Page #1
--------------------------------------------------------------------------
________________
नकल्पतरुः
नन्दनवनकल्पतरुः
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।
वि.सं. २०७२ | सङ्कलनम् :
उत्तरायणम् | कीर्तित्रयी
Page #2
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरु: ३६
वि.सं. २०७२ दक्षिणायनम्
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुर्नन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
सङ्कलनम् कीर्तित्रयी
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ३६ (पाण्मासिकम् अयनपत्रम्)
सङ्कलनम्
: कीर्तित्रयी ॥
प्रकाशनम् ' : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ .
वि.सं. २०७२,
ई.सं. २०१६
मूल्यम् : ₹ १००/अस्मिन् जालपुटेऽपि उपलभ्यते - इ-सङ्केतः :
[email protected] प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 079-26622465, 09408637714
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
Clo. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981, (M) 9979852135
आर्थिकं सौजन्यम् नन्दनवनकल्पतरो षट्त्रिंश्याः शाखायाः प्रकाशने शासनसम्राट्-समुदाय-वर्तिन्याः साध्वीश्री दक्षयशाश्रीशिष्या-सा.श्रीअक्षतयशाश्रियः सत्प्रेरणया श्राविकावर्गेणाऽऽर्थिकः
___ सहयोगः कृतोऽस्ति । तदर्थं बहुशो धन्यवादाः ॥
मुद्रणम्
: किरीट ग्राफिक्स
४१६, वृंदावन शोपिंग सेन्टर, पानकोर नाका, अमदावाद-380001 दूरभाष : 079-25330095
Page #4
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
मान्याः । · सादरं प्रणतयः ।
३४तम्यों शाखायां प्रास्ताविके यदुक्तं तच्चिन्तनीयमस्ति सर्वैः शिक्षकैः शिक्षाक्षेत्रे निरतैः सुजनैश्च । अत्र ६५तमे पृष्ठे पत्रचर्चायां चोकसीमहाभागेन यदुच्यते तत् कथमपि न युज्यते । वारपरम्पराऽस्मदीया भवतु न वा, भारते या वारपरम्पराऽङ्गीकृता विद्यते तत्र प्रथमो वारो रविवार एवाऽस्ति, न तु सोमवारः । हरिहरपाण्डेयमहाभागोऽपि स्वकीये ग्रन्थे ७६-७७तमपृष्ठयोः "चौघडिया-मुहूर्त"विवरणे प्रथमवारत्वेन रविवारमेवाऽङ्गीकरोति । अथर्वज्योतिषे 'आदित्यः सोमो भौमश्च, तथा बुध-बृहस्पतिः । भार्गवः शनैश्चरश्चैव, एते सप्त दिनाधिपाः' (द्रष्टव्यम्, कल्याणपत्रिका ८८/१, 'ज्योतिषतत्त्वाङ्क'. पृ. २१०, 'भारतीयकालगणना') इति वचनेन स्पष्टतया ज्ञायते यद् भारतीयपरम्परायां सर्वत्र प्रथमवारत्वेन 'रविवारः' एव स्वीक्रियते । ज्योतिषग्रन्थेषु दिनगणना रविवारत एव क्रियते ।
- डो. रूपनारायण-पाण्डेयः (प्रयागः)
सम्मान्याः!
सादरं नमो नमः।
३४तमे नन्दनवनकल्पतरौ सर्वेऽपि स्तम्भाः सहृदयजनचित्तावर्जकाः । परम् आ.विजयहेमचन्द्रसूरीणां "परमात्मप्रार्थना" सरला रुचिरा निर्दूषणा गुणवती रसभावपूर्णा च वर्तते । एवं च मुनिन्यायरत्नविजयानां डॉ. वासुदेवपाठकमहाभागानां च "अन्तरालापा:" सरला मनोहरा बुधजनचित्तापहारकाश्चेति । प्रत्येकमन्तरालापस्य चरमे चरणे दत्तमुत्तरं सदुक्तिश्च बोधप्रदाविति ।
- किशोरचन्द्र-पाठकः (अमरेली)
Page #5
--------------------------------------------------------------------------
________________
प्रास्ताविकम्
नन्दनवनकल्पतरोः पञ्चत्रिंश्याः शाखायाः प्रकाशने मुद्रणालयस्य प्रसादात् (?) अतीव विलम्बो जातः । तावता च षट्त्रिंश्या: शाखायाः प्रकाशनकालः सन्निहित: । अतो द्वयोरपि शाखयोः पृथक् पृथक् मुद्रणं कारयित्वा द्वे अपि ते अनतिचिरादेव प्रेष्येते । विलम्बार्थं च क्षमाप्रार्थनं क्रियते ।
कीर्तित्र
श्री आदिनाथजन्म-दीक्षा कल्याणकदिनम् फाल्गुनकृष्णाष्टमी, वि.सं. २०७२ पादलिप्तपुरम्
Page #6
--------------------------------------------------------------------------
________________
कृति: श्रीवृद्धिचन्द्र-शतकम् जैनाचार्यश्रीविजयकमलसूरिस्तुत्यष्टकम् जैनाचार्य श्रीविजयलब्धिसूरिस्तुत्यष्टकम्
अर्थान्तरन्यासशतकम्
अन्तरालापाः
भक्तामरस्तोत्रान्तिमचरणपादपूर्तिरूपः श्रीनेमिसूरिस्तवः
श्रीकदम्बगिरेर्माहात्म्यम्
तत्त्वबोधप्रवेशिका - १
प्रामाण्यवादः
चिन्तनम्
पत्रम्
सङ्कुचितः कः ?
मर्म गभीरम् जीवन-मौक्तिकम्
काव्यानुवादः
विनाश:
. जीवनचतुरङ्गः
मम तिब्बतीयत्वम्
अनुक्रमः
विश्वासघात:
दूरदर्शनयन्त्रम्
5
कर्ता
आ.विजयहेमचन्द्रसूरिः
मुनिचतुरविजयः
मुनिचतुरविजयः
एच.वि.नागराजराव्
मुनिन्यायरत्नविजयः
स्व.आ.विजयधर्मधुरन्धरसूरिः
आ.विजयहेमचन्द्रसूरिः
मुनित्रैलोक्यमण्डनविजय:
मुनिधर्मकीर्तिविजयः
मुनिधर्मकीर्तिविजयः
मुनिकल्याणकीर्तिविजयः
मुनिरम्याङ्गरत्नविजयः
मुनिकल्याणकीर्तिविजयः
मुनिधर्मकीर्तिविजयः
मुनिकल्याणकीर्तिविजयः
मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः
पृष्ठम्
१
९
११
१३
२१
२३
६१
६३
७२
७९
८५
८७
८९
९१
९२
९४
९५
Page #7
--------------------------------------------------------------------------
________________
कथा
१०१
दिव्यातिदिव्यश्रीनेमिकुमारः विरलानि संस्कारमूल्यानि
समर्पणं श्रेष्ठदानम् मर्म नर्म
मुनितारकचन्द्रसागरः मुनिअक्षयरत्नविजयः मुनिरम्याङ्गरत्नविजयः कीर्तित्रयी
१०५
१०६
प्राकृतविभागः
कथा
नमुक्कारमंतप्पहावे सिरिजिणदाससेट्ठिकहा
__ आ.भद्रेश्वरसूरिः
१०९
Page #8
--------------------------------------------------------------------------
________________
श्रीवृद्धिचद-शतकम्
आ. विजयहेमचन्द्रसूरिः नत्वाऽऽत्मभक्त्याऽमल-वीरमूर्ति, वैराग्यकोशाभयराशिदात्रीम् । कुर्वे जनानां पर-मोदनाय, श्री-वृद्धिचन्द्रं शतकं सुरम्यम् ॥ असारेऽसीमसंसारे, प्रासन्मोह-विजृम्भिते । तादृशो नास्ति ना कश्चिद्, यो वृद्धि नाऽभिवाञ्छति ॥१॥ कीटादारभ्य ब्रह्माण्डावधि या प्राणिसन्ततिः । सर्वस्याः कामना वृद्धौ, महारम्भेण दृश्यते ॥२॥ कीर्तिवृद्धौ च केषाञ्चित्, केषाञ्चिन्मानवर्द्धने । हर्म्यवृद्धौ च केषाञ्चित्, समेषामर्थवर्द्धने ॥३॥ सुतारामगवादीनां, धान्यानामपि वर्द्धने । अशनाम्बरवृद्धौ च, जायते भुवि कामना ॥४॥ तस्माद् यातं महाभागाः, सर्वे वै वृद्धि-कामुकाः । वृद्ध्यर्थं समुखं प्राणानर्पयन्तीह मानवाः ।।५।। राजद्वारे राजकार्ये, राजमार्ग-निषेवणे । कष्टप्रायेऽपि सर्वेषामीहा तत्राऽभिजायते ॥६॥ केवलं कारणं तत्र, वृद्धिमेकां हि मन्महे । प्रवृत्तिरन्यथा तत्र, न स्यात् कस्याऽपि देहिनः ॥७॥ बुद्धाराद्धान्ततत्त्वज्ञाः, कोविदा अपि रङ्कवत् । वृद्धिहेत्वर्थमिभ्यानां, द्वारि तिष्ठन्ति उत्सुकाः ॥८॥
Page #9
--------------------------------------------------------------------------
________________
सरित्तीरगुहाऽरण्य-श्मशानागारभूमिषु । ध्यानासीना महात्मानो, निदानं तत्र वृद्धिका ॥९॥ त्वरद्योध-हयेभेषु, महासङ्गर-वर्त्मसु । सोद्यमा जीविनस्तत्र, दृश्यन्ते वृद्धि-हेतवे ॥१०॥ पयःपानास्तपश्शान्ता, ब्रह्मचिन्तनधीजुषः । मुक्ताहाराश्च ये केचित्, सर्वे ते वृद्धिबोधिनः ॥११॥ तस्माद् भोः ! सुलभां वृद्धिमात्मसन्तोषकारिणीम् । श्रीमन्तो यदि वाञ्छन्ति, भजध्वं वृद्धिनामकम् ॥१२।। वृद्धौ सत्यां मदान्धानां, धनौष्ण्यं यदि जायते ।। तेषां शान्त्यर्थमेवाऽहं, मन्ये चन्द्रोऽपि राजते ॥१३॥ सामान्यनामभाजोऽपि, मुनेर्मोक्षाभिकाङ्क्षिणः । नाममात्रेण भव्यात्मा, विविक्तात्मा प्रजायते ॥१४॥ यत्र वृद्धिनिशानाथः, सर्वाह्लादनकारकौ । तन्नामजपनादाशु, याति किल्बिषसन्ततिः ॥१५॥ तच्छास्त्रं नास्ति भूभागे, धर्मोऽपि नास्ति तादृशः । माहात्म्यं यत्र नाम्नो हि, वणितं नैव दृश्यते ॥१६॥ सर्वेष्वारम्भकार्येषु नाम-जापः प्रशस्यते । तस्माद् वृद्धीति नामाऽत्र, ध्येयं ध्येयं प्रयत्नतः ॥१७॥ नामकीर्तनमाहात्म्यं, शक्यते केन वर्णितुम्? । वृद्धिचन्द्राभिधानं तु, सर्वाशा-पालन-क्षमम् ॥१८॥ केकिनोऽम्बुद-निध्वानं, स्वाति-बिन्दूंश्च चातकाः । यथेच्छन्ति तथा भव्या, वृद्धिनामाऽभिवाञ्छत ॥१९॥ सद्गुरुं भव्यदेहीव, सत्सिद्धान्तमिवाऽऽत्मवित् । प्रजामिव प्रजाहीनो, निधानमिव निर्धनः ॥२०॥ भामिनी स्वामिनं रोगी, भेषजं कर्षकोऽम्बुदम् । कामीच्छुर्युवति रम्यामातपं रजकः सदा ॥२१।। बालिका मातरं ध्यानं, ध्यानीव प्रजितेन्द्रियः । सुशिष्यं कोविदः शालि-सन्ततिः सद्धराधिपम् ॥२२॥
Page #10
--------------------------------------------------------------------------
________________
सुयानं सिन्धुयायीव, गिरिपातीव गुल्मकम् । क्षुधार्तो भोजनं नीरं, पिपासाकुलमानसः ॥२३।। सद्धर्मं सन्मतिः प्राणी, सज्जनः साधुसङ्गतिम् । विरक्तोऽरण्यभूभागं, नटी नागर-वृन्दकम् ॥२४॥ स्वाभीष्टदेवतां भक्तः, कौतुकं बालका इव । पुण्यात्मा पुण्यकर्माणि, पापी पापचयं यथा ॥२५॥ रूपाजीवा धनं काममनाथा इव रक्षकम् । राज्यवृद्धिं धरानाथाः, प्रपां वै पथिका इव ॥२६।। घर्मार्ताः सुतरुच्छायां, मायां मोहपरायणाः । विबुधाः संसदं रम्यां, क्षत्रिया इव सङ्गरम् ॥२७॥ दिनादिं चक्रवाकीव, पद्मिनी भास्करं यथा । चकोराश्चान्द्रिकापानं, साधवस्तत्त्वचिन्तनम् ॥२८॥ परस्योपकृति सन्तः, परहानिं च दुर्जनाः । सद्ग्रन्थानिव विद्यार्थी, साधकः स्वेष्टदर्शनम् ॥२९॥ यथा वाञ्छन्ति संसारे, स्वमनस्तोषहेतवे । तद्वत् को भविको नेच्छेद्, वृद्धिनामसुधारसम् ? ॥३०॥ सदाशापिपासावरेहाप्तिदायि, सदाशापिपासावरेहाप्तिदायि । जनानां बहूनां तदज्ञानभेदि, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३१॥ धनानां निधानं विधीनां विधानं, शुभानां गुणानामुंदञ्चत्पयोधिम् । दरिद्रातिनाशं सुखावासकाशं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३२॥ विपद्दावमाला-विनाशि प्रकाशि, महामोहसेनाबलाधिप्रणाशि । लसच्चारुकीर्ति स्फुरद्भव्यगेहं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३३।। कषायाद्रिसानूद्विनाशेन्द्रशस्त्रं, मनोजीयसेनापतद्वाणवक्त्रम् । कुसङ्गोत्थंदोषाटवीदावचक्रं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३४॥ सुगीतं सुपेयं धिया ध्येयमेयं, सुधीभिः कुधीभिः सदागम्यरूपम् ।। लसद्भानुकोटीप्रकाशं विशालं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३५॥ क्षणोद्योतचञ्चद्धनाशाविरागि, विलासारिमोषि प्रतापिप्रतापि । महासिन्धुधारा-ब्रुडज्जन्तुपोतं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३६॥
Page #11
--------------------------------------------------------------------------
________________
विदेशे स्वदेशे मरौ मेरुपृष्ठे, निकेते वनादौ सुरागारभागे । अहीनां निवासेऽपरे लोकलोके, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३७॥ विभातं प्रभातं प्रभाभासिताङ्गं, विशोकं विलोभं विमोहं विरागम् । विचारे प्रचारे सदाचारचारे, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३८॥ निदाघे जनानां पयोदाप्तितुल्यं, भयादौ सहायं सुरारामकल्पम् । भवव्याधिनाशेऽगदङ्कारसत्कं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३९॥ सुशिष्टं सुमिष्टं महाक्लेशपिष्ट-मरिष्टादिकष्टापतल्लोकयष्टि । सुपुण्यप्रभावात् सुधादीर्घिकाभं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥४०॥ भूयोऽपि भव्या वचनं मदीयं, सानन्दभावं शृणुतेति नम्रम् । यत्राऽस्ति वृद्धिः किल तत्र चन्द्रो, धन्यं ततः किं वदताऽत्र यूयम् ॥४१॥ काव्यं न तादृग् न च शास्त्रमाला, विद्वान्न तादृग् न च काव्यवेत्ता । प्राकाशि नो येन माहामहात्म्य-माकाशवेदी-स्थितशीतरश्मेः ॥४२॥ एवं धिया धीधनशस्तमानै-धंदावबोधे नयने पिधाय । इन्दोविमर्शो मनसा विधेयः, पश्चाद्रुचिस्तत्र सतां प्रमाणम् ॥४३॥ दृश्यो न धार्यः परमेष धार्य-स्तापी न, तापी बत तोषदायी । दूरे न चाऽऽरात् किल चैष चाऽऽरात्, क्षीणोऽस्ति नोऽयं तु सदा प्रकाशी ॥४४|| गामी सदाऽसौ परमेष कार्ये, ताराधिपस्त्वेष तु सर्वनाथः । निशाविकाशी न दिवाविकाशी ह्ययं दिवारात्रि-विकाशमानः ॥४५॥ राजा द्विजानां न जनौघराजः, स्वामी रसानां न तु सर्वभूतेः । ज्योत्स्ना चकोरैः सततं सुपेया, कान्तिः समस्तैः सुखमत्र पेया ॥४६|| धार्यः कथं सोऽत्र वियद्विहारी, धार्यः सुखेनैव धरा-विहारी । तुर्याष्टरन्ध्रेऽशुभपाकदायी, चेलानिवासी निखिलेष्टदाता ॥४७॥ पञ्चेषुबाणानलदेहदायी, तत्तापहारी हृदये विहारी । . मेघाविकीर्णो भवतीह जातु, कर्माभिघातादमुको विशुद्धः ॥४८॥ दोषैरनेकैर्ग्रहसंविभागे, व्याप्तः शशाङ्कोऽम्बरमध्यवर्ती । भूभागराजी गुणराशिरेष, त्वन्वर्थसंज्ञां सफलीकरोति ॥४९॥
Page #12
--------------------------------------------------------------------------
________________
नीकाश एको गगनाङ्गणस्थे, चन्द्रे परं सोऽपि च दूरवर्ती । अस्मिंस्तु वृद्धिर्बहुचन्द्रकान्ति - र्ज्यायांस्ततोऽयं सततं नमस्यः ॥५०॥
निष्पक्षबुद्ध्या निजहृद्यचित्ते, विचारयन्तु स्वयमत्र भव्याः । ज्ञात्वोभयोरन्तरमत्र धीराः, सेव्यः शिवायोत्तम - वृद्धिचन्द्रः ॥५१॥ व्यूहः सुदृष्टो न मया गुणाना - मेकत्र पुंसि प्रबलप्रतापे । अस्मिन् मुनीन्द्रे सकला गुणौघा, मन्ये ततो नन्दति वृद्धिनाम ॥५२॥ भूरौ गभीरे सरितामधीशे, रत्नानि भूयांसि च कम्बुराशि: । हालाहलं तत्र च दोष एक:, क्षारं जलं नाऽत्र मुनावणीयान् ॥५३॥
गिरौ गिरीशे गिरिशाधिवासे, कैलासनाम्ना प्रथिते पृथिव्याम् । शैत्यं प्रभूतं समताप्रधानः, सर्वाङ्गिसेव्यो मुनि - वृद्धिचन्द्रः ॥५४॥
तुङ्गः सुमेरुः क्षितिमध्यवर्ती, संराजते यद्यपि रत्न - राज्या । दूरे स केषामपि नास्ति गम्यो, गम्यः परं साधुरयं सुखेन ॥५५॥
शीतो हिमांशू रविरुष्णरश्मि-र्दाही कृशानुश्चपला चलैव । साम्यं न केषां मुनिना त्वनेन तस्माद् गरीयो भज नाम वृद्धेः ॥५६॥ वृद्धेस्तु भेदो द्विविधो धरण्या - मुच्चैर्महीमोहकुटुम्बभाजः । एक: प्रपञ्चात्मतया विभाति, निर्वाणरूपस्त्वितरः प्रसिद्धः ॥५७॥ भेदे प्रपञ्चे जनता समस्ता, प्राणैः प्रयाणैर्नितरां निबद्धा । निर्वाणभेदे सुधियः कियन्तः, प्रायैः प्रयाणैः सुतरां सुलग्नाः ॥५८॥ संसारवृद्धिर्नितरां कुवृद्धि-र्यस्या भवाब्धौ जनतासु पातः । चिन्तामयी चित्तपयोजचान्द्री, त्याज्या ततः सा भवहानिकामैः ॥५९॥ मिथ्या प्रपञ्चे बहुल - प्रयासः, प्रायोऽत्र लोको नयनायने स्यात् । आरामरामाधनवर्द्धनेहः, सौधाभिलाषो ममता- निगूढः ॥६०॥ आपातरम्ये विषयाभिलाषे, कौटुम्बवृद्धौ क्षणभङ्गुरायाम् । चेतोऽभिलाषः सततं विशालः पुंसां समेषावलोक्यतेऽत्र ॥ ६१ ॥ शैथिल्यमालभ्य विनाशि-वृद्धौ, निर्वाणवृद्धौ मनसा प्रयत्नः । कार्यो न हार्यं नरजन्म पुंभिः पूते सुलब्धं शिवभारतेऽस्मिन् ॥६२॥
Page #13
--------------------------------------------------------------------------
________________
वृद्धेः कुटुम्बो विततोऽस्ति भूयान्, नानाविधैर्मोहमयैर्विलासैः । यत्प्रेमपाशैरिह सर्वजीवा, बद्धा न मुक्तिं भुवि कामयन्ते ||६३ || क्वचित्तरुण्यो मदनैकवासा, हग्बाणपातैर्व्यथयन्ति यूनः । क्वचित् कुमार्यश्चपलैर्विनोदै - श्वेतांसि पुंसां सहसा हरन्ति ||६४|| क्वचित् कुमारा मृदुहासवाणी-चाटु- प्रयोगैर्निजबन्धुवर्गम् । शनैश्चलन्तः परिमोहयन्ति, मामेति कार्केति मुहुर्वदन्तः ॥ ६५ ॥ क्वचिन्महाव्याधिमहाहिवक्त्रे, वेविश्यमाना विवशा रुदन्तः । हाहेतिशब्दैः परिखेदयन्ति, कथं ततः स्याज्झगिति प्रयाणम् ॥६६॥ क्वचिज्जनन्य: सुरकल्परूपा, निर्व्याजवात्सल्यसुकामगव्यः । स्वाभ्यर्णवर्तिप्रियतोकरत्नान् मुञ्चन्ति नाऽहो प्रबलोऽत्र मोहः ||६७|| माता तु माता ममताप्रधाना, पुत्रैषणासक्तमन: प्रवृत्तिः ।
जातु प्रियात् स्वान् न च मोक्तुकामाः सर्वेऽपरे हन्त च कार्यकामाः ||६८|| मोहस्य माया परमा दुरन्ता, नाऽन्तो न तस्या इदमेव चित्रम् । ये ज्ञानिनस्तां सुतरां तरन्तु, मायास्यभोज्या अपरे भवन्तु ॥६९॥ त्यक्त्वा कुवृद्धिं भयदां सुखेन, निर्वाणवृद्ध्या खगणो विधेयः । अत्राऽपि सौरव्यं विविधप्रकारैर्भुक्त्वा परे पाणिगताऽस्ति मुक्ति: ॥७०॥ निर्वाणमार्गः सुखदो गरीयान् शान्तिप्रधानो मुनियोगिगम्यः । क्लेशस्य लेशो नहि यत्र कश्चिद्, रागादिवृद्धिर्न च यत्र काचित् ॥७१॥ नाम्नः प्रभावो गदितो मया वै, श्रीवृद्धिचन्द्रस्य मुनेः सुचारुः । नाम्नोऽनुकूलं चरितं हि तस्य, पीयूषकल्पं ननु वावदीमि ॥७२॥ मतिरियं जगतश्चिरकालतो, गतवतो विधिखेलनलासिनः । भवति ना भवतापविनाशको, निज़पराभिमताभ्यधिवेदनः ॥ ७३ ॥ जगदिदं परिणामविलक्षणं, क्षपणवर्द्धनशीलमनुक्षणम् । भवति लाघवमत्र तदा यदा, प्रभुमुखागतधर्मपरम्परा ॥७४॥ जगति मानवराशिरपि क्वचित्, कुमतिकेसरिवक्त्रगतिग्रहः । भवति नैव तदा सुकृतानुगो, विपथमेति न चेद् विधियोगतः ॥७५॥
कुपथजालखगायितमानवान्, मतमतान्तरवेदि - सुपेशलाः ।
इह नयन्ति निजागमपद्धति, सदयमुग्धमनोहरणक्षमाः ॥७६॥
६
Page #14
--------------------------------------------------------------------------
________________
कुपथयायिजनोद्धृतिहेतवे, मुनिरसौ सुकुले जनिमाप्तवान् । इति च तस्य मुनेश्चरितामृतं, शृणुत भव्यजना गुणमन्दिरम् ॥७७॥ विदितमेव सतां विषयेष्विह, सकलकामखनिर्ननु भारतम् । जनपदो न च तादृश ऐहिको, मनसि योऽभिलषेन च भारतम् ॥७८॥ देशेषु तेषु विलसन्महनीयकीर्ति-र्यद्यस्ति कोऽपि जगतीतलमध्यवर्ती । पाञ्चाल एव विभवैः सुरराजधानी, कौबेरिकामपि पुरीमधरीकरोति ॥७९॥ मालिन्यदोषरहिताः सरसीरुहौघै-र्वाप्यश्च तत्र परिपूर्णजलो विभान्ति । नद्योऽपि वीचिमुखरा: सततप्रवाहाः, पीयूषवन्मधुरवारिवरा वहन्ति ॥८०॥ एवंविधे जनपदे जनताहिताय, जाताजनिर्जनिमतां विभवोदयाय । जैनागमप्रचुरबोधजुषां बुधानां, श्रीवृद्धिचन्द्रमुनिराजमहोदयानाम् ॥८१॥ लाहोरप्रान्तमध्ये विलसति सजलैका चिनावा नदी या, तीरे तस्या विभाति प्रमुदितमनुजा रामपुर्युत्तमैका । श्रीमद्भिर्योगिराजैरभिहतदुरितैस्तत्र लेभे सुजन्म, । शून्याङ्केभेन्दु(१८९०)वर्षे हरिदिवसयुते पौषमासेऽच्छपक्षे ॥८२।। यस्याऽस्ति तातो भुवि धर्मकीर्तिः, कृष्णाभिधाना जननी गुणाढ्या । तत्कुक्षिजातस्य शिशोः शिशुत्वे, वैराग्यवृत्तिः कथमत्र न स्यात् ? ॥८३॥ सुतस्य प्रेम्णा जनकेन भूरि, पाणिग्रहायैष मुदा न्ययोजि । पुण्यानुबन्धी भवसिन्धुवीचौ, कथं पतेदेष इति प्रभग्नः ? ॥८४॥ ज्ञाताऽस्य रूपस्य विहाय मोहं, हर्षेण दीक्षामुररीचकार । सेवां गुरूणां विनयेन कुर्वन्, बभ्राम भूमौ सह तैः सुखेन ॥८५।। बुद्धेविकाशाद् विनयप्रभावा-च्छीमद्गुरूणां मनसोऽभितोषात् । शब्दागमादींस्त्वरया प्रपठ्य, रेजे सुराचार्य इवाऽयमत्र ॥८६॥ अदेवयाजिनां पन्थाः, पाञ्चालेषु तदा महान् । प्रवर्धमानो वर्षासु, क्षुद्रगुल्मलता इव ॥८७|| आसीत् सत्साधुतापेन, शुष्कीभूतो हि सत्वरम् । हासः सत्यस्य कुत्राऽपि, न दृष्टो न च वा श्रुतः ॥८८॥
Page #15
--------------------------------------------------------------------------
