________________
तच्छिष्यावयवः स सूरिरभवत् श्रीशान्तिनामाऽकृत, येनेयं विवृतिर्विचारकलिकानामा स्मृतावात्मनः ॥"
-पाटणजैनभण्डारग्रन्थ सूचि. भा. १. पृ. ८७'सिन्धी जैनग्रन्थमाला' (ग्रं० २०) द्वाराऽयं ग्रन्थः प्रकाशितोऽस्तीति ॥
अस्या वार्तिकवृत्तेरवतरणानां द्वादश्याः शताब्द्या अन्ते तथा त्रयोदश्याः शताब्द्याः प्रारम्भ गुम्फितेपु ग्रन्थेषुपलभ्यमानत्वात् श्रीशान्तिसुरेः समय वैक्रमैकादशी-द्वादश्योः शताब्योर्मध्यमो. ऽवसीयते इति हृदयम् ॥ परिणतपरागपरीतैव मञ्जरी जरीहर्ति चेतश्चञ्चरीकजनानामित्यालोच्य सत्स्वपि शान्त्या
___चार्यादिकृतटिप्पणकादिषु तेषामपूर्णत्वात् प्रतिपदमागमकत्वाच्च यथायतिलकमञ्जयाँ थमनुपयोगितया, श्रीमत्तपोगच्छाधिपति-भारतीयभव्यविभूति-रिचक्रचपरागस्योपयोगः क्रवर्ति-सर्वतन्त्रस्वतन्त्र--शासनसम्राट्-श्रीकदम्बगिरिप्रमुखानेकतीर्थोद्धार
क-दक्षजनमोदक्षम-क्षमापालावलिपूजितपादपद्म-ब्रह्मसम-जगद्गुरु करुणासिन्धु-भट्टारकाचार्यमहाराजाधिराजश्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कार-व्याकरणवाचस्पति-कविरत्न-शास्त्रविशारद-विहितानेकतर्कव्याकरणसाहित्यादिविषयकशासनप्रभावकटीकाग्रन्थसन्दर्भनिरुपमव्याख्यानसुधावषि-परमकृपालु-श्रीमद्गुरुदेव-भट्टारकाचार्य-श्रीमद्विजयलावण्यसूरीश्वरास्तत्रातीवरमणीयां 'परागविवृति'-मकार्षुः, ___इयन्तु प्रतिपदमर्थविस्कोरणमुखेन स्थले स्थलेऽलङ्कारक्रोडीकार-पदव्युत्पादनप्रकार-पाठान्तरतारतम्यविचार-कतिपयापेक्षितान्यग्रन्थांशोद्धरण-प्रतिभासितविरोधरणधुरीणतया तिलकमअरीमधुझरी परीक्षितुमनसां सुमनसां परागरूपतयोपयोगिनी परागविवृतिन कस्यचिदपरागभाजन तामहति, प्रत्युत सहृदयजनतासभाजनतामेवेति विश्वसिमि ॥
क्लेशकुल्माषगुल्मोद्भर्जनभ्राष्ट्र-समग्रराष्ष्ट्रकिरोट-'सौराष्ट्र-प्रदेशान्तर्वर्तिनि 'बोटाद'ग्रामे १९५३ वैक्रमेऽब्दे शीलालङ्कारशालिन्या मृदुलतासरलतालताल यालतामालिन्या प्रकृत्या लोके
प्रकृतपराग सदाचारामृतम्पायिन्या विसाश्रीमालीज्ञातीय 'यगडीया' वंशावतंस-श्रमणोप्रणेतुः परिचयः पासकसद्धर्मजीवनलाल-'श्रीजीवणलाल'-धर्मपल्या 'अमृत'-नाम्न्या गर्भा
__ दाविर्भूय 'लवजी-ति सांसारिकसंज्ञया मातापितृग्यामुपाहूय 'ठाकरशीसंज्ञकेन सोदरेण 'शिव(बेन) नाम्या भगिन्या च साकमुपलालना-पालनाभ्यामुपबंहितोऽष्टादशवर्षदेशीय एव जगद्गुरूणां शासनसम्राजां श्रीमद्विजयनेमिसूरिभगवतामभ्यर्णे संसारसिन्धु तरणीसनिमा मुक्तिकनीनिकावरमालाकल्पामनन्ततीर्थकर-गणधर-युगप्रधान चक्रवर्तिप्रभृति