पृ० ५८, ५९].
१. चन्द्रदूतकाव्यम् , २ मेघाभ्युदयकाव्यम् , ३ वृन्दावनयमकम् , ४ राक्षसमहाकाव्यम् , ५ घटखपरकाव्यश्चैतत्काव्यपश्चक जे. भ. ग्रन्थसूचौ ३४५ तमे संसूचितमस्ति । तत्र द्वितीयस्य मेघाभ्युदयकाव्यस्य विवृतावन्ते निम्नोक्तोल्लेरव उपलभ्यते___ "श्रीपूर्णतल्लगच्छ सम्बन्धि-श्रीवर्धमानाचार्यस्वपदस्थापित-श्रीशान्तिपरिविरचिता मेघाभ्युदयकाव्यवृत्तिः ॥"
श्रीवर्धमानाचार्यनामानोऽन्येऽनेके आचार्या जाताः, अतस्तत्स्पष्टीकरणायात्र पूर्णतल्लगच्छस्य निर्देशः कृतस्तेनेदं स्पष्टमायातं यदुत ते पूर्णतल्लगच्छीया बभुवुस्तस्यैव गच्छस्य श्रीवर्धमानाचार्याश्चामुं श्रीशान्तिसूरिं स्वपदे (आचार्यपदे) स्थापयामासुः, आचार्यपदारोहणादन प्रस्तुतकान्पस्प वृत्तिविरचनं समजनीति ।।
__ श्रीमालवायनीपतिश्रीभोजराजस्य जैनकथाशुश्रूषाप्रेरणातः श्रीमुझमहीपतिद्वारा लब्ध'सरस्वती'पदेन, वर्णतो विप्रेण, धर्मतो जैनेन परमाईतेन महाकविधनपालेनैषा तिलकमारीकथा महाराजभोजराजराज्यसमये वैक्रमैकादश्याः शताब्या उत्तरार्द्ध संदृब्धा ज्ञायते । तस्य चेदं टिप्पनकं तदूर्ध्वमेकस्यां शताब्द्यामेव विनिर्मितमवबुध्यते । जेसलमेरदुर्गस्य चित्कोषे तिलकमअर्या एका ताडपत्रीया प्रति ११३० वर्षे लिखिता वर्तते, उपर्युक्तयमकमयकाव्यपञ्चकविवृतिप्रतिरेका १२१५ संवत्सरे लिखिता लभ्यते, ततस्तत्समयसत्कं कियदनुमानं कर्तुं शक्यते । टिप्पनरचनाया निर्णीतः समयस्तत्र नोपदर्शितस्तथाऽपि तद्विक्रमस्य द्वादश्याः शतान्याः पूर्वार्धे विरचितं भवेदित्यनुमीयते ॥ .. श्रीशान्तिसूरिभिन केवलं कठिनकाव्योपरि विवृत्तिविरचिताऽपि तु न्यायविषयक'न्यायावतार'-ग्रन्थस्य वार्तिकस्यापि 'विचारकलिका'नाम्नी वृत्तिविरचितास्ति, तदन्ते पूर्णतल्लगच्छस्य निर्देशो यद्यपि नास्ति तथापि चन्द्रकुलस्य वर्धमानारपुरन्दरम शिष्यत्वेनाऽयमेव श्रीशान्तिसूरिवरोऽत्रबुध्यते ।
"इति श्रीशान्त्याचार्यविरचितायां वार्तिकवृत्तौ आगमपरिच्छेदः । परिश्चन्द्रकुलामलैकतिलकश्चारित्ररत्नाम्बुधिः,
सारं लाघवमादधाति च गिरेयों वर्धमानाभिधः ।