________________
सदा प्रकाशमानोऽपि, मेघाच्छन्नो हि भास्करः जायते तद्वदत्राऽपि, सत्ये दृष्टान्त एषकः ॥८९॥ बुटेराजप्रतापाग्निः, प्रासरड्ढुण्ढकावनौ । दृश्यते यत्र कुत्राऽपि दग्धप्रायाऽधुनाऽपि सा ॥९०॥ तस्यैव पुण्यभाजोऽयं, शिष्यवर्यो धरातले । वृद्धिचन्द्राभिधानोऽधि-जातो जैनशिरोमणिः ॥९१॥ सौराष्ट्रगुर्जरमरुप्रभृतिप्रदेशे, सद्देशनां विदधतो भ्रमतो हिताय । उन्मूल्य ढुण्ढकमतं सफलीबभूव, यात्राऽस्य सिद्धकुधरस्य मुनेः सुपुण्या ॥९२।। श्रीमज्जिनेन्द्रमुखभाषितधर्मसेतुं, संस्थाप्य ढुण्ढजलधौ मतिरज्जुपुजैः । नाकं ह्यगात्क्षपितकर्ममलो मुनीन्द्रो, यं प्राणिनो गतभयाः सुतरां तरन्ति ॥९३।। चन्द्रस्य चन्द्रत्वमतः प्रसिद्धि, यातं यतो नाम महाप्रशस्तिः । धर्मोऽपि जैनो जिनदेवनिष्ठः, एतर्हि संयाति प्रशस्तभावम् ॥९४|| यत्कीतिचन्द्रः सततं रसायां, संभ्रम्य संभ्रम्य न शान्तिमेति । मन्ये स एवाऽम्बरमध्यभागे, संराजते चन्द्रमवाप्य शान्तः ॥९५।। तं सर्वलोककमनीयमनल्पकान्ति, को वा भजेनहि च ना गुरुवृद्धिकामी । चिन्तामणि सकलसौख्यकरं विहाय, को लोष्टपिण्डमभिकामयते शरीरी ॥९६॥ . तन्नामधामसुजुषो गुणवृद्धिलोला, रङ्का भवेयुरिह नाऽपि भवान्तरेषु । तस्माद् भजध्वमनिशं गुण-वृद्धिचन्दं, वक्ति प्रमाणपटु-माधवदास एषः ॥९७।। पुण्यात्मनामुभयलोकयशोऽभिवृद्धि-वंशोऽपि वंशमुकुटो विलसत्प्रभावः । यद्वंशसिन्धुचलवीचिमहासुपोतः, श्रीनेमिसूरि-मुनिराजविनेयभानुः ॥९८|| ऐदंयुगीनसमयेऽपि युगप्रधानः, संभाति शिष्यनिकरैविबुधाग्रगण्यैः । सोऽयं विभातु विदधातु शिवं समेषां, श्रीवृद्धिचन्द्रमुनिराड् विबुधद्रुकल्पः ॥९९।। न्यायादिशास्त्रपरसिन्धुविलोडनाग-श्रीनन्दनाभिधमुनीशनिदेशतोऽयम् । श्रीहेमचन्द्रविजयः परमेष्ठिवृद्धि-चन्द्रात्मसद्गुरुगुरोः शतकं व्यधत्त ॥१०॥
॥ इति श्रीवृद्धिचन्द्र-शतकं समाप्तम् ॥
Page #16
--------------------------------------------------------------------------
________________
जैनाचार्यश्रीमद्विजयकमलसूरिवाणां गुणस्तुत्यष्टकम्
मुनिचतुरविजयः
(शिखरिणी च्छन्दः) सुरारातिक्षुब्धाऽमरमथितपीयूषजलधिपरिस्फूर्जत्तुङ्गोर्मिरुचिरुचिरं यस्य वचनम् । जनानामाह्लादं हृदि वितनुते तं गुणनिधि, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥१॥ क्व मे स्वामी धन्यः सकलजनचेतःसुखकरः, क्व ते नाथः क्रूरो निखिलजनताखेदितमनाः । प्रतापौ संवादं तनुत इति यस्याऽपि च रवेः, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥२॥ निशाधीशज्योत्स्नानिवहविशदेलाधरशिरःक्षरद्गङ्गावेलापटलविमलं यस्य वचनम् । सुभक्तानां नाशं नयति नितरां कल्मषचयं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥३॥ समुद्रं गाम्भीर्यात्तरणिमपि तेजोभिरनघैहिमांशुं वाक्च्छैत्याद्विमलाधिषणातः सुरगुरुम् । यशोभिर्दिङ्नागान् व्यजयत मरालं च गतिना, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥४॥ हिमक्ष्माभृत्पुत्रीचरणनतभूतेशमुकुटपतद्भङ्गाधाराभरधवलबालेन्दुकररुक् ।
Page #17
--------------------------------------------------------------------------
________________
यशो विश्वे यस्य स्फुरति सततं तं श्रुतनिधि, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥५॥ सुरालीसंकल्पस्फुरदमरधेनुस्तनयुगक्षरत्क्षीरश्रेणीरुचिरुचिरमाभाति वचनम् । यदीयं विश्वेऽस्मिन् सकलसुखसन्तानजननं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥६॥ शिवास्वामिस्फूर्जन्मुकुटरजनीनाथकिरणवितानोद्योतिश्रीस्फटिकशिखरस्पर्धि सुतराम् । यशो यस्याऽत्यन्तं धवलयति दिङ्नागनिकरं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥७॥ नवीनादित्यांशुस्फुटबलभिदाशाक्षितिधरशिरःस्मेराशोकाङ्करनिकरविभ्राजि जगति । पुनीते भव्यान् यच्चरणकमलद्वन्द्वममलं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥८॥ . गुणश्रीपाथोधेरमरविजयस्याऽमलमतिः, क्रमाम्भोरुट्सेवाकरणचतुरो हृष्टहृदयः । हयाश्वाङ्केन्द्वब्दे(१९७७) चतुरविजयः पावनहृदोऽकृताऽऽचार्यस्य श्रीविजयकमलस्याऽष्टकमिदम् ॥९॥
Page #18
--------------------------------------------------------------------------
________________
जैनरन-व्याख्यानवाचस्पति-श्रीलब्धिविजयानां गुणस्तुत्यष्टकम्
मुनिचतुरविजयः
जज्ञे यस्य हि बालशासन इति ग्रामे प्रसिद्ध जनिः, मोती यज्जननी च यस्य जनकः पीताम्बरः श्रेष्ठिराट् । तं जैनागमतत्त्वदर्शिनमहो वैराग्यरङ्गाञ्चितं, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥१॥ नन्देष्वङ्कधराप्रमे(१९५९) स्थितवति श्रीविक्रमाद्वत्सरे, दीक्षां संसृतिनाशिनीं तु कमलाचार्यस्य पार्वेऽग्रहीत् । संयम्याऽक्षकदम्बकं प्रतिदिनं धत्ते च यः सन्मति, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥२॥ व्याख्यारञ्जितचित्तवृत्तिरखिलः सङ्घोऽनघश्चैडरो, व्याख्यागीष्पतिरित्यदात् पदमलं यस्मै यथार्थं किल । रात्रीनायकसप्तनन्दवसुधावर्षे(१९७१) शुभे वैक्रमे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥३॥ दुर्वार्यार्यसमाजयुक्तिपटलीविभ्रान्तचेतःस्थिति, जित्वा वादिसमूहमाप भुवने यः कीर्तिमिन्दूज्ज्वलाम् । नानाशास्त्रसमुत्थयुक्तिनिवहै: प्रज्ञाजुषां संसदि, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥४॥ भक्ष्याभक्ष्यविचारशून्यमनसो धर्मेऽपि नाऽऽस्थाजुषः, पीयूषोदरसोदरं श्रुतिपुटैर्यस्योपदेशं जनाः ।
Page #19
--------------------------------------------------------------------------
________________
पीत्वाऽऽनन्दममन्दमाप्य बहवो धर्मे स्थिरा जज्ञिरे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।।५।। यो दूरं विषयान् जहाति तनुते धर्मोपदेशं नृणां, सम्यक् पञ्चमहाव्रतानि वहते धत्ते सदा सन्मतिम् । भक्त्या सद्गुरुसेवनां च कुरुतेऽधीते श्रुतं चाऽनिशं, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥६॥ अन्तःस्फूर्जदनल्पवारिविभवभ्राजिष्णुपाथोधरनिर्घोषं विकलीकरोति वचसां घोषो महान् यस्य वै । नित्यं तं तपगच्छनाथकमलाचार्यस्य शिष्यं मुनि, भो भव्याः !. प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥७॥ धीमास्तत्पदपद्मयुग्ममधुलिड् वादीभकण्ठीरवो, नानाशास्त्रसमुद्रमन्थनहरिविज्ञानिचूडामणिः । विख्यातो मुलताननामनगरे मांसाशिनो बोधकः, भो भव्या: ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥८॥ कृतकर्मविनाशाय वासाय शिवसद्मनः । चतुरविजयेनैत-दकृताऽमलमष्टकम् ॥९॥
Page #20
--------------------------------------------------------------------------
________________
अर्थान्तरन्यासशतकम्
डॉ. एच्. वि. नागराजराव् रामपत्नी चोरयित्वा रावणो मृत्युमाह्वयत् । परदारेषु रक्तानां ध्रुवं मरणमञ्जसा ॥१॥
श्रीरामनामाऽनुध्यायंस्ततार जलधि कपिः ।
नास्त्येव रामभक्तानां भुवने कर्म दुष्करम् ॥२॥ संजिहीर्षन् समालिङ्गद् धृतराष्ट्रोऽनिलात्मजम् । प्रदर्शयन्तः प्रेमाऽपि हन्तुमिच्छन्ति शत्रवः ॥३॥
रणरङ्गेऽपि पार्थाय कृष्णो गीतामृतं ददौ ।
नाऽवेक्षते देशकालौ हितैषी दातुमुत्सुकः ॥४॥ पृथ्वीराजः क्षमां दत्त्वा यवनाय स्वयं मृतः । दुष्टेषु दर्शिता प्रायः क्षमा नाशस्य कारणम् ॥५॥
स्तन्येन पूतना कृष्णमजिघांसदशुद्धधीः ।
येन केनाऽप्युपायेन संजिहीर्षन्ति दुर्जनाः ॥६॥ कैकेय्या दापितं राज्यं नाऽग्रहीद् भरतः सुधीः । अन्यायेनाऽर्पितं वित्तं न स्वीकुर्वन्ति सज्जनाः ॥७॥
. रामपादौ नमस्कृत्य लेभे राज्यं विभीषणः ।
. . महात्मनामाश्रयणात् सर्वं प्राप्नोति बुद्धिमान् ॥८॥ बलेर्मखे याचकोऽभूद्धरिर्देवान् रिरक्षिषुः । मित्राणां रक्षितुं प्राणान् सर्वं कुर्वन्ति साधवः ॥९॥
उत्तानपादः स्त्रीमोहाद् ध्रुवमात्मजमाक्षिपत् । वनिताधीनहृदयास्तिरस्कुर्वन्ति पुत्रकान् ॥१०॥
१३
Page #21
--------------------------------------------------------------------------
________________
मत्स्याः प्राणान् संत्यजन्ति बडिशाग्रामिषेच्छया । जनाः सर्वे निगृह्यन्ते सुलभामिषलिप्सवः ॥११॥
भीमो विराटनगरे पाचकत्वमुपागमत् ।
विपत्काले तु या काचिद् वृत्तिराश्रीयते बुधैः ॥१२॥ दुर्योधनो ददौ राज्यं न भ्रातृषु मृतेष्वपि । दुष्टा धनं न त्यजन्ति नष्टेष्वप्यात्मबन्धुषु ॥१३॥
अत्याज्यं नास्ति लोकेऽस्मिन् सर्वलोकहितैषिणाम् ।
सत्यं दिदृक्षुः सिद्धार्थः पत्नीपुत्रादिकं जहौ ॥१४॥ कामी चन्द्रो गुरोर्भार्यां रमयित्वाऽभवत् क्षयी । स्त्रीव्यामोहो नैव जितो दैवतैरपि किं नरैः? ||१५||
धीरा गच्छन्ति जल्पत्सु क्षुद्रोपद्रवकारिषु ।
अवज्ञाय शुनां रावं गम्भीरो याति वारणः ॥१६॥ हेमघण्टाऽल्पशब्दैव कांस्यघण्टा महाध्वनिः । विद्वांसस्त्वल्पवचसो मूर्खास्तु बहुभाषिणः ॥१७||
कंसं जघान कृष्णोऽसौ बन्धुमप्याततायिनम् ।
दुष्टे दया न कर्तव्या कुलद्रोहिणि पापिनि ॥१८॥ तृणायाऽपि न मन्यन्ते बन्धून् राज्येप्सवो नराः । औरङ्गजेबो राज्यार्थी पितरं बन्धनेऽक्षिपत् ॥१९॥
देशं रिपुवशं चक्रू राजानोऽन्योन्यशत्रवः ।
अपरो विन्दते वित्तं परस्परविरोधिनाम् ॥२०॥ रामः पृथिव्यां कार्याणि समाप्य स्वपुरं ययौ । . कार्यादूर्ध्वं न तिष्ठन्ति श्रेष्ठाः परगृहे क्षणम् ॥२१॥
गङ्गायां स्नाति दृष्ट्वाऽपि तज्जलं मलिनं कुधीः ।
सम्प्रदायग्रहग्रस्ता नेक्षन्ते वास्तवीं स्थितिम् ॥२२॥ नाथूरामो महात्मानमवधीद् गान्धिमाग्रहात् । स्वच्छाशयानां जायन्ते शत्रवः सत्यवादिनाम् ॥२३।।
Page #22
--------------------------------------------------------------------------
________________
स्वप्राणांस्त्यक्तुमुद्युक्तो दिलीपो गां रिरक्षिषुः । उत्तमाः किं न कुर्वन्ति रक्षितुं स्वाश्रितान् सदा ॥२४॥ दयानिधीनां लोकेऽस्मिन् नास्त्यदेयं महात्मनाम् । शिबिः स्वदेहमांसं च ददाववितुमण्डजम् ॥२५॥
बृहस्पतिसुतः शुक्रशिष्यत्वं स्व्यकरोन्मुदा । कार्यार्थी शत्रुपक्षेऽपि विष्वोद्देशं प्रसाधयेत् ॥२६॥ सर्वोऽप्यर्चति तिर्यञ्चं गरुडं विष्णुवाहनम् । सामान्योऽप्युत्तमासङ्गान्मान्यतां लभते ध्रुवम् ॥२७॥
मूढोऽपि सुप्रयत्नेन कवित्वं लभतेऽद्भुतम् । खगोऽपि पञ्जरे तिष्ठन् प्रयत्नाद्वाचमञ्चति ॥ २८॥ मशकोऽप्यात्मनो जीवं रक्षितुं यतते बहु । प्राणरक्षणयत्त्रोऽयं सर्वेषां प्राणिनां समः ॥२९॥
अश्वत्थामा द्रौपदेयान् पञ्च पुत्रान् न्यषूदयत् । ज्येष्ठान् हन्तुमशक्तोऽपि वंश्यान् नीचो जिघांसति ॥३०॥ यादवानां मिथो युद्धं रोद्धुं कृष्णोऽपि नाऽशकत् । विनाशोन्मुखमर्त्यानां नास्ति वारयिता प्रभुः ||३१||
प्राप्तगीतोपदेशोऽपि पार्थोऽरोदीत् सुते मृते । उपदेशं विपत्काले विस्मरत्यखिलो जनः ॥३२॥ सूर्योदये चन्द्रकान्तिर्हीना जाता क्षणे क्षणे । अधिकारिणि नूने स्युः पूर्वे शोभादिवर्जिताः ||३३||
दानशौण्डो न कुरुते पात्रापात्रविवेचनम् । वृक्षाः फलानि ददते योग्येभ्योऽन्येभ्य एव च ॥३४॥
प्रादर्शयत् स्वविनयं कालिदासमहाकविः । महान्तो नैव कुर्वन्ति गर्वं सर्वज्ञसंनिभाः ॥ ३५॥
कश्चिच्छृणोतु वा मा वा मधौ कूजति कोकिलः । कर्तव्यं निर्वहत्येव साधुः शंसानपेक्षया ||३६|
१५
Page #23
--------------------------------------------------------------------------
________________
शबर्या वृद्धया दत्तं रामोऽभुङ्क्त फलं मुदा । जाति वयो वा नेक्षन्ते देवता भक्तवत्सलाः ॥३७॥
हनूमान् वाचि कुशलो राममैत्रीमविन्दत ।
सर्वेषां लभते सख्यं लोके वाक्कुशलो जनः ॥३८॥ यशस्कामैः प्रणेतव्यं सत्काव्यं रसपेशलम् । त्रिलोक्यां कालिदासस्य कीर्तिरद्याऽपि विद्यते ॥३९॥ .
जनैरलभ्यं यद्वित्तं तद् व्यर्थं दूरसंस्थितम् ।।
शैलमस्तकवृक्षस्थं भोक्त्रलभ्यं फलं वृथा ॥४०॥ आप्तुकामै रत्नराशिं वाधिराश्रीयते जनैः । लावण्यवान् सदा सर्वान् आकर्षति न संशयः ॥४१॥
त्रैलोक्यं विजितं येन स कामो भस्मसादभूत् ।
अल्पभूभागजेतारः किमु स्थास्यन्ति शाश्वताः ? ॥४२॥ चातकाः कूजितैः स्तुत्वा प्रार्थयन्ते बलाहकम् । सर्वे जीवनदं लोके याचन्ते स्तुतिपूर्वकम् ॥४३॥
दायं दायं जलं भूम्यै न तृप्यन्ति बलाहकाः ।
दत्त्वा दत्त्वाऽपि तृप्यन्ति याचकेभ्यो न दानिनः ॥४४॥ लता बिभर्ति पुष्पाणि भ्रमराकर्षणे रता । सर्वेऽपि ग्राहकाकृष्टयै शोभयन्त्यापणान् सदा ॥४५॥
अवर्णयददृष्ट्वाऽपि कालिदासः शकुन्तलाम् ।
कविभिर्वर्ण्यते सर्वं दृष्ट्वेवाऽदृष्टमद्भुतम् ॥४६॥ गृध्रः पश्यति दूरस्थं मांसं नैव तु वागुराम् । व्यापृतं वञ्चनाजालं न पश्यन्त्यामिषार्थिनः ॥४७॥
तपोमग्नोऽप्यालिलिङ्ग विश्वामित्रश्च मेनकाम् ।
कामातुरां स्त्रियं दृष्ट्वा को न स्खलति पूरुषः ? ॥४८॥ चञ्चलश्चञ्चरीकोऽपि पुष्पेभ्यो लभते मधु । अन्नदाने सुमनस: पक्षपातं न कुर्वते ॥४९।।
Page #24
--------------------------------------------------------------------------
________________
तमिस्रायां भान्ति दीपाः प्रभाहीनास्तु ते दिवा ।
समस्तानां पदार्थानां कान्ति: कालावलम्बिनी ॥५०॥ श्वा शुन्यां वीक्षते रूपं रासभ्यां रासभस्तथा । सौन्दर्यं दृश्यते कामप्रेरितैः स्त्रीषु सर्वदा ॥५१॥
विष्णुर्लक्ष्म्यां शिवो गौर्यां ब्रह्मा वाण्यां च कामुकाः ।
का कथान्यस्य पुंसोऽत्र स्त्रीभिः सर्वो जितो नरः ॥५२।। नाऽर्चाहेतुर्जन्म नृणां लोके शीलं हि पूज्यते । पूज्यन्तेऽत्र सुशीलत्वात् कुण्डा अपि पृथासुताः ॥५३।।
गुणानभिज्ञरचितं स्तोत्रं लोके न हास्यते ।
बधिरेण कृता गानस्तुतिर्हास्याय कल्पते ॥५४॥ जिज्ञासते वधूरूपमन्धोऽप्युद्वहने रतः । नोज्झन्ति रूपसंमोहं नरा ज्ञात्वापि तत्क्षयम् ॥५५।।
काषायधारी संन्यासी वृद्धोऽपि धनमीहते ।
काञ्चनाशाविनिर्मुक्तो लोके क्वाऽपि न दृश्यते ॥५६।। धनेच्छया न तु प्रीत्या वैद्यो रुग्णान् परीक्षते । प्रवृत्तौ सर्वभूतानां लाभ एवाऽऽदिकारणम् ॥५७।।
चरुं यज्ञेषु वाञ्छन्तो देवा वृष्टिं वितन्वते ।
सर्वेषामपि सत्कार्ये स्वार्थो भवति गृहितः ॥५८।। दोग्ध्रीं धेनुं पूजयन्ति लोकेऽस्मिन्न तु वेहतम् । प्रयोजने विद्यमाने पूजा भवति नाऽन्यथा ॥५९॥
चञ्चलं चञ्चरीकं च कवयो वर्णयन्त्यमी । • सदा स्तुतौ प्रवृत्तानां यत्किञ्चिद्वस्तु सुन्दरम् ॥६०॥ छिन्नं पिष्टं च दग्धं च चन्दनं सुरभि सदा । कष्टेऽनिष्टे सङ्कटेऽपि पतितः सज्जनः सुहृत् ॥६१॥
भीष्मो वृद्धतमो युद्धे शौर्यं प्राकाशयत् परम् । वचो न कुण्ठयत्येव क्षात्रमोजो महात्मनाम् ॥६२॥
१७
Page #25
--------------------------------------------------------------------------
________________
पार्थो विद्यागुरुं द्रोणं शकलीकृतवाञ्छरैः । युद्धे विस्मयते वीरैर्बान्धव्यं चाऽपि गौरवम् ॥६३||
शिखण्डिनं पुरस्कृत्य कृष्णो भीष्ममघातयत् ।
नोपायन्याय्यतां युद्धे गणयन्ति जिगीषवः ॥६४॥ मूकोऽपि देव्याः कामाक्ष्याः कटाक्षेणाऽभवत् कविः । देवतानां प्रसादेन सुलभाः सर्वशक्तयः ॥६५।।
नौकायते मरावुष्ट्रो रूक्षो वक्रमुखोऽपि सन् ।
शक्तः कार्यविशेषे यस्तस्य रूपं न गण्यते ॥६६॥ चातुर्यं विन्दते बालः संसर्गेण विपश्चितः । ध्रुवो नारदसम्पर्काद्विष्णुभक्तोत्तमोऽभवत् ॥६७॥
देवाश्चरुमपेक्षन्ते पिबन्तोऽप्यमृतं सदा ।
नास्त्येव तृप्तिः कस्याऽपि लब्धुः सौख्यमनुत्तमम् ॥६८॥ व्रततिः पुष्प्यति क्वाऽपि व्याप्तः परिमलः पुरे । पुण्यकार्यफलं शीघ्रं सर्वैरप्यनुभूयते ॥६९।।
रथश्चलति चक्राभ्यां न चक्रेण चरेत् क्षितौ ।
द्वयोर्योगः सदा श्रेयान् कार्यसिद्ध्यै भुवस्तले ॥७०।। एकाकी दिवमारूढस्तमो हन्ति दिवाकरः । तेजस्वी नाऽन्यसाहाय्यं कार्यसिद्धावपेक्षते ॥७१॥
कृष्णस्य श्वशुरो जातो भल्लूकोऽपि स जाम्बवान् ।
जातौ जातोऽपि कस्याञ्चिदुन्नतिं लभते गुणैः ॥७२॥ जरासन्धभयात् कृष्णो द्वारकां निर्ममेऽम्बुधौ । शिष्टा दुष्टभयाद्दूरे वस्तुमिच्छन्त्यनुद्धताः ॥७३।।
सन्तः प्रतिज्ञां कुर्युश्चेत् पालयिष्यन्ति तां सदा ।
भीष्मः प्रतिज्ञां कृत्वोग्रां यावज्जीवमपालयत् ॥७४।। जगाम रामो विपिनं पित्राज्ञां शिरसा वहन् । स एक पुत्रः सुकृती पितुरुक्तं करोति यः ॥७५॥
Page #26
--------------------------------------------------------------------------
________________
विमानमहरद् भ्रातुः प्रसभं रावणः खलः ।
दुष्टा बन्धोश्च सख्युश्च स्वं हरन्ति विना त्रपाम् ॥७६।। द्रौपद्या. वस्त्रमाकृष्य मृत्यु दुःशासनोऽवृणोत् । परनारी वह्निशिखां स्पृष्ट्वा कोऽत्र न दह्यते ॥७७॥
तपसा पार्वती लेभे पतिं लोकोत्तरं शिवम् ।
असामान्यं वस्तु लब्धं कर्तव्यं श्रद्धया तपः ॥७८॥ किं किं रूपं न दधते सन्तो लोकहितैषिणः । मत्स्यः कूर्मो वराहश्च भूत्वाऽवील्लोकमच्युतः ॥७९॥
पठित्वाऽद्याऽपि मोदन्ते प्राचां काव्यानि मानुषाः ।
तादृशं कर्म सुकवेर्यस्य स्याच्छाश्वतं फलम् ॥८०॥ ___ कवयो बहवः किन्तु महान्तो विरलाः क्षितौ । सर्वासु जातिषु क्षुद्रा भूयिष्ठास्तूत्तमाः क्वचित् ॥८१॥
न स्वार्थं गणयन्त्येव लोकस्योपचिकीर्षवः ।
विना प्रतिफलापेक्षां सततं द्योतते रविः ॥८२।। दूरस्थानां न भासन्ते दोषा भान्ति तु सद्गुणाः । चन्द्रमा दृश्यते रम्यो वृत्ताकारश्च दूरतः ॥८३॥
सान्दीपिनेर्गुरुकुले कृष्णोऽसेविष्ट सद्गुरुम् ।
विद्यार्थिना गुरोस्सेवा कर्तव्या भूतिमिच्छता ॥८४॥ सगरेण कृते यज्ञे मघवाऽश्वमपाहरत् । महान्तोऽपि स्वार्थसिद्धयै नीचकार्याणि कुर्वते ॥८५॥
अजपल्या इन्दुमत्या माला मरणदाऽभवत् । . क्रूरस्य मृत्योर्लोकेऽस्मिन् किंवा वस्तु न साधनम् ।।८६।। भगीरथस्य यत्नेन गङ्गायां स्नान्ति मानवाः । महात्मनां श्रमो लोके सर्वसौख्यस्य कारणम् ॥८७॥
विघ्ने जाते नैव कार्यं मध्ये त्यजति बुद्धिमान् । जहुना स्तम्भितां गङ्गामध्यानैषीद् भगीरथः ॥८८॥
Page #27
--------------------------------------------------------------------------
________________
रामाय दशरथोऽयच्छद्राज्यं स तु वनं गतः । नरेण चिन्त्यते किञ्चिदन्यद् दैवेन चिन्त्यते ॥८९॥
परान कश्चित्पुष्णाति प्रीत्या, स्वार्थोऽत्र विद्यते ।
मांसलान् अजपालोऽजान् कुरुते धनलिप्सया ॥१०॥ तपोभङ्ग कर्तुमिच्छन् कामोऽदह्यत शम्भुना ।। महात्मनां व्रते विघ् चिकीर्षन् लघु नश्यति ॥११॥
पतिव्रतानां श्रेष्ठाऽऽसीद् द्रौपदी पञ्चवल्लभा ।
सामान्यनियमा नैव स्पृशन्ति महिमान्वितान् ॥९२।। अनेके कुर्वते यत्नं फलमेकेन लभ्यते । मज्जन्ति बहवोऽम्भोधौ कश्चिद्रनानि विन्दति ॥९३।।
यक्षो मेघेन सन्देशं प्रेषयामास विह्वलः ।
अचेतनोऽपि दूतः स्याद्विरहोन्मथितात्मनाम् ॥९४|| नृत्यन्तं शिखिनं दृष्ट्वा विहगोऽन्योऽपि नृत्यति । अल्पाश्च महतां चेष्टामनुकुर्वन्ति मोहतः ॥१५॥
भृशं क्षीरोदधौ स्नात्वा काकः श्वेतो न जायते ।
तीर्थस्नानं न दुष्टानां हरते पापमव्ययम् ॥९६।। गुणवन्तमपि प्राज्ञं दोषीत्याहुनराः क्वचित् । लोकाह्लादकरं चन्द्रं वियुक्तास्तापकं विदुः ॥९७।। __ अमृतांशुं पूजयन्ति कलङ्किनमपि प्रजाः ।
गुणाधिक्ये दोषमेकं क्षमन्ते धीधना जनाः ॥९८।। दानी परुषवाक्योऽपि लोकैराश्रीयते सदा । तिग्मांशुरपि सूर्योऽसौ पूज्यते वृष्टिकारकः ॥९९।।
वासुदेवं पूजयन्ति वसुदेवं न मानवाः ।
गुणैः श्रेष्ठः पूज्यतेऽत्र वयोज्येष्ठो. न गण्यते ॥१००॥ कृतमर्थान्तरन्यास-शतकं सुहृदां मुदे । विदुषा नागराजेन ललितैर्मधुरैः पदैः ॥
२०
Page #28
--------------------------------------------------------------------------
________________
॥ अन्तरालापाः ॥
मुनिन्यायरत्नविजयः विजयो जायते कस्य ?
