Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 15
________________ १५ क्तिलेशोऽपि । तथाहि- पुण्डरीकशापाच्चन्द्रात्मनश्चन्द्रापीडस्य प्राणोत्क्रमणकीर्तनेन कादम्बरी कथायामापाततोऽप्यमङ्गल्यः करुणविप्रलम्भशृङ्गारः प्रधानरसः, तिलकमरीकथायान्तु पूर्वरागात्मक एवासाविति व्यक्तो व्यतिरेकः ।। २. किश्च कादम्बर्यामगणितविशेषणैर्वर्णनाडम्बरः कथारसास्वादं व्यवदधानो व्याहन्ति, तिलकमभर्यान्तु प्रतिपदप्रतीक्षितप्रागुण्यभूषणैः परिगणितविशेषणैर्वर्णनमभ्यर्णतामेवाधत्ते कथारसानामित्येषोऽपि व्यतिरेकः। ३. अपि च कादम्बर्यामनुपदवर्णितवर्णनाटोपौपयिकविशेषणगवेषणप्रवर्तमानान्तःसंघट्टेन भट्टेन यमकानुप्रासाभ्यां शब्दसौन्दर्यमुपैक्षि, तिलकपअर्यान्तु सर्वतोमुखकाव्योत्कर्षधनपालेन धनपालेन परिसंख्याद्यर्थालङ्कारस्थलेऽपि शब्दालङ्कारप्राग्भारः प्रतिपदमपेक्षीत्यपि वैलक्षण्यमुपलभ्यते । यथा-अयोध्यावर्णने "उच्चापशब्दः शत्रुसंहारे, न वस्तुविचारे । गुरुवितीर्णशासनो भक्त्या, न प्रभुशक्त्या। वृद्धत्यागशीलो विवेकेन, न प्रज्ञोत्सेकेन । अवनितापहारी पालनेन, न लालनेन । अकृतकारुण्यः करचरणे, न शरणे ।" इत्यत्र लेपानुप्राणितपरिसंख्यालशरस्थलेऽपि प्रतिवाक्यमन्त्यानुपासो न्यवेशि । एवम्-“सतारकावर्ष इव वेतालदृष्टिभिः, सोल्कापात इब निशितपासवृष्टिभिः' इत्यत्र समरसंघट्टोत्प्रेक्षास्थलेऽपि। __एवम्-“सगरान्वयप्रभवोऽप्यमृतशीतलप्रकृतिः, शत्रुघ्नोऽपि विश्रुतकीर्तिः, अशेषशक्त्युपेतोऽपि सकलभूभारधारणक्षमः, रक्षिताखिलक्षितितपोवनोऽपि त्रातचतुराश्रमः" इत्यत्र विरोधा भासस्थलेऽपि। एवम्- वैतादयगिरिवर्णने-मेरुकल्पपादपालीपरिगतमपि न मेरुकल्पपादपालीपरिगतम् , चनगजालीसंकुलमपि न वनगजालीसंकुलम्" इत्यत्र विरोधाभासस्थलेऽपि यमकं पर्यरक्षि। एवम्- मेघवाहननृपवर्णने-~-"दृष्ट्वा वैरस्यवैरस्यमुज्झितास्रो रिपुव्रजः । यस्मिन् विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥" इत्यतिशयोक्यलकृतपद्येऽपि ॥ ४. किंबहुना ? श्रुत्यनुप्रासेन प्रायः सर्वत्रैव सुश्रव्यत्वं समपादि । ५. किश्च कादम्बर्यामन्यत्रान्यत्रोपलब्धपूर्वा एष शब्दा उपलभ्यन्ते, तिलकमर्यान्तु 'तनी

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 196