गुणेषु यत्नं के कुर्युः? साधूनामुत्सवश्च कः? ।
कुत्र वसन्ति सम्पदः ? । निर्ग्रन्थस्य धनं कीहक् ?
कीदृशा भोगिनः पापे? शूरस्य मरणं तृणम् ॥१॥
सज्जनाः सद्गुणे रताः ॥६॥ समुद्रे कीदृशा वृष्टिः ?
वाञ्छ्यमस्ति सुराणां किम् ? अन्नं कस्य न रोचते? ।
कीदृशं साधुदर्शनम् ? । ज्ञानार्जनं च किं साधोः ?
साधुर्न रज्यते कुत्र ? वृथा तृप्तस्य भोजनम् ॥२॥
नरत्वं दुर्लभं भवे ॥७॥ धीः प्रोक्ता सुखदा केषाम् ?
धर्मसेवां कदा कुर्यात् ? मुनीनां सुगुणाः च किम् ? ।
सदा बन्धुश्च कः भवेत् ? । न्यायेन शोभते कोऽत्र ?
प्रोक्तः सुधर्मः किंभूतः ? मन्त्रिणां भूषणं नृपः ॥३॥
सर्वदा धर्म इष्टदः ॥८॥ स्थानं कस्य दयापूर्वं ?
साक्षाद्धि का न दृश्यन्ते ? विद्या साधोश्च किंविधा ? |
मानस्य कारणं च किम् ? | दातुं च सरला का न?
आश्रितस्य च किं कार्यम् ? ज्ञानस्याऽऽभरणं क्षमा ॥४॥
देवता मम रक्षणम् ॥९॥ सज्जनस्याऽलङ्कारः कः ?
निशाः कस्य न गच्छन्ति ? कार्यं माता करोति किम् ? ।
का रम्या यौवने भवेत् ? । को बालो गुणयुक्तः स्यात् ?
विना धर्मं धनं कीदृग् ? धर्मो रक्षति रक्षितः ॥५॥
वृद्धस्य तरुणी वृथा ॥१०॥
२१
Page #29
--------------------------------------------------------------------------
________________
स्वाध्यायार्थं नु कि कार्यम् ? साधुः कस्य च बान्धवः ? | सदाचारश्च किं प्रोक्तः? मौनं सर्वस्य भूषणम् ॥११॥
परदोषे च किं कुर्यात् ? प्रियश्च कस्य सज्जनः ? | वपुर्धर्मस्य किं प्रोक्तम् ?
मौनं सर्वस्य साधनम् ॥१२॥ सर्वोत्तमं सुखं कस्य ? पशूनां भोजनं च किम् ? ब्रह्म सत् तर्हि किं मिथ्या ? निःस्पृहस्य तृणं जगत् ।।१३।।
साधनायां रताः केऽत्र ? सज्जनाः कीदृशा मताः ? । सदाचारं कदा कुर्युः ? साधवः सुखिनः सदा ॥१४॥
न त्यजेत् कुत्र धीरत्वम् ? सर्वेषां किं प्रियं मतम् ? | बलादपि हि का श्रेष्ठा ?
व्यसनेषु धनं मतिः ॥१५॥ किं प्रोक्तं शीतलं लोके ? कुत्र तिष्ठन्ति मानवाः ? । वसन्ति श्वापदाः कुत्र ? चन्दनं न वने वने ॥१६॥
Page #30
--------------------------------------------------------------------------
________________
भक्तामरस्तोत्रान्तिमचरण-पादपूर्ति-रूपः परमगुरुशासनसम्राटश्रीविजयनेमिसूरीश्वरजीवनवृत्तवर्णनात्मकः स्वोपज्ञप्रभावृत्तिविभूषित: श्रीनेमिस्तव:
स्व. आ. श्रीविजयधर्मधुरन्धरसूरिः अर्हन्मतानुगमनं गुणवत्प्रकामं,
स्याद्वादसारनयभङ्गभराभिरामम् ।। नेमे ! गुरो ! तव वचोऽस्त्यधुनातनानां,
वाऽऽलम्बनं भवजले पततां जनानाम् ॥१॥ अन्वयः गुरो ! नेमे ! स्याद्वादसारनयभङ्गभराभिरामम्, अर्हन्मतानुगमनम्, प्रकामम्, गुणवत्, तव, वचः, भवजले, पतताम्, अधुनातनानाम्, जनानाम्, आलम्बनम्, वा अस्ति । प्रभावृत्तेः मंगलम्
हा अहँ वरं मन्त्रं प्रणिधाय परं महः । नेमिस्तवप्रभावृत्तिः, सुखबोधाय तन्यते ॥
प्रभावृत्तिः गुरो ! गृणाति समुच्चारयति धर्ममिति गुरुः । "क गृ ऋत उर्च" (उणादि ७३८) इति उ प्रत्ययः । तदामन्त्रणे तथा । हे धर्मोपदेशक ! "गुरुर्धर्मोपदेशक" १/७७ इत्यभिधानचिन्तामणिः । नेमे ! - सूरिरूपस्य चक्रस्य नेमिवनेमिस्तदामन्त्रणे तथा । सूरिचक्रचक्रवर्तिन् भगवन् नेमिसूरीश्वरेति यावत् । स्याद्वादसार-नयभङ्गाभराभिरामम् - स्यात्पदलाञ्छितो वादः स्याद्वादोऽनेकान्तवादः, तत्त्वेषु भावाभावादिशबलैकरूपत्वात्, प्रतितत्त्वाधिकरणकविरुद्धानेकधर्मप्रकाशकत्वमिति यावत्, स एव सारः श्रेष्ठः ययोस्तौ च तौ नयभङ्गौ - प्रकृतवस्त्वंशग्राही तदितरांशाप्रतिक्षेपी चाऽध्यवसायविशेषो नयश्च - एकत्र वस्तुन्यैकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधावाक्यप्रयोगो भङ्गश्च स्याद्वादसारनयभङ्गौ तयोर्भरोऽतिशयस्तेन अभिरामं-मनोहरन्तथा । यद्वा - नयसंवलितो भङ्गो नयभङ्गः, स्याद्वादे सारः श्रेष्ठों यो नयभङ्गस्तस्य भरोऽतिशयस्तेनाऽभिरामन्तथेति ।
२३
Page #31
--------------------------------------------------------------------------
________________
अत्र प्रसङ्गात् सप्तभङ्गी दर्श्यते - १. स्यादस्ति २. स्यान्नास्ति ३. स्यादस्ति च स्यान्नास्ति च ४. स्यादवक्तव्यः ५. स्यादस्ति चाऽवक्तव्यश्च ६. स्यान्नास्ति चाऽवक्तव्यश्च ७. स्यादस्ति नास्ति चाऽवक्तव्यश्चेत्येवंरूपा सप्तभङ्गी वेदितव्या, एतत्तत्त्वमन्यत्र दर्शितं द्रष्टव्यम् । " सारो बले स्थिरांशे च मार्जिन पुंसि जले धने । न्याय्ये क्लीबं त्रिषु वरे" इति मेदिनी ।
-
अर्हन्मतानुगमनम् - चतुस्त्रिंशतमतिशयान् सुरेन्द्रादिकृतां पूजां वाऽर्हन्तीत्यर्हन्तस्तीर्थकृतस्तेषां मतं सम्मतम् अभिमतं सिद्धान्ततत्त्वमिति यावत्, तस्य अनुगमनम् अनुसरणशीलं तथा । "मतं तु सम्मते ज्ञाते" इति मेदिनी । प्रकामम् - प्रकृष्टः कामोऽभिलाषो यतस्तत्तथा, यद्वा प्रकृष्टं कामं काम्यं यतस्तथा "कामः स्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि च नपुंसकम्" इति मेदिनी । गुणवत् - गुणाः माधुर्यौः प्रसादाऽऽख्यास्त्रयः, अथवा "राजाभोजो गुणानाह, विंशतिं चतुरश्च यान् । वाम दश तान् वाग्मी, भट्टस्त्रीनेव भामहः" इति सरस्वतीतीर्थ - दर्शितबहुविधा: सन्त्यस्मिन्निति तथा । तव - श्रीमतो भवतः । वचः उपदेशवाक्यम् । भवजले भवः संसारो जन्म वा जलं सलिलं भवजलं तस्मिंस्तथा । पतताम् - निपत्याऽवतिष्ठमानानाम् । अधुनातनानाम् आधुनिकानाम् । जनानाम् लोकानाम्। “भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः" इति मेदिनी । आलम्बनम् आश्रयः । अस्ति - विद्यते । वा - संभावनायाम् । अत्राऽनुप्रासो नाम शब्दालङ्कारः, तस्याऽपि छेकानुप्रास - वृत्त्यनुप्रास श्रुत्यनुप्रासान्त्यानुप्रास-लाटानुप्रासात्मपञ्चविधत्वेन मुख्यतयाऽत्र “काशस्तवकविशेषः कासः, कायः प्रकटितकरभविलासः । चक्षुर्दग्धवराटककल्पं, तदपि न मुञ्चति काममनल्पम् - इत्यादाविवाऽन्त्यानुप्रासो वेदितव्यः । “अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्" । "व्यञ्जनं चेद्यथावस्थं सहाऽऽद्येन स्वरेण तु । आवर्त्यतेऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत्" इति - तदीयसामान्यविशेषलक्षणे अवसेये । भवजले इत्यत्र रूपकम् । प्राधान्येन तदीयतादृशवचसः भवसागरपतज्जनावलम्बनतादात्म्यसंभावनादुत्प्रेक्षा ।' रूपकोत्प्रेक्षयोर्लक्षणेऽग्रे द्रष्टव्ये । वसन्ततिलका वृत्तम् । " उक्तं वसन्ततिलकं तभजाजगौगः " इति तल्लक्षणमवसेयम् ।
-
सत्तलक्षणसुलक्षणप्रीतप्रीतैः
-
-
सूरीश्वरैः स्तुतिपथं गमितं सुगीतैः ।
त्वां भक्तिनिर्भरहृदा प्रणिपत्य सेन्द्रं -
स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥
-
अन्वयः सत्तर्कलक्षणसुलक्षणप्रीतप्रीतैः, सुगीतैः सूरीश्वरैः स्तुतिपथम् गमितम् त्वाम् भक्तिनिर्भरहदा प्रणिपत्य, अहम्, अपि, सेन्द्रम्, तम्, प्रथमम्, जिनेन्द्रम्, स्तोष्ये, किल ।
वृत्तिः सत्तलक्षणसुलक्षणप्रीतप्रीतैः - तर्कणं विचारणं, तर्क: ऊह:, असाधारणधर्मात्मलक्षणम्, सुलक्षणं शुभसूचकं चिह्नम्, तर्कश्च लक्षणम् च सुलक्षणं चेति तर्कलक्षणसुलक्षणानि सन्ति - विद्यमानानि
२४
Page #32
--------------------------------------------------------------------------
________________
समीचीनानि वा तर्कलक्षणसुलक्षणानि सत्तर्कलक्षणसुलक्षणानि, “द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येक मभिसंबध्यते" इति नियमात् त्रिष्वपि पदेषु सत्पदस्य सम्बन्धात् समीचीनो यस्तदीयस्तर्कः सम्यक् यत् तत्कृतपदार्थसार्थलक्षणम्, सुशोभनं यत्तदीयं सुलक्षणमित्यर्थः तैः प्रीतप्रीतैः - अत्यन्तं प्रसन्नैः । सुगीतैः सुष्ठु शोभनं गीतं गायनं लोककदम्बककृतप्रशंसनं येषां ते सुगीताः प्रख्यातयशसस्तैस्तथा । सूरीश्वरैः सुवन्ति समुत्पादयन्ति सन्देहमिति सूरयो विद्वांसस्तेषाम् ईश्वराः श्रेष्ठाः सूरीश्वरा विद्वद्वरेण्यास्तैस्तथा । “विद्वान् सुधीः कविविचक्षणलब्धवर्णाः, ज्ञः प्राप्तरूप - कृति - कृष्ट्यभिरूपधीराः । मेधावि - कोविद - विशारदसूरि" ३|५|| इत्यभिधानचिन्तामणिः । स्तुतिपथम् - स्तुतिः स्तवनं स्तोत्रमिति यावत्, तस्याः पन्थाः मार्गः स्तुतिपथ: “समासान्तोऽत् प्रत्ययस्तं तथा । गमितं प्रापितम् । तादृशैरपि सूरिवरेण्यैः श्रद्धया स्तुतमिति यावत् । त्वाम् - त्वद्रूपं गुरुवरम् । भक्तिनिर्भरहृदा - भक्तिनिर्भरण - अनुरागातिशयेन समुपलक्षितं हृद् हृदयं भक्तिनिर्भरहृद् तेन तथा । "चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः " इत्यमरकोशात् स्वतन्त्रस्य हृदयपर्य्यायस्य हृच्छब्दस्याऽस्तित्वमवसेयम् । प्रणिपत्य - प्रणत्य । अहम्, अपि सम्मावनायाम् । सेन्द्रम् - इन्द्रेण - सौधर्मेन्द्रेण सहितः सेन्द्रस्तं तथा । तम् - प्रसिद्धम् । प्रथमम् - आद्यम् । जिनेन्द्रम्जयन्ति रागद्वेषमोहानिति जिनाः, तेष्विन्द्रः श्रेष्ठो जिनेन्द्रस्तं तथा । स्तोष्ये प्रशंसिष्यामि स्तवनकर्म करिष्ये इति यावत् । किल - संभावनायाम् । "वार्तासंभाव्ययोः किल" इत्यमरकोशः । अत्र प्रस्तुतस्य गुरुवरश्रीविजयनेमिसूरीश्वरस्य विद्वच्चक्रवर्तित्वबोधनाय विशेषणयोः साभिप्रायत्वेन परिकरालङ्कारः ।" “उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः" इति साहित्यदर्पणे तल्लक्षणात् । " ननु साभिप्रायपदार्थवाक्यार्थ विन्यसनरूप-परिकरालङ्कारप्रसङ्गो सर्वत्र काव्यलिङ्गस्य वर्तमानतया तस्य स्वातन्त्र्येणाऽलङ्कारत्वाभाव इति . चेदत्र ब्रूमः - परिकरे पदार्थ - वाक्यार्थ- बलात्प्रतीयमानानामर्थानां वाच्योपस्कारकता, काव्यलिङ्गे तु पदार्थवाक्यार्थयोरेव वाच्यार्थापस्कृतिहेतुनेति परिकरस्याऽलङ्कारत्वं निर्विवादम्, अत एव व्यङ्ग्यार्थस्य वाच्यपरिकरत्वात्परिकर इति नामाऽप्यस्याऽलङ्कारस्य । केचित्तु निष्प्रयोजनविशेषणोपादानेऽपुष्टार्थत्वदोषस्य विद्यमानत्वात् विशेषणस्य सप्रयोजनत्वं दोषाभावमात्रं न कश्चिदलङ्कारः, एकनिष्ठतादृशानेकविशेषणोपन्यासे केवलं वैचित्र्यविशेषात् परिकर इत्यलङ्कारमध्ये परिगणित इत्याहुः । वस्तुतस्त्वनेकविशेषणोपन्यास एव परिकर इति न नियमः, श्लेषयमकादावपुष्टार्थस्य दोषाभावेन नैकस्याऽपि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषात् परिकरः स्वीकरणीय इति ॥२॥
त्वां रूपरूपणचणं विदितात्मरूपं
सेष्टेऽजडः कवयितुं कथमिष्टरूपम् । मन्दं विना दिनकरं गगने वरीतु
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥३॥
२५
Page #33
--------------------------------------------------------------------------
________________
अन्वयः सः, अजडः, (अपि) रूपरूपणचणम्, विदितात्मरूपम्, इष्टरूपम्, त्वाम्, कवयितुम्, कथम्, ईष्टे, मन्दम्, विना, दिनकरम्, गगने वरीतुम्, सहसा ग्रहीतुम्, अन्यः कः, इच्छति ? ॥३॥
वृत्तिः सः प्रसिद्धः | अजडः - सचेताः, जडो मन्दः, न जडोऽजड इति व्युत्पत्तेः तथा च जडत्वनिषेधसामानाधिकरण्येन सचेतस्त्वप्रतीतेर्महाकवित्वं लक्ष्यतावच्छेदकतया प्रतीयते । अपीति शेषः । रूपरूपणचणम् – रूपयति निरूपयतीति रूपण:, रूपस्य स्वरूपस्य स्वमावस्य वा रूपणो रूपरूपणः, प्रशस्तो रूपरूपणो रूपरूपणचणः, अथवा रूपस्य स्वरूपस्य स्वभावस्य वा रूपणं रूपरूपणं तेन वित्तो रूपरूपणचणस्तं तथा । विदितात्मरूपम् - विदितं ज्ञातमात्मनः परमात्मनो रूपं स्वरूपं येन स विदितात्म रूपस्तं तथा, “रूपं स्वभावे सौन्दर्य्ये नामगे पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकार श्लोकयोरपि " इति मेदिनी । इष्टरूपम् - इष्यतेऽभिलष्यते स्मेतीष्टम्, तत्तादृशं रूपं स्वभावः सौन्दर्य्यमाकारो वा यस्य स इष्टरूपस्तं तथा । त्वाम् - भवन्तम्, तत्रभवन्तम् भगवन्तमिति यावत् । कवयितुम् - विद्यायशस्तपस्त्याग संयम-वादिवशीकरणादिप्रकाशनद्वारेण वर्णयितुम् । कथम् केन प्रकारेण ? । ईष्टे - प्रभवति समर्थो भवतीति यावत् । अत्र यत्तदोर्नित्यसम्बन्धः इत्यनुशासनात्तयोरन्यतरस्याऽनुपादाने स्फुटतयोद्देश्यविधेयभावाद्य प्रतीतिनियमात् तच्छब्दमात्रस्यैव सत्त्वेन कथं विधेयो विमर्शदोषोद्धार इति नाऽऽशङ्कनीयम् - उक्तनियमस्य सत्त्वेऽपि प्रक्रान्ताप्रसिद्धानुभूतार्थकत्वे तच्छब्दस्य यच्छब्दाकाङ्क्षाविरहसिद्धान्तात् ।
-
अत एव " स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते ।
धातोः स्थान इवाऽऽदेशं सुग्रीवं सन्यवेशयत् ॥"
“स वः शशिकलामौलिस्तादात्म्यायोपकल्प्यताम् ॥"
I
“तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि " इत्यादौ न यच्छब्दोपादानापेक्षेति भावः । दृष्टान्तेन समर्थयति - मन्दमित्यादि - मन्दम् - अज्ञम्, जडम्, शनैश्वरञ्च । " मन्दोऽतीक्ष्णे च मूर्खे च स्वैरे चाऽभाग्यरोगिणोः । अल्पे च त्रिषु पुंसिस्याद्धस्तिजात्यन्तरे शनौ ” इति मेदिनी । विना अन्तरेण । दिनकरम् - करोतीति करः, दिनस्य करो दिनकर : सूर्य्यस्तं तथा । गगने आकाशे । वरीतुम् - अवरोद्धुम् । सहसा हठात्, अविचिन्त्येत्यर्थः । ग्रहीतुम् - उपादातुम् । अन्यः परः, मूर्खादितरः, विद्वानिति यावत् । कः - इच्छति - अभिलषति ? कोऽपि नेत्यर्थः ॥३॥
-
-
-
स्तोत्रं विधातुमिह कोऽविकलोऽपि हीशः
सद्धर्मधुर्य्य ! तव दिव्यगिरा मुनीश ! । को गन्तुमत्र गहनान्तमरं पदाभ्यां ?
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥४॥
२६
अन्वयः सद्धर्मधुर्य्य! मुनीश ! इह, दिव्यगिरा, तव स्तोत्रं विधातुम्, अविकलः, अपि, कः, ईशः, अत्र, पदाभ्याम्, अरम्, गहनान्तम्, गन्तुम्, कः, वा, भुजाभ्याम्, अम्बुनिधिम् तरीतुम्, कः, अलम् ? ॥४॥
Page #34
--------------------------------------------------------------------------
________________
-
-
तव
वृत्तिः सद्धर्मधुर्य्य ! सन् शोभनश्चाऽसौ धर्मः सुकृतं सद्धर्मः “सन्महत्परमोत्तमोत्कृष्टैः पूज्यमानम्” इत्यनेन कर्मधारयसमासः । तत्र धुर्य्यो धूर्वहः सद्धर्मधुर्य्यस्तदामन्त्रणे तथा । "धुरीणधुर्य्यधौरेय धौरेयकधुरन्धराः । धूर्वहे" ४।३२८ ॥ इत्यभिधानचिन्तामणिः । मुनीश ! मन्तारः शास्त्रतत्त्वावगन्तारो मुनयः “मनेरुच्च” इत्युणादिसूत्रेणेन्प्रत्ययोऽकारस्योकारादेशश्च । तेषामीशः स्वामी मुनीशस्तदामन्त्रणे तथा । इह अत्र लोके । दिव्यगिरा - दिवि स्वर्गे भवा दिव्या स्वर्गीया, अलौकिकीत्यर्थः, सा चाऽसौ गीर्वाणी दिव्यगीस्तया, मनोहारिवचसेति यावत् । "दिव्यं लवङ्गे धात्र्यां स्त्री- वल्गौ दिवि भवे त्रिषु " इति मेदिनी । . श्रीमतो भवतः सूरिचक्रवर्तिनः । स्तोत्रम् - स्तवनं स्तोत्रम् "त्रट्" (हैमोणादि ४४६ ) इति त्रट् तत्तथा प्रशंसाम् । "वर्णनेडा स्तवः स्तोत्रं स्तुतिनुतिः । श्लाघा प्रशंसाऽर्थवादः " २ / १८३ इत्यभिधानचिन्तामणिः । विधातुम् - कर्तुम् | अविकलः विगता कलाकौशलं यस्य स विकलोऽपरिपूर्णः, न विकलस्तथा । सकलकलाकुशलः । अपि संभावनायाम् । “अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये," इति मेदिनी । कः - अनिर्दिष्टनामा को नाम कविः । ईशः - ईष्टे इतीशः समर्थः । अपि तु नैव कोऽपि प्रौढोऽपि कवयिता भवदीयगुणगणप्रशंसनेऽस्ति प्रभुरिति भावः । अमुमेवाऽर्थमुपपादयति को गन्तुमत्रेत्यादि - अत्र - लोकेऽस्मिन् । पदाभ्याम् - चरणाभ्याम् । “पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः । पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः" इति मेदिनी । अरम् सत्वरम् । "अथ शीघ्रं त्वरितं लघुक्षिप्रमरं द्रुतम् । सत्वरं चपलं तूर्णम्" इत्यमरः । गहनान्तम् - काननान्तम् । गन्तुम् - प्राप्तुम् । कः को नाम । अलम् - समर्थः वा अथवा | भुजाभ्याम् - बाहुभ्याम् । अम्बुनिधिम् - अम्बूनि जलानि निधीयन्ते ऽस्मिन्नित्यम्बुनिधिः "व्याप्यादाधारे" ५/३/८८|| इत्यनेन कि: प्रत्यय: । तं तथा, जलधिम् - समुद्रमिति यावत् । तरीतुम् - पारयितुम् । कः को नाम । अलम् - • समर्थ: । "अलं भूषण - पर्य्याप्ति-वारणेषु निरर्थके । शक्तौ " इति मेदिनी । अत्र चरणद्वयकरणकगहनान्तगमनं बाहुद्वयकरणकसमुद्रतरणं वा यथाऽसम्भवितं तथा कविकर्तृक- स्वशक्ति- व्युत्पत्त्यादिकरणकसूरिचक्र चक्रवर्तिगुणस्तवनमसम्भवमिति, “अरण्यरुदितं कृतं शव - शरीरमुद्वर्तितं, स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितं; श्वपुच्छमवनामितं बधिरकर्णजापः कृतो, धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः”, “दोर्भ्यामब्धि तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम्" इत्यादाविव निदर्शनालङ्कारः । “वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना" इति चन्द्रालोकीयलक्षण - वाक्यस्य बिम्बप्रतिबिम्बभावापन्न-वस्तुस्वरूपविशिष्टप्रस्तुताप्रस्तुतधर्मयोरैक्यारोपो निदर्शनेत्यत्रैव कुवलयानन्दे तात्पर्य्यवर्णनादिति शम् ॥४॥
-
-
-
शक्तिं विचारपदवीमविधाय भक्त्या
बाढं तव स्तवनमाचरितुं विरक्त्या । उत्साहितोऽस्मि समवेक्ष्य न वै महार्थं
२७
-
नाऽभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५ ॥
-
Page #35
--------------------------------------------------------------------------
________________
अन्वयः भक्त्या, शक्तिम्, विचारपदवीम्, अविधाय, विरक्त्या, तव, स्तवनम्, बाढम्, आचरितुम्, उत्साहितः, अस्मि, ना, वै, समवेक्ष्य, निजशिशोः, परिपालनार्थम्, महार्थम्, न, अभ्येति, किम् ? __ वृत्तिः भक्त्या - भजनं सेवनमिति भक्तिः सेवा, तया तथा । "भक्तिविभागे सेवायां स्त्रियाम्" इति मेदिनी । शक्तिम् - सामर्थ्यविशेषम्, बलमिति यावत् । “शक्तिरस्त्रान्तरे गौ-मुत्साहादौ बले स्त्रियाम्" इति मेदिनी । विचारपदवीम् - विचारणासरणिम् । अविधाय - अकृत्वा । मयेदं कार्यं कर्तुं शक्यते न वा? एतत्कार्यप्रयोजकशक्तिमानहमस्मि नवेत्यादि विचारधारायामवगाहनमकृत्वैवेति भावः । विरक्त्या - रञ्जनं रक्ती राग इति यावत्, विशिष्टा चाऽसौ रक्तिः विरक्तिर्विशिष्टानुरागस्तया तथा । सव - महामहिमशालिन: श्रीनेमिसुगुरोः । स्तवनम् - स्तुतिम्, स्तोत्रमिति यावत् । बाढम् - भृशम् । अत्यर्थमिति यावत् । “अतिवेल भृशात्यतिमात्रोद्गाढनिर्भरम् । तीनैकान्तनितान्तानि गाढबाढदृढानि चे"त्यमरः । आचरितुम् - कृतिविषयतामापादयितुम्, कर्तुमिति यावत् । उत्साहितः - दत्तोत्साहः, उत्साहं प्रापय्य संप्रेरित इति यावत् । अस्मि - भवामि । ननु प्रेक्षावतामिष्टसाधनत्व-कृतिसाध्यत्व-बलवदनिष्टाननुबन्धित्वज्ञानानामेव प्रयोजकत्वेन दृष्टचरत्वात्कथं शक्तिविषयताबहिर्भूतेऽपि प्रवर्तते भवानित्याशक्य अर्थान्तरन्यासच्छलेन समवेक्ष्येत्यादि समादधदाह - समवेक्ष्येत्यादि - ना - नरः विचक्षणोऽपीति शेषः । "मर्त्यः पञ्चजनो भूस्पृक् पुरुषः । पूरुषो नरः । मनुष्यो मानुषो ना विट मनुजो मानवः पुमान्" ३/१।। इत्यभिधानचिन्तामणिः । वै - निश्चयेन । समवेक्ष्य - सम्यक् प-लोच्य । निजशिशोः - निजः स्वीयश्चाऽसौ शिशुर्बालः कुमारक इति यावत्, निजशिशुस्तस्य तथा, तात्पर्य्यतः स्वतनयस्येति बोध्यम् । परिपालनार्थम् - परि सर्वतोभावेन पालनं रक्षणमर्थः प्रयोजनं यस्मिन् कर्मणि तत्तथा स्यात्तथा, क्रियाविशेषणानां कर्मत्वमेकत्वं चेत्यनुशासनात् । "अर्थो विषयार्थनयोर्धनकारणवस्तुषु । अभिधेये च शब्दानां निवृत्तौ च प्रयोजने" इति मेदिनी । महार्थम् - महांश्चासावर्थश्चेति महार्थस्तं तथा । न - नहि । अभ्येति - स्वीकरोति । किम् - वितर्केऽव्ययम् । “किं कुत्सायां विकल्पे च निषेधप्रश्नयोरपि" इति मेदिनी । अत्र लोककर्तृकनिजशिशुपालनार्थं महार्थाभ्युपगमा त्मकेन सामान्येनाऽर्थेन विशेषस्य भवत्स्तवनोद्योगस्य समर्थनात् "उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः" इति चन्द्रालोकीयलक्षण-लक्षितोऽर्थान्तरन्यासोऽलङ्कारः ।।५।।
रूपं विशुद्धतरमत्र गुरो ! त्वदीयं
संकर्षते नवनवे हृदयं मदीयम् । यद्रौति पञ्चमरवं भुवि काककेतु
स्तच्चारुचूतकलिकानिकरैकहेतु ॥६॥ अन्वयः गुरो !, विशुद्धतरम्, तव, रूपम्, अत्र, नवनवे, मदीयम्, हृदयम्, संकर्षते, काककेतुः, यत्, भुवि, पञ्चमरवम्, रौति, तत्, चारुचूतकलिकानिकरैकहेतु ॥६॥
वृत्तिः गुरो ! – सद्धर्मोपदेशनविचक्षण ! परमैश्वर्यविलसितसूरिचक्रचक्रवर्तिन् भगवन् !, "गुरुधर्मोपदेशकः" इति हैमस्मरणात् । विशुद्धतरम् - अतिशयेन विशुद्ध तथा "द्वयोविभज्य" इत्यादिना
Page #36
--------------------------------------------------------------------------
________________
तरप् प्रत्ययः । तव - महामहिमशालिनः श्रीमतो भवतः । रूपम् - स्वभावः, सौन्दर्य्यम्, शब्दः, आकारो वा। "रूपं स्वभावे सौन्दर्ये नामगे पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकार-श्लोकयोरपि" इति मेदिनी । अत्र - अस्मिन् बुद्धिविषये । नवनवे - नवो नूतनश्चाऽसौ नवः स्तवो नवनवस्तस्मिंस्तथा, वीप्सायां द्वित्वविधानाद् भूयो भूयः स्तुतौ वा । मदीयम् - मम - मल्लक्षणजनस्येदं तथा, मत्सम्बन्धीत्यर्थः । हृदयम् - ह्रियते इति हृदयं "गय हृदय" (उणा० ३७०) इत्यनेन निपात्यते, अन्तःकरणम्, “अन्तःकरणं मानसं मनः । हच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले" ६/५॥ इत्यभिधान-चिन्तामणिः । संकर्षते - अवबध्नाति आवर्जयतीति यावत् । दृष्टान्तेन समर्थयति यद्रौतीत्यादि - काककेतुः - कोकिलस्तस्य काकशत्रुत्वात् । भुवि - लोके । यत् । पञ्चमरवम्, पञ्चमः - पञ्चत्वसंख्या पूरको, रवः शब्दः कूजनं यत्र कर्मणि तद्यथा स्यात्तथा । रौति - आलपति । तव - पञ्चमस्वरसाहित्येन कोकिलकर्तृककूजनम् । चारुचूतकलिकानिकरैकहेतु - चारुर्मनोहरा या चूतानामामृतरूणां कलिका चारुचूतकलिका सैवैक: प्रधानोऽद्वितीयो हेतुः कारणं यस्मिंस्तथा । "आम्रचूतो रसालोऽसौ सहकारः", "हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्" इत्यमरः । "एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा" इति कोशः । "कलिकाकोरकः पुमान्" इत्यमरः । “चारु हारि रुचिरं मनोहरम्" ६/८१ ॥ इत्यभिधानचिन्तामणिः । सुवर्णस्य विशुद्धः श्यामिकाया वा संलक्षणमग्नावेवेति - तत्र तस्यैव सामर्थ्यन्तद्वत् मदीयहृदयाकर्षणे भवतां रूपस्यैव माहात्म्यमित्यवसेयम् । दृष्टान्तालङ्कारः । "चेद् बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कतिः" इति चन्द्रालोके तल्लक्षणस्मरणात् । उपमानोपमेयवाक्यार्थघटकधर्मयोः बिम्बप्रतिबिम्बभावो दृष्टान्त इत्यवसेयम् । बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मादिकं वाक्यार्थयोरार्थमौपम्यं दृष्टान्त इति निष्कर्षः । विवरणकारास्तु "प्रतिवाक्यं विभिन्नस्याऽपि साधारणधर्मस्य तुल्यरूपतया वाक्यार्थयोरुपमासम्पादकत्वे दृष्टान्तालङ्कार इति फलितम्" इत्याहुः । एकस्याऽर्थस्य शब्दद्वयेनाऽभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोद्विरुपादानं बिम्बप्रतिबिम्बभाव इति प्रतापरुद्रयशोभूषणे स्पष्टम् ॥६॥
ज्ञानावृति त्वदभिधानहतं हताशं - कर्मारमस्तसमयं वृणुते विनाशम् । लोके दुरन्तमखिलं निहतप्रचारम्
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ अन्वयः अस्तसमयम्, त्वदभिधानहतम्, हताशम्, ज्ञानावृति, कर्म, लोके, दुरन्तम्, निहतप्रचारम्, सूर्यांशुभिन्नम्, अरं, वृणुते ॥७॥
वृत्तिः अस्तसमयम् - अस्तः क्षिप्रः समयः सिद्धान्तो यस्मात्तत्तथा । "समयः शपथाचारसिद्धान्तेषु तथा धियि । क्रियाकारे च निर्देशे सङ्केते कालभाषयोः" इति मेदिनी । त्वदभिधानहतम् - भवन्नामप्रतापविनाशितम् । हताशम् - हता विनष्टा आशा तृष्णा यस्य तत्तथा । "आशादिगतितृष्णयोः" इति
२९
Page #37
--------------------------------------------------------------------------
________________
मेदिनी । ज्ञानावृति - ज्ञानस्य श्रुत-दर्शनाद्यात्मकस्य आवृतिरावरणं प्रतिरोधो यस्मात्तत्तथा । कर्म - ज्ञानावरणीयाद्यात्मकमष्टविधत्वेनाऽतिप्रसिद्धम् । लोके - जगति । "स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्" ६/१।। इत्यभिधानचिन्तामणिः । दुरन्तम् - दुष्टोऽन्तोऽवसानं यस्य तत्तथा, निहतप्रचारम् - निहतः समग्रं विनाशितः प्रचारः प्रसारो व्यापकतेति यावद्यस्य तत्तादृशम् । सूर्यांशुभिन्नम् - सूर्य्यस्य दिवाकरस्यांऽशवः किरणानि सूर्यांशवस्तैभिन्नं विदारितं तथा । "किरणोत्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीचि स्त्री" इत्यमरः । अखिलम् - निवृत्तं खिलात् शून्यादित्यखिलं समस्तम् । “सर्व समस्तमन्यूनं समग्रं सकलं समम् । विश्वाशेषाखण्ड-कृत्स्नन्यक्षाणि निखिलाखिले" ६/६९ ॥ इत्यभिधानचिन्तामणिः । शार्वरम् - शृणाति चेष्टाः शर्वरी यामिनी तस्या इदन्तथा । “निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा । त्रियामा यामिनी भौती तमी तमा विभावरी" २/५५ ॥ इत्यभिधानचिन्तामणिः । अन्धकारम् - ध्वान्तम् । "ध्वान्तं भूच्छायान्धकारं तमसं समवान्धत:" २/६० ॥ इत्यभिधानचिन्तामणिः । इव - यथा । अरम् - शीघ्रम्, । "लघुक्षिप्रमरं द्रुतम्" इत्यमरः । विनाशम् - विध्वंसम् । वृणुते - स्वीकरोति । बिम्बप्रतिबिम्बभावापन्न-साधारणधर्मप्रयोज्योपमालङ्कारः ॥७॥
इत्थं विचार्य्य विहितं गुणगौरवं ते ।
स्तोत्रं सतां हृदयमाविशतीष्टमन्ते । भावस्तवैव हि सरोजदले सदिन्दु
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ अन्वयः इत्थम्, विचार्य, विहितम्, गुणगौरवम्, अन्ते, इष्टम्, ते, स्तोत्रम्, सताम्, हृदयम्, आविशति, इति, भावः, त्वयि, हि, उदबिन्दुः, सरोजदले, सदिन्दुमुक्ताफलद्युतिम्, उपैति, ननु ||८||
वृत्तिः इत्थम् - अनेन पूर्वोक्तप्रकारेण । विचार्य - अनुसन्धाय, परिशील्येति यावत् । विहितम् - रचितम् । गुणगौरवम् - गुणैर्माधुर्य्यादिभिस्त्रिभिः व्यङ्ग्यव्यञ्जकभावेन शब्दार्थरसरचनावृत्तिभिः । यद्यपि वामनादिभिराचार्यैः - "श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थ-व्यक्तिरुदारत्वमोजःकान्तिसमाधयः" इतीमान् तुल्याभिधानान् दश शब्दगुणान् दश चाऽर्थगुणानभिमन्यन्ते । तेषां स्वरूपाणि तु
शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासो गाढत्वापरपर्यायः श्लेषः १, गाढत्वशैथिलाभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः २, उपक्रमादासमाप्ते रीत्यभेदः समता ३, संयोगपरहूस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्य्यम् ४, अपरुषवर्ण-घटितत्वं सुकुमारता ५, झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः ६
३०
Page #38
--------------------------------------------------------------------------
________________
कठिनवर्णघटनारूपविकटत्वलक्षणोदारता ७ संयोगपरहस्वप्राचुर्य्यरूपगाढत्वमोजः ८ अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्तिः ९ बन्धगाढत्वशिथिलत्वयोः क्रमेणाऽवस्थानं समाधिः १० इतीमे दश शब्दगुणाः । एवं क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च सामानाधिकरण्यरूप: संसर्गः श्लेषः १ यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः २ प्रक्रमाभङ्गेनाऽर्थघटनात्मकवैषम्यं समता ३ एकस्या एवोक्तेर्भङ्ग्यन्तरेण पुनः कथनात्मकमुक्तिवैचित्र्यं माधुर्य्यम् ४
अकाण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता ५ • वस्तुनो वर्णनीयस्याऽसाधारणक्रियारूपयोर्वर्णनमर्थव्यक्तिः ६
चुम्बनं देहि मे भार्थे ! कामचाण्डालतृप्तये" इत्यादिग्राम्यार्थ-परिहार उदारता ७
एकस्य पदार्थस्य बहुभिः पदैरभिधानम्, बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर्वाक्यैबहुवाक्यार्थस्यैकवाक्येनाऽभिधानम्, विशेषणानां साभिप्रायत्वञ्चेति पञ्चविधमोजः ८
दीप्तरसत्वं कान्तिः ९ अवर्णितपूर्वोऽयमर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं समाधिः १० इतीमे दशार्थगुणाः सन्तीति कथं गुणानां त्रित्वमिति शक्यते शङ्कितुम् । तथापि - "श्लेष: समाधिरौदार्य प्रसाद इति ये पुनः । गुणाश्चिरन्तनैरुक्ता ओजस्यन्तर्भवन्ति ते ॥१॥ माधुर्यव्यञ्जकत्वं य-दसमासस्य दर्शितम् । पृथक्पदत्वं माधुर्म्य, तेनैवाऽङ्गीकृतं पुनः ॥२॥ अर्थव्यक्तेः प्रसादाख्य-गुणेनैव परिग्रहः । अर्थव्यक्तिः पदानां हि, झटित्यर्थसमर्पणम् ॥३॥ ग्राम्यदुःश्रवतात्यागात् कान्तिश्च सुकुमारता । क्वचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी । अन्यथोक्तगुणेष्वस्य अन्तःपातो यथायथम् ॥४॥
Page #39
--------------------------------------------------------------------------
________________
इति दशानां शब्दगुणानाम्
'ओजः प्रसादो माधुर्य्यं, सौकुमार्य्यमुदारता । तदभावस्य दोषत्वात्, स्वीकृता अर्थगा गुणाः ॥ अर्थव्यक्तिः स्वभावोक्त्य - लङ्कारेण तथा पुनः । स च ध्वनिगुणीभूत- व्यङ्ग्याभ्यां कान्तिनामकः ॥
श्लेषो विचित्रतामात्रमदोषः, समतापरम् ।
न गुणत्वं समाधेश्च तेन नाऽर्थगुणाः पृथक् ॥
इति दशानामर्थगुणानां चाऽन्ततस्त्रिष्वेवाऽन्तर्भावसम्भवादित्याकलनीयम् ।
अन्ते - अवसाने, अन्तिके वा । "अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु" इति मेदिनी । इष्टम् - अभिमतम्, अभिलषितमिति यावत् । ते - श्रीमतो भगवतो भवतः । स्तोत्रम् - स्तवः । सताम् -सज्जनानाम् । हृदयम् - अन्तःकरणम् । आविशति प्रविशति । सज्जना भवन्तं मनसा स्तुवन्तीति भावः । एषः भावः अनुभावः, प्रभाव इति यावत् । तव श्रीमतो भवत एव । एव - अवधारणार्थ कमव्ययम् । अर्थान्तरन्यासेन पुनरर्थमिमं द्रढयति - हि सरोजदले " इत्यादिना । हि - निश्चयेन । सरोजदले कमलपत्रे । सर्वं वाक्यं सावधारणं भवतीति नियमात्कमलपत्र एवेत्यर्थः । उदबिन्दुः- जलपृषतः, शीकर इति यावत् । सदिन्दुमुक्ताफलद्युतिम् - सच्चन्द्रमौक्तिककान्तिम् । उपैति - प्राप्नोति । ननु - वाक्यालङ्कारे || अर्थान्तरन्यासालङ्कारः । तत्त्वमुक्तं प्राक् ॥८॥
-
स्तोत्रेण किं त्वदभिधानत एव नव्यं
नानाविधं भवति शं भुवि भव्यभव्यम् । भानुं विनाऽपि किरणैर्मधुरं विराञ्जि
पद्माकरेषु जलजानि विकाशभाञ्जि ॥९॥
अन्वयः स्तोत्रेण, किम्, त्वदभिधानतः, एव, भुवि, भव्यभव्यम्, नव्यम्, नानाविधम्, शम्, भवति, भानुम्, विनाऽपि, किरणैः, विराज्ञ्जि, जलजानि, पद्माकरेषु, मधुरम्, विकाशभाञ्जि, भवन्ति ॥९॥
-
1
वृत्ति: स्तोत्रेण - स्तवनेन । तत्रभवच्छ्रीमत्सम्बन्धिनेत्यर्थतः । किम् ? - किमपि प्रयोजनं नास्तीति भावः । त्वदभिधानतः तव श्रीमतो भवतः सूरीश्वरस्याऽभिधानं नामधेयन्त्वदभिधानन्तस्मात्तथा । “प्रत्ययोत्तरपदयोश्च” इति पाणिनीयसूत्रेण युष्मच्छब्दस्य त्वादेशस्ततः पञ्चम्यन्तात्तसिल्प्रत्ययः । एव अवधारणार्थमव्ययम्, तेन चेतरव्यवच्छेदः, नाऽन्यस्मादिति फलितं भवति । भुवि - लोके । भव्यभव्यम् - भविकभविकम्, अत्यन्तक्षेमकरमिति यावत् । नव्यम् - नवीनम्, अपूर्वमिति यावत् । नानाविधम् - अनेकप्रकारकम् । शम् - कल्याणम् । भवति - जायते । वैधर्म्येण दृष्टान्तेन समर्थयति - भानुं विनाऽपी त्यादिना - भानुम् - भाति प्रकाशते जगदस्मादिति भानुः सूर्यस्तन्तथा । विनाऽपि अन्तरेण खलु ।
३२
Page #40
--------------------------------------------------------------------------
________________
किरणैः - मरीचिभिः । "किरणोत्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीच्यस्त्री" इत्यमरः । विराञ्जि - भ्राजमानानि । जलजानि - कमलानि । पद्माकरेषु - तडागेषु । "पद्माकरस्तडागोऽस्त्री" इत्यमरः । मधुरम् - मनोहरं यथा स्यात्तथा । "चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे । काम्यं कनं कमनीयं सौम्यञ्च मधुरं प्रियम्" ६/८१ ॥ इत्याभिधानचिन्तामणिः । विकाशभाञ्जि - विकाशं भजन्ते इति तथा, सविकाशानीति यावत् । भवन्तीति शेषः । दृष्टान्तालङ्कारः । तदुक्तं कुवलयानन्दे - "वैधयेणाऽप्ययं दृश्यते" "उदाहृतञ्च कृतञ्च गर्वाभिमुखं मनस्त्वया, किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमा-न यावदायात्युदयाद्रिमौलिताम्" इति । तत्र मनोगर्वाभिमुखीकरणवैरिहन नयोरंशुमदुदयाचलमस्तकान्तगमनतमःस्थित्योश्च यथाक्रमं वैधये॒ण बिम्बप्रतिबिम्बभाव-दर्शनादिति ।।९।।
हे योगिनाथ ! भवता भवतः समानाः
सम्पादिता जगति सूरिवराः प्रधानाः । युक्तं प्रदीप इह दीपकमातनोति . भूत्याऽऽश्रितं य इह नाऽऽत्मसमं करोति ॥१०॥ अन्वयः हे योगिनाथ ! भवता, भवतः, समानाः, प्रधानाः, सूरिवराः, जगति, सम्पादिताः, इह, यः, ना, आश्रितम्, भूत्या, आत्मसमम्, करोति, युक्तम्, इह, प्रदीपः, दीपकम्, आतनोति ॥१०॥
वृत्तिः हे योगिनाथ ! - योगोऽपूर्वार्थसम्प्राप्तिश्चित्तवृत्तिनिरोधो वाऽस्त्येषामिति योगिनो मुनयस्तेषां नाथः स्वामी योगिनाथस्तदामन्त्रणे तथा । "योगोऽपूर्वार्थसम्प्राप्तौ सङ्गतिध्यानयुक्तिषु । वपुःस्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे ।" इति मेदिनी । “यतीन्द्रस्वामिनाथार्याः प्रभुतेश्वरो विभुः" ३/२३ ॥ इत्यभिधानचिन्तामणिः । हे-शब्दस्य संबोधनार्थत्वं "संबोधनेऽङ्ग भो प्याटपाट हे है हं हो अरेऽपि रे" ६/१७३ ॥ इत्यभिधानचिन्तामणितोऽवसेयम् । भवता - तत्रभवता श्रीमता सूरिसम्राजा । भवतः - पूज्यस्य तव । समाः - सदृशाः । जगति - लोके । प्रधानाः - मुख्याः । सूरिवराः - सूरीश्वराः, श्रीमद्दर्शनोदयनन्दनविज्ञानपद्मामृतलावण्यकस्तूराभिधान-प्रसिद्धानष्टावाचा--निति यावत् । सम्पादिताः - कृताः; लोककल्याणकारियता विहिता इति यावत् । इह - अस्मिन् लोके । यः बुद्धिविषयः । ना - मनुष्यः पुरुष इति यावत् । श्रितम् - आश्रितम्, अन्तेवासिनमिति यावत् । भूत्या - ऐश्वर्येण शास्त्रीयाध्यात्मिकादिज्ञानविज्ञानसम्पत्तिसमृद्ध्येति यावत् । अणिममहिमादिभिरिति यावत् ।
"अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वञ्चाऽष्टसिद्धयः ॥ इति ॥
आत्मसमम् - विनयसारल्यपरोपकारित्वदयादाक्षिण्यशमदमज्ञानौदार्यविशुद्धसंयमादिभिः स्वतुल्यम् । करोति - सम्पादयति । इह - अत्र लोके । प्रदीपः - प्रकृष्टो दीपः । दीपकम् - प्रदीपम् । आतनोति - करोति । युक्तम् - उचितमेवेति बोद्धव्यम् । निदर्शनालङ्कारः ॥१०॥
३३
Page #41
--------------------------------------------------------------------------
________________
श्रुत्वा मुनीन्द्र ! तव मेघगभीरवाणी मिथ्यात्वदर्दुरगिरं शृणुयान्न प्राणी । त्यक्त्वा सुधामधरगां लवणं च गच्छेत् क्षारं जलं जलनिधेरशितुं क इच्छेत् ॥११॥
अन्वयः मुनीन्द्र ! तव, मेघगभीरवाणीम्, श्रुत्वा, प्राणी, मिथ्यात्वदर्दुरगिरम्, न, शृणुयात्, कः अधरगाम्, सुधाम्, त्यक्त्वा, लवणम्, गच्छेत्, च, जलनिधेः, क्षारम्, जलम् अशितुम् इच्छेत् ? ॥११॥
वृत्ति: मुनीन्द्र ! - मन्तारः शास्त्रनिचयतत्त्वावगन्तारो मुनयः साधवः श्रमणा इति यावत्, तेषामिन्द्रः श्रेष्ठः प्रभुरिति यावद्, मुनीन्द्रस्तदामन्त्रणे तथा । " अथ· मुमुक्षुः श्रमणो यति: । वाचंयमो यतिः साधुरनगारी ऋषिर्मुनिः " १ / ७६ ॥ इत्यभिधानचिन्तामणिः । तव - श्रीमतो भवतः सूरिसम्राजः । मेघगभीर वाणीम् - मेघवद् वारिवाहवद् गभीरा गम्भीरा मेघगभीरा "उपमानानि सामान्यवचनैः" इति सूत्रेण समासः, सा चासौ वाणी भारती, भाषेति यावद् मेघगभीरवाणी तां तथा "ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती" इत्यमरः । श्रुत्वा आकर्ण्य । प्राणी - चेतन: । " प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः” इत्यमरः । मिथ्यात्वदर्दुरगिरम् - मिथ्यात्वं दर्शनमोह एव दर्दुरो मण्डूकस्तस्य गीर्वाणी मिथ्यात्वदर्दुरगिरस्तां तथा । " मण्डूके हरिशालूरप्लव भेकप्लवङ्गमाः । वर्षाभूः प्लवगः शालुरजिह्वव्यङ्गदर्दुरा: " ४/४२० ।। इत्यभिधानचिन्तामणिः । न नहि । शृणुयात् - आकर्णयेत् । विध्यर्थप्रयोगान्मेघगभीरमधुरां भवतो वाणीं विहाय मिथ्यात्वदर्दुरकृतकोलाहलो न सम्यग्दर्शनलिप्सुना प्राणिना श्रोतव्योऽपीति भावः । कः को नाम जनः । अधरगाम् अधरोष्ठगताम्, ओष्ठसंलग्नामिति यावत् । सुधाम् अमृतम् । पीयूषममृतं सुधेत्यमरः । त्यक्त्वा - विहाय । लवणम् - लवणसमुद्रम् । गच्छेत् - व्रजेत् । अपि तु नैव गच्छेदिति भाव: । च - पुनः । जलनिधेः - समुद्रस्य । क्षारम् - लवणार्द्रम् । जलम् सलिलम् । अशितुम् - भक्षितुम् । इच्छेत् - अभिलषेत् । अपि तु न कोऽपीति भावः । अमृतं विहाय लवणजलपानमिव भवदीय वचनं विहायाऽन्यदीयवचन श्रवणमिति निदर्शनालङ्कारः, "वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना" इति चन्द्रालोके तल्लक्षणस्मरणात् ।
-
=
दूरं गता विकृतिपोषकरा विहाय
त्वां शीलरूपमणवोऽरितरं प्रमाय । ब्रह्मात्मनस्तव शरीरमरूपमस्ति
यत्ते समानमपरं न हि रूपमस्ति ॥ १२ ॥
अन्वयः विकृतिपोषकराः, अणवः, शीलरूपम् त्वाम्, अरितरम्, प्रमाय, विहाय, दूरम्, ब्रह्मात्मन:, तव, शरीरम्, अरूपम्, अस्ति, यत्, ते, समानम्, अपरम् रूपम्, नहि, अस्ति ॥ १२॥
३४
-
Page #42
--------------------------------------------------------------------------
________________
वृत्तिः विकृतिपोषकराः - विकृतेर्मानसिकादिविकारस्य पोषः पोषणं परिपुष्टिरिति यावद्विकृतिपोषस्तस्य कुर्वन्तीति कराः सम्पादकास्तथा । इदमत्र तत्त्वम् - यदि विकृतिपोषं कुर्वन्तीत्येवं विग्रहवाक्यमाश्रीयेत तदा “कर्मण्यम्" इति सूत्रेणाऽण्प्रत्यये विकृतिपोषकारा इत्येवं रूपमापद्येत परन्तु यदि तादृशव्युत्पतौ भवेदभिनिवेशस्तदा आदित्यं पश्यतीत्यादाविनानभिधानादनिष्टरूपप्रसङ्गे वारणीय इति सम्यग् जानन्ति सिद्धान्ततत्त्वरसिकाः । अणवः - पुद्गलपरमाणवः । शीलरूपम् - शीलेन चारित्रेण रूपं सौन्दर्यं यस्य स शीलरूपः, शीलं रूपतों यत्र स वा शीलरूपस्तं तथा । "चारित्रं चरिताचारौ चारित्रचरणे अपि । वृत्तं शीलञ्च" ३/५०७|| इत्यभिधानचिन्तामणिः । “रूपं स्वभावे सौन्दर्ये" इति मेदिनी । त्वाम् - श्रीमन्तं तत्रभवन्तं नेमिगुरुवरम् । अरितरम् -निजप्रधानशत्रुम् । प्रमाय - यथार्थतो विज्ञाय । (अत एव) विहाय - त्यक्त्वा । दूरम् - अतिविप्रकृष्टम् । गताः - अगमन् । विकृतिपोषकाः परमाणवस्त्वां न प्राप्ता अथवा विकृतिपोषकैस्तैस्त्वं न स्पृष्ट इति भावः । ब्रह्मात्मनः - ब्रह्मस्वरूपस्य । तव - श्रीमतो भवतः । शरीरम् - कलेवरम् । अरूपम् - अनुपमितम् । अस्ति - वर्तते । यत् - यस्माद्धेतो । ते - भवतः । समानम् - सदृशम् । अपरम् - अन्यत् । रूपम् - स्वरूपम्, सौन्दर्यमिति यावत् । नहि - न। अस्ति - वर्तते । अनुपमितं भवतां शरीरं रूपञ्चेति भावः ॥१२॥
आस्यं त्वदीयमनिशं न जहाति लास्यं
__स्वाभाविकं स्फुरति तत्र सदैव हास्यम् । . पापात्मनां तव पुरो वदनं सजल्पं
यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ अन्वयः त्वदीयम्, आस्यम्, अनिशम्, लास्यम्, न, जहाति, तत्र, सदा, एव, स्वाभाविकम्, हास्यम्, स्फुरति, यत्, तव, पुरः, पापात्मनाम् सजल्पम्, वदनम्, वासरे, पाण्डुपलाशकल्पम्, भवति ॥१३॥
वृत्तिः त्वदीयम् - तव श्रीमतो भवत इदन्तथा, भवत्सम्बन्धीति यावत् । आस्यम् - अस्यति क्षिपति वर्णमनेनेत्यास्यं वदनम् । “तुण्डमास्यं मुखं वक्त्रं लपनं वदनानने" ३।२३६॥ इत्यभिधानचिन्तामणिः । अनिशम् - सततम् । “सततानारताश्रान्तसन्तताविरतानिशम्" इत्यमरः । लास्यम् - नृत्यम् । “ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तनम्" इत्यमरः । न - नहि । जहाति - त्यजति । तत्र - भवदीयवदने । सदा - सर्वदा । एव - अवधारणार्थम्, तेन सदैव न तु कदाचिदिति फलितम् । स्वाभाविकम् - स्वभावतो निसर्गात् जातं तथा । "स्याद्रूपं लक्षणं भावश्चाऽऽत्मप्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत्" ६।१२॥ इत्यभिधानचिन्तामणिः । हास्यम् - हासः । “वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः" इति रसगङ्गाधरे जगन्नाथः । अत्राऽऽहुः -
आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् । आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ॥१||
३५
Page #43
--------------------------------------------------------------------------
________________
हसन्तमपरं दृष्ट्वा विभावश्चोपजायते । योऽसौ हास्यरसस्तज्जैः परस्थः परिकीर्तितः ॥२॥ उत्तमानां मध्यमानां नीचानामप्यसौ भवेत् । व्यवस्थ: कथितस्तस्य षड्भेदाः सन्ति चाऽपरे ॥३॥ स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः । भवेद्विहसितं चोपहसितं मध्यमे नरे ॥४॥ नीचेऽपहसितं चाऽतिहसितं परकीर्तितम् । ईषत्फुल्लकपोलाभ्यां कटाक्षैरप्यनुल्बणैः ।।५।। अदृश्यदशनो हासो मधुरः स्मितमुच्यते । वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः ॥६॥ किञ्चिल्लक्षितदन्तश्च तदा हसितमिष्यते । सशब्दं मधुरं कायगतं वदनरागवत् ।।७।। आकुञ्चिताक्षिमन्द्रं च विदुर्विहसितं बुधाः । निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः ॥८॥ उत्फुल्लनासिको हासो नाम्नोपहसितं मतम् । अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः ॥९॥ शार्ङ्गदेवेन गदितो हासोऽपहसिताह्वयः । स्थूलकर्णकटुध्वानो बाष्पपूरप्लुतेक्षणः ॥ करोपगूढपार्श्वश्च हासोऽतिहसितं मतम् ॥ इति ॥१०॥
तत्र - भवदीयवदने । सदा - सर्वदा । एव - अवधारणार्थकमव्ययम् । स्वाभाविकम् - नैसर्गिकम् । हास्यम् - हासः । स्फुरति - विलसति । यत् - यस्मात् । तव - श्रीमतां भवतः । पुरः - अग्रे । पापात्मनाम् - पापिनाम् । सजल्पम् - जल्पसहितम्, जल्पोन्मुखमिति यावत् । वदनम् - आस्यम् । वासरे - दिवसे । पाण्डुपलाशकल्पम् - विपाण्डुरपलाशसदृशम् । भवति - जायते ॥ उपमालङ्कारः ॥१३।।
सत्तर्कलक्षणजिनागमकाव्यदैव
विद्यास्त्वयाऽवगमिता मुनयः सदैव । शिष्याः समस्तविषयेषु चरन्त्यथेष्टं
कस्तान्निवारयति सञ्चरतो यथेष्टम् ॥१४॥
Page #44
--------------------------------------------------------------------------
________________
अन्वयः त्वया, सदैव, सत्तर्कलक्षणजिनागमकाव्यदैवविद्याः, अवगमिताः, अथ, शिष्याः, समस्त विषयेषु, इष्टम्, चरन्ति, यथेष्टम्, सञ्चरतः, तान्, कः, निवारयति ॥१४॥
वृत्ति: त्वया तत्रभवता श्रीमता सूरीश्वरेण भवता । सदैव सर्वदा खलु । मुनयः साधवः, गृहीतभागवतदीक्षा अनगारा इति यावत् । सत्तर्कलक्षणजिनागमकाव्यदैवविद्या: - द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इति नियमात् सत्पदस्य विद्यापदस्य सर्वत्र सम्बन्धात् समीचीनतर्कविद्यालक्षणविद्याऽऽर्हतागमविद्या - काव्यविद्या - ज्योतिर्विद्या इत्यर्थः । अवगमिताः - बोधिताः, अध्यापिता इति यावत् । तत्र तर्कविद्यया तर्कमूलानि चार्वाक -सौगत- सांख्य- न्याय-वैशेषिक- पूर्वोत्तरमीमांसार्हतदर्शनानि गृह्यन्ते, लक्षणविद्यया हस्त्यश्वपुरुष - स्त्रीगुरुशिष्यादिलक्षणानि गृह्यन्ते, जिनागमविद्यया चाऽन्तरङ्ग-बहिर ङ्गतया कल्पसूत्रोत्तराध्ययन-स्थानाङ्गप्रमुखद्वादशाङ्गीविद्या ग्राह्याः, काव्यविद्यया च काव्यानुशासनच्छन्दोनुशासनादीनि द्वयाश्रय-त्रिषष्टिप्रमुखमहाकाव्यादीनि ग्राह्यानि । ननु प्रोक्तासु विद्यासु व्याकरणस्याऽनुक्तेः “मुखं व्याकरणं स्मृतम्” इत्यभियुक्तोक्त्या प्रमुखविद्याया अनवगमनान्यूनतेति नाऽऽशङ्कनीयम्, जिनागम 'विद्यया व्याकरणस्याऽपि ग्रहणसंभवात्, कल्पसूत्रादौ जिनेन्द्रव्याकरणस्येन्द्रसन्निधौ भगवच्चरमतीर्थंकरवर्धमान-महावीरार्थमुपदिष्टत्वाच्च, अत एवाऽष्टविधव्याकरणेषु जैनेन्द्रव्याकरणमद्याऽपि लोके समुपलभ्यमानं दरीदृश्यत एवेति सुधीभिर्विचार्यम् । अथ - अनन्तरम् । शिष्याः- श्रीदर्शनसूरीश्वरप्रमुखा अन्तेवासिनः। समस्तविषयेषु - समस्ताः सर्वे च विषया अर्थाः देशाश्च समस्तविषयास्तेषु तथा । "विषयो गोचरे देशे तथा जनपदेऽपि च" इति मेदिनी । इष्टम् - अभिमतम् । चरन्ति - विचरन्ति । यथेष्टम् - कामम् । सञ्चरतः - सञ्चरणशीलान् । तान् - तदीयशिष्यान् । कः को नाम । निवारयति - प्रतिरोधयति । कोऽपि नेत्यर्थः ॥१४॥
-
आजन्मनोऽपि विषये न धृतं प्रशान्तं
स्वान्तं त्वया स्ववशतो विहितं नितान्तम् । शब्दादिनाऽप्यचलिता दृढता नु काचित्
किं मन्दराद्रिशिखरं चलितं कदाचित् ॥१५॥
अन्वयः त्वया, आजन्मनः, अपि, नितान्तम्, स्ववशत:, विहितम्, प्रशान्तम्, स्वान्तम्, विषये, न, धृतम्, नु, शब्दादिना, अपि, अचलिता, काचित्, दृढता, मन्दराद्रिशिखरम्, कदाचित् चलितम्, किम् ? ॥१५॥
-
वृत्तिः त्वया - महामहिमशालिना लोकविदितानुभावेन सूरिचक्रचक्रवर्तिना श्रीमता भवता । आजन्मनः जन्मन उत्पत्तेरा इति विग्रहे " आङ्मर्य्यादाभिविध्योः" इत्यनेनाऽव्ययीभावसमासविकल्पपक्षे रूपम्, सति च समासे “अव्ययीभावस्याऽव्ययसंज्ञायां सत्याम् अव्ययादाप्सुपः" इत्यनेन सुपो लुकि तथा रूपं न स्यादित्याकलनीयम् । “जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः" इत्यमरः । नितान्तम् - अतिशयम् । 'अथाऽतिशयो भरः | अतिवेलभृशात्यर्थाऽतिमात्रोद्गाढनिर्भरम् । तीव्रैकान्तनितान्तानि” इत्यमरः । स्ववशतः
44
३७
Page #45
--------------------------------------------------------------------------
________________
- निजप्रभुत्वतः । “वशाऽवन्ध्यासुतायोषास्त्रीगवीकरिणीषु च । त्रिष्वायत्ते क्लीबमायत्तत्वे चेच्छाप्रभुत्वयोः" इति मेदिनी । विहितम् - कृतम् । प्रशान्तम् - अत्यन्त-निर्वृतम् । स्वान्तम् - हृदयम् । “चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः" इत्यमरः । विषये - रूपरसगन्धस्पर्शात्मनि । "रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी" इत्यमरः । स्रक्चन्दनवनितादिष्विति यावत् । न - नहि । धृतम् - स्थापितम् । नु - वितर्के। “नु वितर्कापमानयोः" इति मेदिनी । (भवतः) काचित् - अनिर्वचनीया । दृढता - आत्मिकबल शालिता । "दृढः स्थूलबलयोः" इति भगवान् पाणिनिः । शब्दादितः - शब्दप्रमुखविषयात् । अपि - खलु । अचलिता - चलिता नास्तीत्यर्थः । दृष्टान्तेन समर्थयति - किं मन्दराद्रित्यादिना - मन्दराद्रि शिखरम् - मन्दराचलशृङ्गम् । कदाचित् - जातुचित् । चलितम् - प्रचलितं कम्पितमिति यावत् । किम् ? अपि तु नैवेत्यर्थः । दृष्टान्तालङ्कारः । “दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्" इति काव्यप्रकाशे तल्लक्षणस्मरणात् ।
सद्बुद्धिवर्तिरभितो हृदयान्तराल
गाढान्धकारहरणप्रवणोऽकरालः । स्नेहेन शास्त्ररुचिना रुचिरं चकास
द्दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ अन्वयः नाथ !, सद्बुद्धिवर्तिः, अभितः, हृदयान्तराल गाढान्धकारहरणप्रवणः, अकरालः, शास्त्ररुचिना, स्नेहेन, रुचिरम्, चकासत्, जगत्प्रकाशः, अपरः, दीपः, असि ॥१६॥
वृत्तिः नाथ ! -नाथतीष्टे इति नाथ ईशिता तदामन्त्रणे तथा । “यतीन्द्र-स्वामीनाथार्थाः प्रभुर्भतेश्वरो विभुः । ईशितेनो नायकाच" ३।२२।। इत्यभिधानचिन्तामणिः । सद्बुद्धिवर्तिः - सद्बुद्धिः समीचीनप्रज्ञैव वतिर्दशा यस्य स तथा । अभितः - समन्तात् । हृदयान्तरालगाढान्धकारहरणप्रवणः - हृदयस्य मनसोऽन्तरालमभ्यन्तरं हृदयान्तरालन्तत्र गाढोऽतिशयितोऽन्धकारोऽज्ञानतमस्तस्य हरणे विनाशने प्रवणस्त त्परस्तथा । अकरालः - अभयानकः । शास्त्ररुचिना - शास्त्रेषु व्याकरणन्यायार्हतागमेषु रुचिर्ज्ञानाभिलाष: शास्त्ररुचिस्तया तथा । स्नेहेन - तैलेन । शास्त्रज्ञानाभिलाषात्मतैलेनेति व्यस्तरूपकार्थः । रुचिरम् - मनोहरम् । चकासत् - द्योतमानम् । चकासृ दीप्तौ इत्यस्माद्धातोः शतृप्रत्यये "नाऽभ्यस्नाच्छतुः" इति निषेधात् "उगिदचां सर्वनामस्थानेऽधातोः" इत्यनेन नुमागमो न भवतीति वेदनीयम् । जगत्प्रकाशः - जगतां स्वर्ग-मर्त्य-पातालात्मभुवनानां प्रकाशो यस्मात् स तथा । अपरः - अन्यः, प्रसिद्धविलक्षण इति यावत् । दीपः - प्रदीपः । असि - भवसि ।
अत्र रूपकालङ्कारः । रूपकम् - उपमेयतावच्छेदक-पुरस्कारेणोपमेये शब्दान्निश्चीयमानमुपमानतादात्म्यं रूपकम्, तदेवोपस्कारकत्वविशिष्टमलङ्कारः । उपमेयतावच्छेदकपुरस्कारेणेति विशेषणात् अपहनुतिभ्रान्तिमदतिशयोक्तिनिदर्शनायां निरासः, अपहनुतौ स्वेच्छया निषिध्यमानत्वात् भ्रान्तिमति च तज्जनकदोषेणैव
३८
Page #46
--------------------------------------------------------------------------
________________
प्रतिषिध्यमानत्वात्, अतिशयोक्तिनिदर्शनयोश्च साध्यावसानलक्षणामूलकत्वात्, उपमेयतावच्छेदकस्य नास्ति पुरस्कारः । शब्दादिति विशेषणात् "मुखमिदं चन्द्रः" इति प्रात्यक्षिकाहार्यनिश्चयगोचरचन्द्रतादात्म्यव्यवच्छेदः । निश्चीयमानमिति विशेषणात् संभावनात्मनो "नूनं मुखं चन्द्रः" इत्युत्प्रेक्षाया व्यावृत्तिः । उपमानोपमेयविशेषणाभ्यां सादृश्यलाभात् "सुखं मनोरमा रामा" इत्यादिशुद्धारोपविषय तादात्म्याध्यासः, सादृश्यमूलकमेव च रूपकमामनन्ति । इदं च रूपकं सावयवं निरवयवं परम्परितञ्चेति तावत्रिविधम्, तत्राऽऽद्यं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम्, द्वितीयमपि केवलं मालारूपकञ्चेति द्विविधम् । तृतीयञ्च श्लिष्टपरम्परितं शुद्धपरम्परितञ्चेति द्विविधं सत् प्रत्येकं केवलमाला रूपत्वाभ्यां चतुर्विधम् । प्रकृतपद्ये समस्तवस्तुविषयसावयवरूपकमवसेयम्, परस्पर-सापेक्षनिष्पत्तिकाणां रूपकाणां संघातः सावयवम्, तत्राऽपि - समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत् समस्तवस्तुविषयमवगनव्यमिति शम् ॥१६॥
सूर्य्यः खरैः करभरैर्भुवनं निहन्ति
न त्वां तथा बुधजना उपमां नयन्ति । प्रीतिं दधासि सततं ननु भव्यकोके
सूर्योतिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ अन्वयः सूर्यः, खरैः, करभरैः, भुवनम्, निहन्ति, बुधजनाः, त्वाम्, तथा, उपमाम्, न, नयन्ति, ननु, सततम्, भव्यकोके, प्रीतिम्, दधासि, मुनीन्द्र ! लोके, सूर्योतिशायिमहिमा, असि ॥१७॥ __वृत्तिः सूर्य्यः - सरति सुवति वा कर्मसु लोकानिति सूर्यः "कुप्यभिद्य०" ५।१।३९॥ इत्यादिना कृन्निपातः, सूर एव वा सूर्यो मूर्तादित्वाद्यः । दिवाकर इत्यर्थः । खरैः - तीक्ष्णैः । “तिग्मं तीक्ष्णं खरं तद्ववत्" इत्यमरकोशः । करभरैः - किरणातिशयैः । “बलिहस्तांशवः कराः" इत्यमरनानार्थः । “अप्य थाऽतिशयो भरः" इत्यमरः । भुवनम् - जगत् । “स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्" ६।१।। इत्यभिधानचिन्तामणिः । निहन्ति - प्रणिहन्ति । बुधजनाः - मनीषिलोकाः । त्वाम् - श्रीमन्तं मृदुल स्वभावं तत्रभवन्तं भवन्तं सूरीश्वरम् । तथा - तेन प्रकारेण । उपमाम् - सादृश्यम् । सूर्यस्येत्यर्थतः । न - नहि । नयन्ति - प्रापयन्ति । खरतरकरकरणकभुवनतापकत्वेन सूर्य्यसादृश्यं न तत्रभवति भवति बुधाः स्वीकुर्वन्ति, मृदुस्वभावत्वाद्भवत इति भावः । ननु - निश्चयेन । सततम् - सन्ततम् । भव्यकोके - भव्यो भविक एव कोकश्चक्रवाको भव्यकोकस्तस्मिंस्तथा । प्रीतिम् - हर्षम् । "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः" इत्यमरः । दधासि - धारयसि । कोकप्रीतिसम्पादकत्वेन सूर्य्यसादृश्यमभ्युपगच्छन्ति बुधा भवन्तीति भावः । सूर्यस्य कोक-प्रसादकारकत्वं कविसमयप्रसिद्धम् ! कविसमयश्चेत्थम् -
मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यते हासकीर्यो रक्तौ च क्रोधरागौ सरिदुदधिगतं पङ्कजेन्दीवरादि ।
३९
Page #47
--------------------------------------------------------------------------
________________
तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षिसन्धौ ज्योत्स्ना पेया चकोरैर्जलधर-समये मानसं यान्ति हंसाः ।। पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैयूनामङ्गेषु हाराः स्फुटति च हृदयं विप्रयोगस्य तापैः । मौर्वी रोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतोभिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ।। अहन्यम्भोजं निशायां विकसति कुमुदं चन्द्रिकाशुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिना नाऽप्यशोके फलानि । न स्याज्जाती वसन्ते न च कुसुमफले गन्धसारद्रुमाणामित्याधुन्नेयमन्यत् कविसमयगतं सत्कवीनां प्रबन्धे ॥ इति ।
मुनीन्द्र - योगीश । लोके - जगति । सूर्योतिशायि - दिवाकराधिकानुभावः । असि - भवसि । "व्यतिरेकालङ्कारः । “व्यतिरेको विशेषश्चेदुपमानोपमेययोः" इति चन्द्रालोकीय-तल्लक्षणस्मरणात् ॥१७॥
ज्योत्स्ना समग्रभुवनेऽस्ति यशःस्वरूपा
त्वत्संस्थितिर्न च कदाऽपि बुधारिरूपा । त्वदर्शनं मधुरयेत् कटुकं नु निम्बं
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ अन्वयः समग्रभुवने, (ते) यशःस्वरूपा, ज्योत्स्ना, अस्ति, त्वत्संस्थितिः, कदाऽपि, बुधारिरूपा, न, त्वद्दर्शनम्, निम्बम्, कटुकम्, मधुरयत्, नु, जगत् विद्योतयत्, अपूर्वशशाङ्कबिम्बम्, (अस्ति) ||१८||
वृत्तिः समग्रभुवने - समग्रं समस्तं च भुवनं जगत् समग्रभुवनं तस्मिंस्तथा । "सर्वं समस्तम् न्यून समग्रं सकलं समम् । विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले" ६६९।। इत्यभिधानचिन्तामणिः । (ते - श्रीमतो भवतः), यश:स्वरूपा - यशः कीर्तिः स्वरूपमाकारो यस्याः सा तथा । ज्योत्स्ना - कौमुदी । "चन्द्रिका कौमुदी ज्योत्स्ना" इत्यमरः । अस्ति - वर्तते । चन्द्रस्य चन्द्रिका तावन्न समग्रजगति न वा सर्वदा. अमावास्यादौ सर्वथा लोपदर्शनात भवतां त यशश्चन्द्रिका सर्वभवनव्यापिका सर्वकालावच्छेदेन वरीवर्तमाना चाऽस्तीति भावः । त्वत्संस्थितिः - तव भवतः संस्थितिः स्वस्थानं मर्यादा वा तथा । "स्थितिः स्त्रियामवस्थाने मर्यादायां च योषिति" इति मेदिनी । कदाऽपि - कस्मिन्नपि कालेऽपि । बुधारिरूपा - बुध-शात्रवलक्षणा । न - नहि । चन्द्रस्थितिबुंधात्मग्रहविरोधिनी भवतस्तु विदुषामानुकूल्या पादिकेति भावः । त्वदर्शनम् - श्रीमद्भवत्साक्षात्कारः भवदीयं ज्ञानं वा । "दर्शनं नयनस्वप्नबुद्धि धर्मोपलब्धिषु । शास्त्र-दर्पणयोः" इति मेदिनी । कटुकम् - कटुत्वदोषकवलितम् । निम्बम् - सर्वतोभद्रफलम् । मधुरयेत् - मधुरतारसपरिपूर्णं करोति । "यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं
४०
Page #48
--------------------------------------------------------------------------
________________
गन्धमालाद्यैः सर्वस्य कटुरेव सः" इत्यभियुक्तोक्त्याऽपरिवर्तनीयस्वभावतां नयतीति भावः । अथवा दर्शनपदेनोक्तकोशबलादेव शास्त्रं ग्राह्यन्तथा चाऽनेकान्तवादबलतोऽपि केवलं न स्थितं नयेदपि च माधुर्य्यादिकमित्याद्युन्नेयम् । नु - वितर्के । जगत् - लोकम् । विद्योतयत् - ज्ञानेन प्रकाशयत् । अपूर्वशशाङ्कबिम्बम् - नूतनचन्द्रमण्डलम् । अस्तीति शेषः । अत्राऽपि व्यतिरेकालङ्कारः । अपूर्वशशाङ्क अन्यधर्मसम्बन्धनिमित्तेनाऽन्यस्याऽन्यसम्भावनमिति बिम्बमिति सम्भावनादुत्प्रेक्षाप्यस्ति । उत्प्रेक्षा च कुवलयानन्दकारोऽप्पय्यदीक्षितः । रसगङ्गाधरकारः पण्डितराजो जगन्नाथस्तु " तद्भिन्नत्वेन तद्भावकत्वेन वा प्रमितस्य पदार्थस्य रमणीयतद्वृत्ति - तत्समानाधिकरणतद्धर्मसम्बन्धनिमित्तकं तत्त्वेन तद्वत्त्वेन वा सम्भावनात्मानमुत्प्रेक्षां निरूपितवान् ॥१८॥
-
सम्यक्त्वबीजवपनात्परमात्मभूते
क्षेत्रे वचोऽमृतप्रवर्षणतः प्रसूते । धान्यं शिवं सलिलदोऽयमसारकम्रैः
कार्य्यं कियज्जलधरैर्जलभारनम्रैः ॥१९॥
अन्वयः अयम् सलिलदः, सम्यक्त्वबीजवपनात्, परम्, आत्मभूते, क्षेत्रे, वचोऽमृतप्रवर्षणतः, धान्यम्, शिवम्, प्रसूते, असारकम्रैः, जलभारनम्रैः, जलधरैः कार्य्यम्, कियत् ? ॥१९॥
वृत्तिः अयम् - एषः, बुद्धिविषयः सूरिचक्रंचक्रवर्ती । सलिलदः - जलदः, मेघरूप इति यावत् । आत्मभूते - आत्मरूपे । क्षेत्रे - केदारे । “ क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः" इति मेदिनी । सम्यक्त्वबीजवपनात् - सम्यक्त्वं परमार्हतदर्शनानुसारित्वमेव बीजं कारणभूतशाल्यादिसम्यक्त्वबीजं तस्य वपनं - वापः सम्यक्त्वबीजवपनम् तस्मात्तथा । " हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्" इत्यमरः । परम् - अनन्तरम् । “परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले" इति मेदिनी । वचोऽमृतप्रवर्षणतः वचो देशनाद्यात्मकं वचनमेवाऽमृतं पीयूषं वचोऽमृतम्, तस्य प्रवर्षणमासेचनं वचोऽमृतप्रवर्षणन्तस्मात्तथा । पीयूषममृतं सुधा इत्यमरः । शिवम् - मोक्षम् । “शिवो मोक्षे महादेवे कीलकग्रहयोगयोः । बालुके गुग्गुलो वेदे पुण्डरीकद्रुमे पुमान् । सुखक्षेमजले क्लीबम्" इति मेदिनी । मोक्षरूपमिति यावत् । धान्यम् सस्यम् । प्रसूते - जनयति । श्रीमान् महामहिमशाली सूरिचक्रचक्रवर्ती मेघः कस्मिश्चिद्भव्यात्मनि पूर्वं सम्यक्त्वं गाढं निदधाति पश्चात् उपदेशामृतवर्षणद्वारेण मोक्षं प्रापयतीति भावः । असारकम्रैः असारास्तुच्छाश्च ते कम्राः कमनीया असारक्रमास्तैस्तथा । जलभारनम्रैः - जलभारेण सलिलवहनभारेण नम्रा नता जलभारनम्रास्तैस्तथा । जलधरैः - मेघैः । कार्य्यम्-प्रयोजनम् । कियत् - किंपरिमाणम् ? किमपि तैः प्रयोजनं नास्तीति भावः । अत्र श्रीमत्सूरीश्वरधर्मिकजलधरतादात्म्यारोपं प्रधानं प्रति सम्यक्त्वा दौ बीजादेरारोपस्याऽङ्गतया सर्वेषामारोप्यमाणानां वस्तूनां शब्दोपात्तत्वेन च "सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकाऽसि नाऽत्र सन्देहः" इत्यादाविव समस्त
-
४१
Page #49
--------------------------------------------------------------------------
________________
वस्तुविषयं सावयवं रूपकमलङ्कारः । ननु रूपकस्य समासस्थले दर्शनात् धान्यं शिवमित्यादावसमस्ते कथं तत्स्वीकार इति चेदत्रोच्यते "मुखं चन्द्रः" इत्यादौ वाक्येऽपि रूपकस्वीकारस्य सर्वसम्मतत्वात् । ननु रूपकस्थले यदि सर्वत्र सारोपलक्षणाया अङ्गत्वन्तर्हि मुखं चन्द्रः "चन्द्र इव मुखम्" इत्युभयत्राऽपि चन्द्रसदृशाभिन्नं मुखमिति बोधावैलक्षण्यात् उपमितिः कथं रूपकस्य भेद इति चेदत्रोच्यते रूपकस्योपमिात. स्वरूपसंवेदनांशमादाय । वैलक्षण्येऽपि लक्षणाफलीभूतताद्रूप्यसंवेदनमादाय वैलक्षण्यं निर्बाधम् । ताद्रूप्यसंवेदनं च विषये मुखादौ विषयतावच्छेदकस्य चन्द्रसदृशमुखत्वादेः सम्प्रत्ययः इति शम् ॥१९||
नैसर्गिकं सुजनजाड्यहरं चिरत्ने
__ तेजश्चकास्ति भगवस्तव चित्तरत्ने । नाऽन्यत्र दृष्टमथवाऽस्ति विभाकरेऽपि
नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ अन्वयः भगवन् ! चिरत्ने तव, चित्तरत्ने, सुजनजाड्यहरम्, नैसर्गिकम्, तेजः, चकास्ति, एवम्, अन्यत्र, न, दृष्टम्, अथवा, विभाकरे, अपि, अस्ति, किरणाकुले, काचशकले, अपि, न ॥२०॥
वृत्तिः भगवन् ! - षड्विधैश्वर्यशालिन् सूरिचक्रचक्रवर्तिन् । चिरत्ने - चिरत्नने, सनातने इति यावत् । तव - श्रीमतो भवतः । चित्तरत्ने - चित्तं मानसमेव रत्नं चित्तरत्नन्तस्मिंस्तथा । सुजनजाड्यहरम् - सुष्ठ शोभनश्चाऽसौ जनो लोकस्तस्य जाड्यं जडत्वमज्ञानमिति यावत् तस्य हरं निवारकं सुजनजाड्यहरं तं तथा । नैसर्गिकम् - स्वाभाविकम् । तेजः ज्योतिः, प्रकाश इति यावत् । चकास्ते - द्योतते । एवम् - इत्थम् तम्, तेज इति यावत्, अन्यत्र - भवदीयचित्तरत्नादतिरिक्तस्थले कुत्राऽपि । न - नहि । दृष्टम् - अवलोकितम्, केनाऽपि प्रत्यक्षीकृतमिति यावत् । अस्तीति शेषः । अथवा - पक्षान्तरे । विभाकरे - सूर्ये । अपि - सम्भावनायाम् । “अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये" इति मेदिनी । अस्ति - वर्तते । तु - किन्तु । किरणाकुले - किरणै रश्मिभिराकुलं व्याप्तं किरणाकुलं - तस्मिंस्तथा। "किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः" इत्यमरः । अपि - खलु । काचशकले - काचखण्डे । अपि - खलु । न - नहि । अस्तीति भावः ॥२०॥
संसारवारिनिधिजातदुरन्तदोषं
___ हत्वा सदाऽऽचरितमत्र सदात्मपोषम् । जैनं वचस्तव तथा लसदन्तरेऽपि
कश्चिन्मनो हरति नाऽथ भवान्तरेऽपि ॥२१॥ अन्वयः संसारवारिनिधिजातदुरन्तदोषम्, हृत्वा, सदा, आचरितम्, सत्, आत्मपोषम्, तव, जैनम्, वचः, अन्तरे, अपि, तथा, अलसत्, (यथा) भवान्तरे, अपि, कश्चित्, ना, मनः, न, हरति ॥२१॥
४२
Page #50
--------------------------------------------------------------------------
________________
44
वृत्ति: संसारवारिनिधिजातदुरन्तदोषम् - वारिणी जलानि निधीयन्ते स्थाप्यन्तेऽस्मिन्निति वारिनिधिः समुद्रः, संसारो भवो जन्ममरणपरम्परैव वा वारिनिधिः समुद्रः संसारवारिनिधिस्तस्माज्जात उत्पन्नो दुरन्तो दुष्परिणामश्चाऽसौ दोषो दूषणं संसारवारिनिधिजातदुरन्तदोषस्तन्तथा । हृत्वा - विनाश्य । सदा सर्वदा । आचरितम् - आचारविषयीकृतम् सत् । आत्मपोषम् - आत्मसम्प्रदानकपरिपोषदायकम् । तव - श्रीमतो भवत: सूरीश्वरस्य । जैनम् - जिनानां श्रीमदादिदेवप्रमुखचतुर्विंशतितीर्थकृतामिदं जैनम् । वचः - देशनात्मकं वचनम् । अन्तरे - आत्मनि । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरव सरममध्येऽन्तरात्मनि च" इत्यमरः अपि - खलु । तथा तेन प्रकारेण । अलसत् - अशोभत् । (यथा) येन प्रकारेण, भवान्तरे - लोकान्तरे, परलोके इति यावत् । वस्तुतस्तु भवान्तरे इत्यस्य जन्मान्तरे इत्येवमर्थो विधेयः, तथैव प्रस्तुतोपयोगात् " भवः क्षेमेशसंसारे सतायां प्राप्तिजन्मनोः" इति मेदिनी । अपि - खलु । कश्चित् - कोऽपि । ना - पुरुषः । मनः - स्वीयमन्तःकरणम् । न नहि । हरति - चोरयति, दूरीकरोतीति यावत्, जैनागमसम्बन्धि भवदीयं तथाविधं व्याख्यानकालिकं शान्तरसप्रवाहान्वितं कठिनातिकठिनचेतोविद्रावकं जन्मान्तरीयनिजवृत्तान्तस्मारकं भवति यथा लोकः - का कथाऽस्य जन्मन: ? परस्मिन् जन्मन्यपि भवदाज्ञावशवर्ती भवितुकामो भवतीति भावः । संसारे वारिनिधित्वारोपाद् रूपकमलङ्कारः । तच्च रूपकं प्रकृते निरङ्गमवसेयम् । यत्र प्रधानस्य कस्यचिदारोपस्य पोषणार्थमन्यान्ये आरोपाः संभवन्ति तत्रैव रूपकस्य साङ्गत्वस्वीकारात् प्रकृते चाऽन्येषामारोपाणामभावान्निरङ्गत्वं स्फुटमेवेत्यवसेयम् ॥२१॥
›
श्रीमद्यशोविजयवाचकमुख्यग्रन्थान्
विश्वे तवैव प्रतिभा कृतवत्यकन्थान् ।
आशाः पराः प्रसवते परमर्कमालं
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥
-
अन्वयः तव, एव, प्रतिभा, लोके, श्रीमद्यशोविजयवाचकमुख्यग्रन्थान्, अकन्थान्, कृतवती, पराः, आशाः, प्रसवते, परम्, स्फुरदंशुजालम्, अर्कमालम्, प्राची, एव, दिग्, जनयति ॥२२॥
वृत्तिः तव - विविधविद्याविद्योतमानमानसस्याऽऽचार्य्यवृन्दपुरन्दरस्य भवतः । एव - अवधारणार्थकमव्ययम्, तेन नाऽन्यस्य कस्यचिदित्येतत्कलितं भवति । प्रतिभा - नवनवोन्मेषशालिनी प्रज्ञा । “प्रज्ञानवनवोन्मेषशालिनी प्रतिभा मता" इत्यभियुक्तोक्तेः । या किल काव्यकारणतया ध्वनिकारश्रीमदानन्दवर्धनाचार्य्याभिनवगुप्तमम्मटविश्वनाथाप्पय्यदीक्षितपण्डितराजजगन्नाथप्रमुखैः काव्यतत्त्वार्थपरिपक्ववासनावद्भिर्विद्वद्भिर्व्यवस्थापिताऽस्तीति । इदमत्र तत्त्वम् - "शक्तिर्निपुणता लोक-काव्यशास्त्राद्य वेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे" इति कारिकया सम्मीलितस्येव प्रतिभापरपर्य्यायशक्ति निपुणताभ्यासैतत्त्रितयस्य काव्यकारणत्वं न तु केवलायाः प्रतिभायाः अत एव " इति हेतुस्तदुद्भवे" इत्यत्रैकवचनमपि सङ्गच्छते तथापि पण्डितराजैः प्रतिभाया एव केवलायाः काव्यकारणत्वेन स्वीकारान्न
४३
Page #51
--------------------------------------------------------------------------
________________
कोऽपि विरोधः समापततीति, तथाहि - तस्य च कारणं कविगता केवला प्रतिभा । सा च काव्यघटनानुकूला शब्दार्थोपस्थितिः । तद्गतप्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धे जातिविशेष उपाधिरूपं वाऽखण्डम् । तस्याश्च हेतुः क्वचिद्देवता महापुरुषप्रसादादिजन्यमदृष्टम्, क्वचिच्च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासो न तु त्रयमेव, बालादैस्तौ विनाऽपि केवलमहापुरुषप्रसादादपि प्रतिभोत्पत्तेरिति । लोके - जगति । "लोकस्तु भुवने जने" इत्यमरः "स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्" ६।१॥ इत्यभिधानचिन्तामणिश्च । श्रीमद्यशोविजयवाचकमुख्यग्रन्थान् - श्रीमद्यशोविजयवाचको मुख्यः प्रधानं येषां ते श्रीमद्यशोविजय वाचकमुख्यास्तेषां ग्रन्थाः श्रीमहावीरस्तुत्यपरनामकखण्डनखण्डखाद्यादयः श्रीमद्यशोविजयवाचकमुख्य ग्रन्थास्तास्तथा । अकन्थान् - अकच्चरान्, संगृह्य लक्षणाऽपि मुद्राभिरेकैकं पत्रं संस्कृत्य मुद्रापयित्वा कृतार्थमिति यावत् । कृतवती - अकरोत् । विषयमिमं दृष्टान्तेन समर्थयति "आशाः पराः" इत्यादिना । परा: - पूर्वभिन्नाः पश्चिमादयः । आशा - दिशः । आशा दिगतितृष्णगयो: इति मेदिनी । परम् - केवलम् । "परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले" इति मेदिनी । प्रसवते - उत्पादयन्ति । कश्चिदिति शेषः । स्फुरदंशुजालम् - समुल्लसितकिरणकरम्बितम् । अर्कमालम् - सूर्यम्, प्राची - पूर्वा । एव - अवधारणे । दिक् - दिशा । जनयति - समुत्पादयति । यथा सत्यामप्यन्यस्यामाशायां स्फुरदंशुजालं सूर्यं प्राच्येव जनयति तथैव सत्यामप्यन्यदीयायां प्रतिभायां भवतां प्रतिभैव श्रीमद्यशोविजयप्रभृत्यमुद्रितच्छिन्नप्रायान् ग्रन्थान् सफ्लयति स्मेति निदर्शनालङ्कारः । अभवद्वस्तुसम्बन्धी उपमापरिकल्पकः निदर्शना इति तदीयलक्षणस्मरणात् ॥२२॥
सद्दर्शनाविकलचिच्चरणानि तानि
मार्गोऽयमेव ननु पारगतोदितानि । उद्घोषितं नु भवताऽपि भवस्य मन्था
नाऽन्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ अन्वयः पारगतोदितानि, तानि सद्दर्शनाविकलचिच्चरणानि, अयम्, एव, मार्गः, ननु, मुनीन्द्र ! भवता, अपि, भवस्य, मन्थाः, अन्यः, शिवपदस्य, पन्थाः, न, (इति) उद्घोषितम्, नु ॥२३||
वृत्तिः पारगतोदितानि - संसारस्य ये पारं पर्यन्तं गताः पारगतास्तीर्थङ्कराः श्रीमदृषभदेवप्रमुखास्तै रुदितानि त्रिपद्योपदिष्टानि पारगतोदितानि । "अर्हन् जिनः पारगतस्त्रिकालवित् क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः । शम्भुः स्वयम्भूर्भगवान् जगत्प्रभुस्तीर्थंकरः १।२४॥ इत्यभिधानचिन्तामणिः । तानि - प्रसिद्धानि । सद्दर्शनाविकलंचिच्चरणानि - दर्शनानि चाऽविकलचितः पूर्णज्ञानानि च चरणानि चरित्राणि च दर्शनाविकलचिच्चरणानि, सन्ति समीचीनानि च तानि दर्शनाविकलचिच्चरणानि सद्दर्शनाविकलचिच्चरणानि । "सम्यग्-दर्शन-ज्ञानचारित्राणि मोक्षमार्गः" इति तत्त्वार्थसूत्रम् । “चरित्रं चरिता-चारौ चारित्रचरणे अपि" ।३।५०७।। इत्यभिधानचिन्तामणिः । अयम् - एषः । एव - अवधारणार्थकमव्ययम् । मार्गः - पन्थाः,
४४
Page #52
--------------------------------------------------------------------------
________________
पद्धतिरिति यावत् । “पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्तनी। अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सतिः" ४।४९।। इत्यभिधानचिन्तामणिः । ननु - निश्चयेन । मुनीन्द्र - योगिनाथ ! सूरिचक्रचक्रवर्तिन् ! भवता - तत्रभवता श्रीमता त्वया । अपि - खलु । भवस्य संसारस्य जन्ममरणपरम्पराया वा मन्था विलोडकः विध्वंसक इति यावत् । अन्यः - सम्यग्ज्ञानदर्शनचारित्रातिरिक्तः । शिवपदस्य - शिवस्य मोक्षस्य शिवं सुखकरं वा पदमास्पदं स्थानमिति यावत् शिवपदम् तस्य तथा। "पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः । पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः ॥ श्लोकपादेऽपि च क्लीबं पुल्लिङ्गः किरणे पुनः" इति मेदिनी। पन्थाः - मार्गः । न - नहि । (इति) उद्घोषितम् - प्रकाशितम् । ज्ञानदर्शनचारित्राणि विना कथमपि केनाऽपि भविकेनाऽपि मोक्षपदं न प्राप्तुं शक्यते इति यत्र तत्राऽनेकशः श्रीमद्भिर्व्याख्यानावसरे श्रावकाः सम्बोध्य भुजोत्क्षेपं प्रतिबोधिता इति भवन्त एव नितान्तमेतेषां मोक्षमार्गोपदेशकत्वेन हितैषिणो नाऽन्ये तादृशाः केचन बभूवतुरिति तात्पर्य्यार्थः । यद्यपि प्रकृतिपुरुषविवेकज्ञानान्मोक्षः ब्रह्म-साक्षात्कारान्मोक्षः, इत्यादि तैस्तैरपरैर्मोक्षमार्गः प्रदर्शितस्तथाऽपि सर्वज्ञ-दर्शनानुसारं तेषां पूर्वपक्षाः क्षपिता भवद्भिरिति न दोषशङ्कालेशकलङ्कणिकाऽपीति सुधीभिरपरोक्षम् ॥२३।।
व्याख्यानभूरतिविशालतरा यदीयं
__स्यात् श्रोतुमात्महितकृद् वचनं त्वदीयम्। . कीर्णाऽऽगतैः समजनैस्तदिहोल्लसन्तो।
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ ___ अन्वयः ज्ञानस्वरूपम्, अमलम्, आत्महितकृत्, त्वदीयम्, वचनम्, श्रोतुम्, आगतै, समजनैः, कीर्णा, इयम्, व्याख्यानभूः, यदि, अतिविशालतरा, स्यात्, तत्, इह, उल्लसन्तः, सन्तः, प्रवदन्ति ॥२४॥
वृत्तिः ज्ञानस्वरूपम् - ज्ञानं मोक्षोपयोगि बोधः स्वरूपं स्वभावो यस्य तत्तथा । अमलम् - निर्मलम्, पदपदांशवाक्यार्थरसालपञ्चविधदोषविवर्जितं काव्यमयमिति यावत् । यद्यप्येतेषामुद्देश्यप्रतीतिविघातकानामुक्तानां पञ्चविधानामपि दोषाणां काव्यदोषतया काव्य एव हेयत्वेन तदीयवचने तेषां हेयत्वाभावेन तादृशदोषराहित्यं न प्रयोजकमिति प्रतिभाति तथापि सत्प्रतिभावतां महाकवीनां सूरीश्वराणां वचनस्य गद्यपद्यान्यतरकाव्यात्मत्वेन तत्राऽपि तादृशदोषाणां शान्तरसापकर्षकतया हेयत्वमिति । आत्महितकृत् - आत्मोपकारपरायणम् । त्वदीयम् - भवत्सम्बन्धि । वचनम् - उपदेशात्मकवचः । “व्याहार उक्तिर्लपितं भाषितं वचनं वचः" इत्यमरकोशः । श्रोतुम् - सादरमाकर्णितुम् । आगतैः - समायातैः । समजनैः - समताशोभितलोकैः, अथवा समशब्दस्य सर्वप-यत्वेन समे सर्वे च ते जना लोकाः समजनास्तैस्तथा । "सर्वं समग्रमन्यूनं समग्रं सकलं समम्" ६६९।। इत्यभिधानचिन्तामणिः । कीर्णा - व्याप्ता । इयम् - प्रत्यक्षदृश्या । व्याख्यानभूः - व्याख्यानस्थानम्, व्याख्यानशालायां तात्पर्य्यम्, तस्या अपि व्याख्यानस्थानत्वानपायात्, भूशब्दस्य पृथिवीवाचकत्वेन स्थानवाचकत्वं नास्तीति न भ्रमितव्यम्, भूः
४५
Page #53
--------------------------------------------------------------------------
________________
तया ।
और
स्थानमात्रे कथिता धरण्यामपि योषिति" इति मेदिनीकोषात् स्थानवाचकत्वानपायादिति । यदि - चेत् । अतिविशालतरा - अत्यन्तमहत्तरा । स्यात - भवेत । तत - तथा । इह - अस्मिल्लोके । सन्तः - सज्जनाः । प्रवदन्ति - निगदन्ति । कदाचित् कञ्चिद् ग्रामं विहृत्य प्राप्ते सूरीश्वरे तदीयं व्याख्यानममृतायमानमाणितुमागतैर्लोकैर्विशालायामपि व्याख्यानशालायामामूलचूल परिपूर्णायां सत्यां पश्चादागतानां जनानां प्रवेशकाठिन्यं विचिन्त्य तत्रत्यैः प्रधानजैनैः सभायामेव प्रस्तावोऽयं स्थापितो यत् यदीयं व्याख्यानशाला ऽतिविशालतरा स्यात्तदा समेषामागतानां जनानां व्याख्यानश्रवणाद् भवेन्मनोऽभिलाषपूर्तिरिति सूचितमनेन शब्दसन्दर्भेणेति ॥२४॥
दुर्गत्यभावकरणान्नरकान्तकोऽसि
को मोदकारकतया तु कुमोदकोऽसि दुर्दान्तकामदमनान्नु बलिन्दमोऽसि
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ __ अन्वयः भगवन् ! त्वम्, एव, दुर्गत्यभावकरणात्, नरकान्तकः, असि, तु, कौ, मोदकारकतया, कुमोदकः, असि, नु, दुर्दान्तकामदमनात्, बलिन्दमः, असि, (अत एव) व्यक्तम्, (त्वमेव) पुरुषोत्तमः, असि ॥२५।।
वृत्तिः भगवन् - श्रीवीर्येच्छाज्ञानवैराग्यकीर्तिमाहात्मैश्वर्ययत्नधर्ममोक्षशालिन् सूरीश्वर ! "भगं श्रीयोनिवीयेच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्यैश्वर्य्ययत्नेषु धर्मे मोक्षे" इति मेदिनी । त्वम् - श्रीमान् तत्रभवान्, भवान् । एव अवधारणार्थमव्ययम् । इदमत्र तत्त्वम् - एवकारस्याऽर्थत्रयम् । यदुक्तम् - "अयोग मन्ययोगं च अत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य एवकारस्त्रिधा मतः" इति । अयमर्थः - यत्र विशेषणान्वित एवकारस्तत्र विशेष्ये विशेषणस्याऽसम्बन्धरूपमयोगं निषेधति, यथा सम एवाऽयमित्यत्र समस्य विशेषणत्वेन तदन्वितेनैवकारेणेदमर्थे विशेष्ये समत्वायोगं व्यवच्छिन्दन् अस्य समत्वं नियमयति, यत्र पुनर्विशेष्यगत एवकारस्तत्र विशेष्येतरस्मिन् विशेषणीभूतधर्मसम्बन्धं वारयति यथा अयमेव सम इत्यत्रैतद्भिने समत्वसम्बन्धं वारयन् अस्मिन् समत्वं नियमयति । उभयरूपैवेयं सम्यक् प्रतीतिरवधारणतया। यत्र तु क्रियान्वित एवकारस्तत्राऽत्यन्तः सर्वदा योऽयोगः सम्बन्धाभावस्तस्य निषेधकः, तत्क्रियाश्रये कुत्रचिदपि सम्बन्धबोधक इति तु फलितोऽर्थः, यथा "नीलं कमलं भवत्येव" इति, अत्र हि न सकले कमले नीलत्वं नियम्यते नाऽप्यकमलेऽनीलत्वम्, अपि तु यस्मिन् कस्मिन्नपि कमले नीलत्वसम्बन्ध इति । दुर्गत्यभावकरणात् - नरकाभावसम्पादनात् । नरकान्तकः - नरकस्य निरयस्य अन्तको विनाशकस्तथा, अत एव नरकान्तकत्वात् पुरुषोत्तमरूप इति भावः, "विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टर श्रवाः । पुराणपुरुषो यज्ञपुरुषो नरकान्तकः" इत्यमरकोशः । असि - भवसि । कौ - पृथिव्याम् । “गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही"त्यमरः । मोदकारकतया - सम्मदावहतया । कुमोदकः । असि । नु - वितर्के। दुर्दान्तकामदमनात् - दुर्दान्तो दुर्दमनीयो यः कामः कन्दर्पस्तस्य दमनं दण्डो दुर्दान्तकामदमनन्तस्मात्तथा ।
४६
Page #54
--------------------------------------------------------------------------
________________
बलिन्दमः । असि - भवसि । (अत एव) व्यक्तम् - प्रकटम् । (त्वमेव) पुरुषोत्तमः - पुरुषश्रेष्ठः, विष्णुरूप इति भावः । अत्रोल्लेखालङ्कारः । “एकस्य वस्तुनो निमित्तवशाद्यदनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणं तदुल्लेखः" इति रसगङ्गाधरे पण्डितराजो जगन्नाथः । अत्र लक्षणे "अधरं बिम्बमाज्ञाय मुखमब्जं च तन्वि ! ते । कीराश्च चञ्चरीकाश्च विन्दन्ति परमां मुदम्" इति पद्ये कीरचञ्चरीकाभ्यामधरवदनयोबिम्बत्वेन पद्मत्वेन च ग्रहणे भ्रान्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति, "धर्मस्याऽऽत्मा भागधेयं क्षमायाः" इत्यादिमालारूपकेऽतिप्रसङ्गवारणायाऽनेकैर्ग्रहीतृभिरित्यविवक्षितबहुत्वकं ग्रहणविशेषणम् इति ॥२५।।
अद्याऽपि तत्स्मृतिपथं न जहाति सूक्तं
भक्त्या त्वया जिनवरं प्रणिपत्य सूक्तम् । तुभ्यं नमस्त्रिजगतः परितोषणाय
तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥ अन्वयः त्वया, जिनवरम्, प्रणिपत्य, सूक्तम्, तत्, सूक्तम्, अद्यापि, स्मृतिपथम्, न, जहाति, "जिन !, त्रिजगतः, परितोषणाय, तुभ्यम्, नमः, भवोदधिशोषणाय, तुभ्यम्, नमः" ॥२६।।
· वृत्तिः त्वया - ज्ञानदर्शनचारित्रात्मरत्नत्रितयाराधकेन निजजननपवित्रीकृतधरित्रीतलेन रक्षितवसुधातलेन श्रीमता तत्रभवता भवता । जिनवरम् - जिनेश्वरं देवाधिदेवम् । प्रणिपत्य - प्रणम्य । सूक्तम् - सु - सुष्ठ उक्तं गदितं तथा । तत् - अनुभूतपूर्वम् । सूक्तम् - स्तुतिपद्यम् । अद्याऽपि - अधुना खलु यावदिदानीमिति यावत्, अव्ययानामनेकार्थत्वात् । स्मृतिपथम् - स्मरणसरणिम् । स्मृतेः पन्था इति विग्रहे षष्ठीतत्पुरुषसमासोत्तरम् "ऋक्-पू-पथ्यपोऽत् ६।३।७६" इत्यनेन समासान्तोऽत्प्रत्ययः अथवा "बाटः पथश्च मार्गश्चे" ति त्रिकाण्डशेषकोशेऽकारान्तपथशब्दोपलब्धेः स्मृतेः पथः स्मृतिपथस्तं तथेत्यवसेयम् । न - नहि । जहाति - त्यजति । कीदृशं किस्वरूपं वा सूक्तमित्याकाङ्क्षाभ्यामुत्तरार्द्धमाह - "तुभ्यं नमस्त्रिजगतः" इत्यादिना, जिन - विजितरागद्वेषादिदेवाधिदेव ! त्रिजगतः - त्रयाणां जगतां लोकानां समाहारस्त्रिजगत् तस्य तथा, स्वर्गमर्त्यपातालात्मभुवनत्रितयस्येत्यर्थः । परितोषणाय - परि सर्वतोभावेन तोषणं सन्तोषप्रदानम्, परितोषणन्तस्मै तथा । तुभ्यम् - श्रीमते तत्रभवते भवते । नमः - नमस्कारः, नमोवाद इति यावत् । “नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च" इत्यनेन नमःशब्दयोगे चतुर्थी द्रष्टव्या । स्वावधिकोत्कृष्टत्व प्रकारकज्ञानानुकूलव्यापारो नम्धात्वर्थोऽवसेयः । भवोदधिशोषणाय - भवः संसारो - जन्मपरम्परा वोदधिः - समुद्रो भवोदधिस्तस्य शोषणं विनाशनं भवोदधिशोषणन्तस्मै तथा । तुभ्यं - श्रीमते चारित्रचूडामणये सूरिचक्रचक्रवर्तिने भवते । नमः - नमोवादः । अस्त्विति शेषः । अत्र स्मरणार्थप्रतीते: स्मरणालङ्कार इति न भ्रमितव्यम् - "सादृश्यज्ञानोबुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः" इति रसगङ्गाधरोल्लिखिततदलङ्कारलक्षणतः स्मरणस्य सादृश्यमूलकत्वे निदर्शनादिवदलङ्कारत्वम्, तस्याऽभावे व्यङ्ग्यतायाऽभावः, तयोरभावे वस्तुमात्रमिति द्रष्टव्यम् ॥२६॥
४७
Page #55
--------------------------------------------------------------------------
________________
दीक्षाङ्गनां विरतितः परिणीय प्रीत्या
. तामेव चारु रमयस्यनिशं सुरीत्या । रागङ्गतरस्तरललोचनयेक्षितोऽपि ।
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ . अन्वयः विरतितः, दीक्षाङ्गनाम्, परिणीय, प्रीत्या, सुरीत्या, ताम्, एव, चारु, अनिशम्, रमयसि, तरललोचनया, ईक्षितः, अपि, रागङ्गतः, स्वप्नान्तरे, अपि, कदाचित्, अपि, न, ईक्षितः, असि ॥२७॥
वृत्तिः विरतितः - विशिष्टा रती रागोऽध्यात्मप्रेमानुबन्धो विरतिस्तस्यास्तथा । "रतिः स्त्रीस्मरदारेषु रागे सुरतगुह्ययोः" इति मेदिनी । दीक्षाङ्गनाम् - दीक्षा भागवती दीक्षैवाऽङ्गना विशिष्टरमणी, प्रशस्तान्यङ्गानि शरीरावयवा अस्या इति दीक्षाङ्गना तान्तथा । तथाहि विशिष्टरमणीनिरूपणेऽमरः “विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना । प्रमदा मानिनी कान्ता ललना च नितम्बिनी । सुन्दरी रमणी रामा कोपना सैव भामिनी । वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी" इति । परिणीय - उद्वाह्य । प्रीत्या - प्रेम्णा । सुरीत्या - सुष्ठ शोभना चाऽसौ रीतिः परिपालनप्रकारो नीतिरिति यावत् सुरीतिस्तया तथा । ताम् -- बुद्धिविषयी भूतत्वेन प्रसिद्धां दीक्षाङ्गनाम् । एव - अवधारणे । न त्वन्यां लौकिकीं काञ्चनेति फलिम् । चारु - रमणीयं यथा स्यात्तथा । अनिशम् - सततम् । रमयसि - क्रीडयसि । तरललोचनया - तरले चञ्चले लोचने नेत्रे यस्याः सा चारुलोचना मगशावकनेत्रेति यावत् तान्तथा । "अथ चञ्चलम् । तरलं कम्पनं कम्प्रं परिप्लवचलाचले । चटुलं चपलं लोलं चलं पारिप्लवास्थिरे" ६।९१।। इत्यभिधानचिन्तामणिः । ईक्षितः - सकटाक्षमवलोकितः । अपि - सम्भावनायाम् । स्वप्नान्तरे - स्वप्नस्य स्वापस्याऽन्तरं मध्यं स्वप्नान्तर-स्तस्मिंस्तथा । अपि - खलु । रागङ्गतः - अनुरागं प्राप्त: । “रागोऽनुरागे क्लेशादौ मात्सर्ये लोहितादिषु" इति शाश्वतः । कदाचित् - जातुचित् । अपि - खलु । न - नहि । ईक्षितः - दृष्टः । असि - भवसि । वामलोचनासु श्रीमन्तं भवन्तमवलोक्यैव रागमधिगतासु सकटाक्षं विलोकमानासु सतीष्वपि श्रीमन्तः कमलपत्र-वनिर्लिप्त एवाऽभवन्निति भावः । अत्र दीक्षायामङ्गनात्वारोपाद्रूपकमलङ्कारः । तच्च कविगतसूरीश्वरविषय-करत्याख्यभावस्य प्रधानतया ध्वनित्वास्पदस्य पोषकतयाऽलङ्कारत्वभाजनमपृथग्यत्ननिर्वर्त्यत्वात् । तस्मिश्च सूरीश्वरगतदीक्षाङ्गनाविषयकरतेरङ्गतया प्रायोऽलङ्कारताऽवसेया, तथा चोक्तं ध्वन्यालोके श्रीमदानन्द-वर्धनाचाय्र्यैः "प्रधानेऽन्यतमवाक्यार्थे यत्राऽङ्गन्तु रसादयः । काव्ये तस्मिन्नालङ्कारो रसादिरिति मे मतिः" इति । तथा चोक्तं कुवलयानन्देऽप्पय्यदीक्षितैः -
"रसभावतदाभासभावशान्तिनिबन्धनाः । चत्वारो रसवत्प्रेय ऊर्जस्वि च समाहितम् ॥ भावस्य चोदयः सन्धिः शबलत्वमिति त्रयः ।" इति ॥२७॥
४८
Page #56
--------------------------------------------------------------------------
________________
निर्लोचकेशचयचक्रगतं सुहासं
तेजस्वितप्ततपनीयतरप्रभावम् । आस्यं त्वदीयमतुलं विलसत्यनति
बिम्बं रवेरिव पयोधरपार्श्ववति ॥२८॥ अन्वयः निर्लोचकेशचयचक्रगतम्, सुहासम्, तेजस्वि, तप्ततपनीयतरप्रभावम्, अतुलम्, अनर्ति, त्वदीयम्, आस्यम्, पयोधरपार्श्ववति, रवेः बिम्बम्, इव, विलसति ॥२८॥
वृत्तिः निर्लोचकेशचयचक्रगतम् - लोचाल्लुञ्चनान्निर्गता निर्लोचा - लोचविरहितास्ते च ते केशचयाः कुन्तलसमूहा निर्लोचकेशचयास्तेषां चक्रं नामैकदेशे नामग्रहणात् - चक्रवालं मण्डलम्, तद्गतं प्राप्तन्तथा । "चक्रवालं तु मण्डलम्" इत्यमरः । वस्तुस्तु निर्लोचकेशचयमध्यगतमित्ययं पाठः समीचीन: प्रतिभाति, चक्रशब्दस्याऽभिधेयेषु "चक्र: कोके पुमान् क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः ॥ जलावर्ते" इत्यनेकार्थकोशनिर्दिष्टेषु कुत्राऽप्यर्थसङ्गतेरभावादित्यनुसन्धेयम् । सुहासम् - सुन्दरहासकलितम् । तेजस्वि - प्रशस्तं तेजो ज्योतिरस्त्यस्मिन्निति तथा । "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्ति विवक्षायां भवन्ति मतुबादयः" इत्यभियुक्तोक्त्या प्रशंसायामपि मतुबर्थप्रत्ययविधानात् । "तेजो दीप्तौ प्रभावे च स्यात् पराक्रम-रेतसोः" इति मेदिनी । तप्ततपनीयतर प्रभावम् - 'सुतप्तकाञ्चनाधिकप्रतापम् । “अल्पान्तरम्" इति पाणिनिनिर्देशात्तारतम्यविवक्षायामपि तरप्रत्ययविधानदर्शनात्कथं द्रव्यवाचिशब्दात् तरदिति शङ्का निरस्ता वेदितव्या। "कलधौतलोहोत्तमावहितबीजान्यपि गारुडं गैरिकजातरूपे । तपनीयचामीकरचन्द्रभर्माऽर्जुननिष्ककार्तस्वरकर्बुराणि" ४।११०॥ इत्यभिधानचिन्तामणिः। अतुलम् - नास्ति तुलोपमा यस्य तत्तथा निरुपममिति यावत् । अनति - नास्त्यतिः पीडा दुःखं वा यस्मात् तादृशं तथा, यद् दृष्ट्वा जनानामाध्यात्मिकाधिदैवताधिभौतिकदुःखानि निवर्तन्ते इति भावः । “अतिः पीडाधनुष्कोट्योः" इति कोशः । त्वदीयम् - भवदीयम् । आस्यम् - वदनम् । पयोधरपार्श्ववर्ति - पयसो जलस्य धरो धारकः पयोधरो - मेघस्तस्य पाश्र्वं समीपं पयोधरपार्श्वन्तमवर्तत इति तथा । “पयोधरः कोशकारे नारिकेले स्तनेऽपि च । कशेरुमेघयोः पुंसि" इति मेदिनी। “पार्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षः । सदेशमभ्यग्रसनीडसन्निधानान्युपान्तं निकटोपकण्ठे" ६।८६॥ इत्यभिधानचिन्तामणिः । रवेः - सूर्यस्य । बिम्बम् - मण्डलम् । इव - यथा । विलसति - शोभते । अत्र बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मकोपमालङ्कारः तथा चोक्तं रसगङ्गाधरे - "इतश्चाऽन्येऽपि प्रभेदाः कुशाग्रधिषणैः स्वयमुद्भावनीयाः । तत्र क्वचिदनुगाम्येव धर्मः, क्वचिच्च केवलं बिम्बप्रतिबिम्बभावमापन्नः । क्वचिदुभयम् । क्वचिद्वस्तु-प्रतिवस्तुभावेन कराम्बितं बिम्बप्रतिबिम्बभावम् । क्वचिदसन्नप्युपचारतः । क्वचिच्च केवलशब्दात्मकः" इति ॥२८॥
४९
Page #57
--------------------------------------------------------------------------
________________
जन्माभिषेकसमये कनकाद्रिशृङ्गे
की विभाति जिनबिम्बममर्त्यभृङ्गे । बिम्बं सुचारु भवतोपमितं सदश्मे
तुङ्गोदयाद्रिशिरसीव सहस्त्ररश्मेः ॥ २९ ॥
अन्वयः जन्माभिषेकसमये, कनकाद्रिशृङ्गे, अमर्त्यभृङ्गे, जिनबिम्बम् कीदृक्, विभाति, (इति प्रश्ने) सदश्मे, तुङ्गोदयाद्रिशिरसि, सहस्ररश्मेः, सुचारु, बिम्बम् इव भवता, उपमितम् ॥२९॥
-
वृत्तिः जन्माभिषेकसमये चरमतीर्थकृतो भगवतो महावीरस्य देवेन्द्रकृतजन्माभिषेककाले । कनकाद्रिशृङ्गे - कनकमयः सुवर्णघटितश्चाऽसावद्रिः शैलः कनकाद्रिः सुमेरुः, तस्य शृङ्गं शिखरन्तं तथा । अमर्त्यभृङ्गे - अमर्त्या देवा भृङ्गा भ्रमरा इव यत्र तत्र तथा । जिनबिम्बम् - जिनस्य तीर्थकृतश्चरमस्य भगवतो महावीरस्य बिम्बं प्रतिबिम्बं जिनबिम्बम् । कीदृक्- किमात्मकम् । विभाति शोभते । इति केनचिद्विहिते प्रश्ने । भवता तत्रभवताऽमलप्रतिभावता श्रीमता । सदश्मे सन् शोभनोऽश्मो ग्रावा पाषाण इति यावत् यस्मिंस्तस्मिंस्तथा । अकारान्तस्याऽप्यश्मशब्दस्य दर्शनात् । तुङ्गोदयाद्रिशिरसि · उदयस्याऽऽविर्भावस्याऽद्रिः पर्वत उदयाद्रिस्तस्य शिरः शिखरमुदयाद्रिशिरः, तुङ्गमुदयाद्रिशिरस्तुङ्गोदयाद्रिशिरस्तस्मिंस्तथा । "तुङ्गमुच्चमुन्नतमुद्धरम् । प्रांशूच्छ्रितमुदग्रं च " ६ | ६४ ॥ इत्यभिधानचिन्तामणिः | सुचारु - अत्यन्तरमणीयम् । बिम्बम् - मण्डलम् । "बिम्बोऽस्त्री मण्डलं त्रिषु" इत्यमरकोशः । इव • यथा । उपमितम् - तुलितम् । उपमालङ्कारः । उपमानोपमेयगतधर्माणां भेदे साधर्म्याभावे कथमुपमा ? सादृश्यस्य साधर्म्यप्रयोज्यत्वात् ययोः साधर्म्यं समानधर्माभिसम्बन्धस्तयोरेव सादृश्यं भवति, तत्रोपमानं सादृश्यनिरूपकमुपमेयन्तु भवत्याश्रयः, यथा चन्द्र इव मुखमित्यत्र चन्द्रनिरूपितसादृश्याश्रयत्वस्य मुखे प्रतीतिर्भवतीति नाऽऽशङ्कनीयम् बिम्बप्रतिबिम्बभावेनाऽभेदात्साधारणधर्मतोपचारादुपमासिद्धौ बाधकाभावात् । न च बिम्बप्रतिबिम्बभावात्साधर्म्यप्रतीत्युपपादनेऽपि वस्तुतस्तदभावात्कथमुपमालक्षणसमन्वय इति वाच्यम्, चमत्कारविशेषप्रयोजकसाधारणत्वाध्यवसायविषयधर्मत्वस्यैवोपमालक्षणत्वमित्यभिप्रायत्वात् ॥२९॥
-
-
-
कादम्बके गिरिवरे जिनराजचैत्ये
त्वत्स्थापिते भवजतापविनाशिशैत्ये ।
शृङ्गं विराजति सुवर्णमयाच्छकौम्भ
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥
-
अन्वयः कादम्बके, गिरिवरे, त्वत्स्थापिते, भवजतापविनाशिशैत्ये, जिनराजचैत्ये, सुवर्णमयाच्छकौम्भम्, शृङ्गम्, उच्चैस्तटम्, सुरगिरेः शातकौम्भम् (शृङ्गम् ) इव विराजति ||३०||
वृत्तिः कादम्बके - कदम्बकाख्यतीर्थे । गिरिवरे - पर्वतश्रेष्ठे, रैवतकाख्ये इति यावत् । त्वत्स्थापिते त्वया श्रीमता भवता स्थापितं निर्मापितं व्यवस्थापितमिति यावत् त्वत्स्थापितन्तस्मिंस्तथा ।
५०
Page #58
--------------------------------------------------------------------------
________________
भवजतापविनाशिशैत्ये - भवात् संसाराज्जातो भवजः स चाऽसौ तापः सन्तापो भवजतापस्तं विनाशयति तच्छीलं भवजतापविनाशि "अजातेः शीले" ५।१।१५४|| इति हैमसूत्रेण णिन्प्रत्ययः, तादृशं शैत्यं शीतलत्वं यस्मिंस्तस्मिंस्तथा। जिनराजचैत्ये - जिनराजस्य जिनेश्वरस्य चैत्यं मन्दिरं जिनराजचैत्यन्तस्मिंस्तथा । सुवर्ण मयाच्छकौम्भम् - सुवर्णस्य विकारः सुवर्णमयम्, तच्च तदच्छं निर्मलं कुम्भानां कलशानां समूहः कौम्भं यस्मिंस्तत्तथा । उच्चस्तटम् - उन्नततद्देशम् । शृङ्गम् - शिखरम् । “शृङ्गं तु शिखरं कूटम्" ४।९८|| इत्यभिधानचिन्तामणिः । सुरगिरेः सुराणां देवानां गिरिः पर्वतः सुरगिरिर्मेरुस्तस्य इत्यमरः । शातकौम्भम् - शतकुम्भे गिरौ भवं शातकुम्भम् सुवर्णम् तस्येदं तथा । "सुवर्णं पुनः । स्वर्णं हेमहिरण्य- हाटकवसून्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरै-गाङ्गेय रुक्माण्यपि, जाम्बूनदं शातकुम्भम्" ४|१११॥ इत्यभिधान चिन्तामणिः । (शृङ्गम् - शिखरम्) इव - उत्प्रेक्षायाम् । “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिव शब्दोऽपि तादृशः" इत्यभियुक्तोक्तेः विराजति - शोभते । उत्प्रेक्षालङ्कारः । __ "भवेत्सम्भावनोत्प्रेक्षा वस्तुहेतुफलात्मना ।
उक्तानुक्तास्पदं चाऽत्र सिद्धासिद्धास्पदे परे ॥" इति चन्द्रालोके तदीयलक्षणस्मरणात् विषयिनिष्ठधर्मसम्बन्धप्रयुक्तं विषयर्मिकं तादात्म्यसंसर्गेण विषयिविधेयकमाहा[सम्भावनमुत्प्रेक्षेति पर्य्यवसितमवसेयम् । तनिष्ठधर्मसम्बन्धप्रयुक्त माहार्यतत्सम्भावनमिति तु निष्कर्षः । “मुखं चन्द्रं मन्ये" इत्युत्प्रेक्षायां चन्द्रनिष्ठाऽऽह्लादकत्वादिधर्मसम्बन्धप्रयुक्तं मुख्ने चन्द्रसम्भावनमाहार्य्यमस्तीति लक्षणसमन्वयः । बाधाद्यभावदशायां जायमानायां मुखादिधर्मिक चन्द्रादिसम्भावनायामुत्प्रेक्षात्ववारणाय आहार्येति । एतेन "विरामसन्ध्यापरुषं पुरस्ताद्यथा रजः पार्थिवमुज्जिहीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः" इत्यत्र रजोभरोद्गमनससैन्यं प्रत्युद्गन्तृधर्मसम्बन्धिप्रयुक्तायां भरते तत्सम्भावनायामपि नाऽतिव्याप्तिस्तस्या अनाहार्यत्वात् । “सम्भावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये" । इति सम्भावनालङ्कारविषये "यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव" इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम् । “सर्वातिशायि-सौन्दर्यं शङ्के सत्यवतीमुखम् । येन सा तरलाक्षी सावित्री तरलीकृता" इत्यादावतिप्रसङ्गवारणाय तन्निष्ठेति सम्भाव्यमानवृत्तित्वं धर्मविशेषणम् तत्र सावित्रीतरलीकारकत्वं रूपस्य धर्मस्य मुखवृत्तित्वन्न तु सम्भाव्यमानवृत्तित्वमिति सङ्केपः ॥३०॥
रत्नत्रयं शुभवतो भवतश्चकास्ति
। लोकत्रये किमपि यत्सदृशं न चाऽस्ति । जगत्प्रभावमुपनीतमुनीश्वरत्वं ।
प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥३१॥ अन्वयः शुभवतः, भवतः, जगत्प्रभावम्, उपनीतमुनीश्वरत्वम्, त्रिजगतः, परमेश्वरत्वम्, प्रख्यापयत्, किमपि, रत्नत्रयम्, चकास्ति, यत् सदृशम्, लोकत्रये (अपि), न, च, अस्ति ॥३१॥
५१
Page #59
--------------------------------------------------------------------------
________________
वृत्तिः शुभवतः - प्रशस्तं शुभं कल्याणमस्त्यस्येति शुभवान् तस्य तथा, कल्याणशालिन इत्यर्थः । "श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्" इत्यमरः । भवतः तत्रभवतः सूरीश्वरचक्रचक्रवर्तिनः श्रीमतस्तव । जगत्प्रभावम् - जगति भुवने प्रभावोऽनुभावस्तेज इति यावद्यस्य तत्तथा । "अनुभावः प्रभावे स्यान्निश्चये भावबोधके" इति मेदिनी । उपनीतमुनीश्वरत्वम् - मुनीनां साधूनां श्रमणानामिति यावदीश्वरः प्रभुर्मुनीश्वरस्तस्य भाव मुनीश्वरत्वम् उपनीतं - सम्पन्नं मुनीश्वरत्वं यस्मात्तत्तथा । त्रिजगत: - भुवनत्रयस्य । परमेश्वरत्वम् - परम उत्कृष्टश्चाऽसावीश्वर ईशिता परमेश्वरस्तस्य भावस्तथा । किमपि - अनिर्वचनीयप्रभावम् । रत्नत्रयम् - रत्नानां स्वजातिश्रेष्ठानां ज्ञानदर्शनचारित्राणां त्रयं रत्नत्रयम् । “रत्नं स्वजाति श्रेष्ठेऽपि मणावपि नपुंसकम्" इति मेदिनी । चकास्ति - द्योतते । यत्सदृशम् - येन रत्नत्रितयेन सदृशं तुल्यन्तथा । लोकत्रये - त्रयोऽवयवा अस्येति त्रयम् संख्याया अवयवे तयप् इत्यनेन तयप्प्रत्यये "द्वित्रिभ्यां तयस्याऽयज्वा" इत्यनेन विकल्पेन तयस्याऽयजादेश इति । (अपि) न च - नहि । अस्ति - वर्तते । परिकरालङ्कारः । “अलङ्कारः परिकरः साभिप्राये विशेषणे" । प्रकृतार्थेऽपि पादकार्थव्यञ्जकविशेषणत्वं तल्लक्षणं पर्य्यवसितं भवति । ध्वनावतिव्याप्तिवारणाय प्रकृतार्थेपि पादकेति हेत्वलङ्कारवारणाय बोधकत्वं विहाय व्यञ्जकत्वनिवेशः । परिकराङ्करालङ्कारवारणाय विशेषणेति ॥३१॥
स्तोतुं भवन्तमुचितं कवयन्ति केचित्
काव्ये कलां बहुविधां प्रथयन्ति केचित् । चित्रं विधाय मधुरं प्रविकल्पयन्ति
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ अन्वयः केचित्, उचितम्, भवन्तम्, स्तोतुम्, कवयन्ति, केचित्, काव्ये, बहुविधाम्, कलाम्, प्रथयन्ति, मधुरम्, चित्रम्, विधाय, प्रकल्पयन्ति, (केऽपि), विबुधाः, पद्मानि, परिकल्पयन्ति ॥३२॥
वृत्तिः केचित् - अनिर्दिष्टाभिधानाः कतिपयेऽनवद्यकल्पनाकल्पितान्तःकरणाः सहृदयमनीषिणः । उचितम् - समीचीनं यथा स्यात्तथा । भवन्तम् - अनल्पकल्पनापरिपूरितस्वान्तं मुनिभट्टारकं श्रीमन्तं त्वाम् । स्तोतुम् - वर्णयितुम् । कवयन्ति - काव्यं रचयन्ति । तेषां काव्यप्रणयनस्य मुख्यं प्रयोजनं भवतां स्तवनमेवेति भावः । केचित् - अन्ये कतिपये । काव्ये - लोकोत्तरवर्णननिपुणकविकर्मणि । इदमत्र तत्त्वम् - "सहृदयहृदयाह्लादिशब्दार्थमयत्वं काव्यत्वम्, अदोषसगुणसालङ्कारशब्दार्थो भयत्वं काव्यत्वमिति केचित्, वाक्यं रसात्मकं काव्यमित्यन्ये, रमणीयार्थप्रतिपादकशब्दत्वं काव्यत्वमित्यर्वाचीनाः, काव्यत्वं स्वीकुर्वन्ति । बहुविधाम् - अनेकप्रकाराम् । कलाम् - रचनाम्, “वैदेर्भी गौडीला पाञ्चालीत्यात्मानम् उपनागरिका परुषा कोमलात्मानम् । पदसंघटना रीतिरङ्गसंस्थाविशेषवत्" इति साहित्यदर्पणे विश्वनाथः। प्रथयन्ति - विस्तारयन्ति । चित्रम् - चित्रात्मकाव्यम् । उत्तममध्यमाधमभेदेन काव्यस्य त्रैविध्यं स्वीकुर्वन्ति मम्मटादयः तत्र "इदमुत्तममतिशायिनि व्यङ्ग्ये वाच्यादिध्वनिर्बुधैः कथितः । अतादृशि
५२
Page #60
--------------------------------------------------------------------------
________________
गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् । शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतमिति "स्फुटप्रतीयमानरहितत्वं चित्रकाव्यस्य लक्षणम्, तच्च पुनर्द्विविधम् - शब्दचित्रमर्थचित्रञ्च" ॥३२।।
तेजस्तवैव भगवन् विशदान्तरस्य
____ यादृग् विभाति न यथा मनुजान्तरस्य । सूर्य्यस्य या लसति कान्तिरुदासिनोऽपि
तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३॥ अन्वयः भगवन् !, विशदान्तरस्य, तव, एव, तेजः, यादृक्, विभाति, तथा, मनुजान्तरस्य, न, उदासिनः, अपि, सूर्य्यस्य, या, कान्तिः, लसति, तादृक्, विकाशिनः, अपि, ग्रहगणस्य, कुतः ? ॥३३॥
वृत्तिः भगवन् ! - षड्विधैश्वर्य्यशालिन् श्रीमन् सततं विविधशास्त्र-समनुशीलननिवेशितान्तःकरण:सम्पादितसकलकलिकालकवलितमानवशास्त्रार्थसदाचारप्रतिष्ठप्रख्यातवैदुष्यगुरुवर ! सूरीश्वर ! विशदान्तरस्य - विशदं निर्मलमन्तरं मध्यं हृदयमिति यावद्यस्य स विशदान्तरस्तस्य तथा । "अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्यात्मसदृशेषु" इति मेदिनी । तव - तत्रभवतो विबुधवृन्दवन्द्यचरणारविन्दस्य नरपतिमौलिमालाचुम्बितक्रमसरोरुहस्य भवतः । एव - अवधारणार्थकम, तेन भवत एव न त्वन्यस्येति फलति । तेजः - प्रभावः । यादृक् - यद्वत् । विभाति - शोभते । तथा - तादृक् । मनुजान्तरस्य - अन्यो मनुजो मनुष्यो मनुजान्तरम् तस्य तथा "मयूरव्यंसकेत्यादयः" ३।१।११६।। इत्यनेन शाकपार्थिवादेशकृतिगणत्वात्समासः । न - नहि । दृष्टान्तेन समर्थयति - सूर्य्यस्य या लसतीत्यादि - उदासिनः - उदासत औदासीन्यमवलम्बते तच्छीलास्तथा "अजातेः शीले" ५।१।१५४|| इति सूत्रेण तच्छीले णिनिः प्रत्ययः । अपि - सम्भावनायाम् । सूर्यस्य - दिवाकरस्य । या - यादृशी तेजोमयी । कान्तिः - शोभा । "शोभा कान्तिर्युतिश्छविः" इत्यमरः । लसति - शोभते । तादृक् - तादृशी । विकासिनः - विकाशवतः । अपि - खलु । ग्रहगणस्य - ग्रहाः चन्द्रादयस्तेषां गणः समुदायो ग्रहगणस्तस्य तथा । "रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः । बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः" इत्यमरकोशः । कुतः - कस्मात् । भवेदितिशेषः । “दृष्टान्तालङ्कारः" | "दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं, जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिर्लवित एव वानरभटैः किन्त्वस्य गम्भीरतामापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः" इत्यादौ सारस्वतसारावबोधः श्रीमतो मुरारिकवेरेवाऽस्ति न त्वन्यस्य कस्यचित्तथाऽनिर्वचनीयं तेजो भवत्येव नाऽन्यत्रेति दृष्टान्तस्य स्फुटत्वात् ।।३३।।
सद्धर्मकर्मणि महाभयमाविधूते
श्रीमान् व्रतोच्चरणतीर्थविधानभूते ।
Page #61
--------------------------------------------------------------------------
________________
निर्भीकतां नु भवतां समताश्रितानां
__ दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ अन्वयः श्रीमान्, व्रतोच्चरणतीर्थविधानभूते, सद्धर्मकर्मणि, महाभयम्, आविधूते, समताश्रितानाम्, भवताम्, निर्भीकताम्, दृष्टवा, भवदाश्रितानाम्, भयम्, नो, भवति, नु ||३४||
वृत्तिः श्रीमान् - श्रीः शोभा सम्पत्तिर्लक्ष्मीरस्त्यस्येति तथा । "शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव कथ्यते" इति शाश्वतः । व्रतोच्चरणतीर्थविधानभूते - व्रतस्य संयमनियमस्योच्चरणं दीक्षादिकालिकसमुद्घोषमन्त्रोच्चार इति यावत्, व्रतोच्चारणं तच्च तीर्थस्य कादम्बादिपवित्रक्षेत्रस्य पात्रस्योपाध्यायस्य शास्त्रस्य वा विधानं निर्माणं तत्तीर्थविधानञ्च व्रतोच्चरणतीर्थविधानम्, तद्भूतं प्राप्तम् तस्य भूतमुचितं वा व्रतोच्चारणतीर्थ विधानभूतम् तस्मिंस्तथा। "तीर्थं शास्त्राध्वरक्षेत्रोपायनारीरजःसु च । अवतारषिजुष्टाम्बुपात्रोपाध्यायमन्त्रिषु", "भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीवं त्रिषूचिते । प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरे तु ना । कुमारेऽपि" इत्युभयम् मेदिनी । सद्धर्मकर्मणि - सन् शोभनश्चाऽसौ धर्मः सुकृतं सद्धर्मस्तस्य कर्मकार्य सद्धर्मकर्म तस्मिस्तथा । महाभयम - महदधिकं च तद्भयं साध्वसं महाभयम, तत्तथा "सन्महत्परमोत्तमोत्कष्टैः" इत्यनेन कर्मधारयसमासः । आविधूते - दूरीकरोति । समताश्रितानाम् - समतां समदशितामाश्रिताः समताश्रितास्तेषान्तथा । भवताम् - अनवद्यविद्याविद्योतितविशुद्धमानसानाम् श्रीमतां सूरीश्वरचक्रचक्रवर्तीनां युष्माकम्, निर्भीकताम् - निर्गता भीर्भयं येषां ते निर्भीका: “अनेकमन्यपदार्थे" इत्यनेन बहुव्रीहिसमासानन्तरं "शेषाद्विभाषा" इत्यनेन वैकल्पिककप्प्रत्ययः, तेषां भावो निर्भीकता "प्रकृतिजन्यबोधे प्रकारीभूतो भावः" इत्यभियुक्तोक्तेर्भयराहित्यमिति यावत् तान्तथा । दृष्ट्वा - अवलोक्य भवदाश्रितानाम् - भवन्तं त्वामाश्रिता भंवदाश्रितास्तेषान्तथा, भवदनुयायिनामन्तेवासिनां सेवकानां च । भयम् - साध्वसम् "भयं भीीतिरातङ्क आशङ्का साध्वसं दरः" २।२१५।। इत्यभिधानचिन्तामणिः । नो - नहि । "अभावे, नह्य नो . नाऽपि" इत्यमरकोशः । भवति - जायते । नु - वितर्के । “नु वितर्कोपमानयोः" इति मेदिनी । "यद्यदाचरति श्रेष्ठ-स्तत्तदेवेतरो जनः" इति नीतिरीत्यनुशरणादिति भावः ॥३४॥
वैराग्यभावमधिगत्य गृहीतदीक्षं
माता पिता प्रियतमा तनयः सुशिक्षम् । स्नेहाविलः समुपयाति शमाश्रयं ते
नाऽऽक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ अन्वयः वैराग्यभावम्, अधिगत्य, गृहीतदीक्षम्, सुशिक्षम्, ते, शमाश्रितम्, ते, क्रमयुगाचलसंश्रितम्, माता, पिता, प्रियतमा, तनयः, स्नेहाविलः, (द्रष्टुम्) आयाति, (परम्) आक्रमति, न ॥३५॥
वृत्तिः वैराग्यभावम् - विशिष्टो परमतत्त्वादिविषयको रागः प्रेम विरागस्तस्य भावो वैराग्यम् । "गुणवचनब्राह्मणादिभ्य: ष्यङ्" इत्यादिना ष्यङि प्रत्यये, तस्य भावो भावनं विचारोऽभिप्राय इति भावः ।
Page #62
--------------------------------------------------------------------------
________________
-
वैराग्यभावस्तन्तथा। “भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रिया लीलापदार्थेषु विभूतिबुधजन्तुषु ” इति मेदिनी । अधिगत्य प्राप्य । गृहीतदीक्षम् - गृहीता स्वीकृता दीक्षा पञ्चमहाव्रतपालनप्रतिज्ञा येन स गृहीतदीक्षस्तन्तथा । सुशिक्षम् - सुशोभना शिक्षोपदेशः लौकिकशास्त्रीयाध्यात्मिककर्तव्यज्ञानमिति यावत् यस्य स सुशिक्षस्तन्तथा । ते - श्रीमतो भवतः । शमाश्रयः - शमः प्रशम आश्रयोऽवलम्बनं यस्य स शमाश्रयस्तन्तथा । ते श्रीमतो यतिवृन्दवन्दितक्रमसरोरुहस्य भवतः । क्रमयुगाचलसंश्रितम् - क्रमयुगं चरणयुगलमेवाऽचलः पर्वतः क्रमयुगाचलस्तं संश्रितः प्राप्तः क्रमयुगाचलसंश्रितस्तन्तथा । माता - जननी। पिता जनकः । प्रियतमा अतिप्रिया भार्य्या । तनयः - पुत्रः । स्नेहाविलः - प्रेमविह्वलः, तद्विषयकरागवशीभूतमानस इति यावत् । (द्रष्टुम् ) आयाति - आगच्छति । (परम् - किन्तु ) आक्रामति • दीक्षां परित्यज्य गृहं गन्तुमुत्साहयति । न - नहि । तत्रत्यां तस्य शिक्षादिव्यवस्थां परमौन्नत्यसम्पादनशीलसंरक्षणाद्यर्थं सततं शास्त्राद्यभ्यासरीतिं दृष्ट्वा मुग्धो भवतीति भावः ||३५||
-
—
रूपादिपञ्चविषयात्मककाष्ठजातं
ज्ञानादिभस्मकरणं परिनष्टसातम् ।
कामानलं विकृतिधूमविरूपवेषं
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥
अन्वयः त्वन्नामकीर्तनजलम्, रूपादिपञ्चविषयात्मककाष्ठजातम्, ज्ञानादिभस्मकरणम्, परिनष्टसातम्, विकृतिधूमविरूपवेषम्, अषम्, कामानलं, शमयति ॥३६॥
वृत्ति: त्वन्नामकीर्तनजलम् - तव भवतो नामाऽभिधानं त्वन्नाम, तस्य कीर्तनं भूयोभूयः समुच्चारणं तदेव तापशमककत्वाज्जलं सलिलन्तथा । कर्तृ । रूपादिपञ्चविषयात्मककाष्ठजातम् - रूपादयो ये पञ्च विषया इन्द्रियार्थास्त एवाऽत्मा स्वरूपं यस्य तदात्मकं काष्ठजातमिन्धनकदम्बं यस्य स रूपादिपञ्च विषयात्मककाष्ठजातस्तन्तथा । "रूपं शब्दो - गन्ध-रस-स्पर्शाश्च विषया अमी । गोचरा इन्द्रियार्थाश्चेत्यमरः । ज्ञानादिभस्मकरणम् - ज्ञानं सम्यग्दर्शनमादिः प्रथमावयवो यस्य तदाद्येव भस्म - क्षारः, क्षेति यावत्, ज्ञानादिभस्म तस्य करणमसाधारणं कारणं साधकतमं वा ज्ञानादिभस्मकरणन्तत्तथा । " असाधारणं कारणं करणम्” इति तर्कसङ्ग्रहः, "साधकतमं करणम्" इति महामुनिपाणिनिसूत्रम्, परिनष्टसातम् - परि सर्वतोभावेन नष्टं विनष्टं सातं सौख्यं यस्मात् स परिनष्टसातस्तन्तथा । " अथो शर्म निर्वृन्तिः । सातं सौख्यं सुखम्" ६|६|| इत्यभिधानचिन्तामणिः । विकृतिधूमविरूपवेषम् - विकृतिर्मानसिकविकार एव धूमोऽग्निचिह्नं विकृतिधूमंस्तेन विरूपो वेषो नेपथ्यं यस्य स विकृतिधूमविरूपवेषस्तन्तथा । "धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् । ४ १९९॥ वेषो नेपथ्यमाकल्पः " ३।२९९ ॥ इत्यभिधानचिन्तामणिः । अशेषम् - समस्तम् । कामः कन्दर्प एव अनलो वह्निः कामानलस्तन्तथा । शमयति - निर्वापयति । भवतां कीर्तनेन कामसन्तापो दूरं पलायते इति भावः । सावयवसमस्त-वस्तुविषयरूपकालङ्कारः । लक्षणाद्युक्तमवसेयम् ॥३६॥
५५
Page #63
--------------------------------------------------------------------------
________________
दुष्पञ्चमारकभवो मदनातिरेकः
प्रध्वंसितानुभवभावनसद्विवेकः । मोहद्विजिह्व उपयाति न तं पुमांसं
त्वन्नामनागदमनी हदि यस्य पुंसः ॥३७॥ अन्वयः दुष्पञ्चमारकभवः, मदनातिरेकः, प्रध्वंसितानुभवभावनसद्विवेकः, मोहद्विजिह्वः, तस्य, पुंसः, (पार्श्वे) न, उपयाति, यस्य, पुंसः, हृदि, त्वन्नाम, नागदमनी, (अस्ति) ॥३७॥
वृत्तिः दुष्पञ्चमारकभवः - दुष्टो यः पञ्चमारकः इदानीन्तनातिविचित्राधर्मसम्पादककालविशेषो दुष्पञ्च मारकस्तत्र भवस्तथा । मदनातिरेकः- मदनस्य मन्मथस्याऽतिरेक आधिक्यम् कामदेवप्रतापबाहुल्यमिति यावत् । अथवा मदनस्यातिरेक आधिक्यं यस्मात्स तथा । प्रध्वंसितानुभवभावनसद्विवेकः - प्रध्वंसिता विनाशिता अनुभवश्च भावनं च सद्विवेकश्च अनुभवभावनसद्विवेका येन स तथा । मोहद्विजिह्वः - मोहोऽज्ञान मेव - द्विजिह्वः सर्पस्तथा । "सर्पोऽहि: पवनाशनः । भोगी भुजङ्गभुजगावुरगो द्विजिह्वः" ४।३६९।। इत्यभिधानचिन्तामणिः । तम् बुद्धिविषयीभूतम् । पुमांसम् - पुरुषम् । न - नहि । उपयाति - तस्य पुरुषस्य पार्श्व देशं न व्रजतीति भावः । यस्य - बुद्धिविषयीभूतस्य महामहाभाग्यशालिनः । पंसः - पुरुषस्य । हृदि - हृदये, अन्तःकरणे इति यावत् । त्वन्नामनागदमनी - त्वन्नामैव नागदमनी सर्पबन्धनं रज्जुविशेषः । (अस्ति) । अत्र मोहे द्विजिह्वत्वारोपाङ्गतया भवदीयाभिधाने नागदमनीत्वारोपस्य कृतत्वात् सावयवरूपकालङ्कारः ॥३७॥
अज्ञानभावजननं तिमिरं मुनीनां
सूक्ष्मार्थबोधकरणे व्यथनं शुचीनाम् । गाढं घनं दिनकरोदयतः समैधि
त्वत्कीर्तनात्तम इवाऽऽशु भिदामुपैति ॥३८॥ अन्वयः शुचीनाम्, मुनीनाम्, सूक्ष्मार्थबोधकरणे, व्यथनम्, अज्ञानभावजननम्, समैधि, गाढम्, घनम्, तिमिरम्, दिनकरोदयतः, तमः, इव, त्वत्कीर्तनात्, आशु, भिदाम्, उपैति ॥३८॥
वृत्तिः शुचीनाम् - अतिविशुद्धान्तःकरणानाम् । मुनीनाम् - आगम-तत्त्वार्थचिन्तनपराणां श्रमणानाम् । सूक्ष्मार्थबोधकरणे - सूक्ष्मोऽल्पबुद्धिजनबुद्ध्यविषयो योऽर्थोऽभिधेयः तस्य बोधो - ज्ञानन्तस्य करणं सूक्ष्मार्थबोधकरणन्तस्मिंस्तथा । व्यथनम् - व्यथादायकम् बाधकमिति यावत् । अज्ञानभावजननम् - अज्ञानस्य अबोधस्य भावः सत्ताऽज्ञानभावस्तस्य जननमुत्पादकन्तथा । समैधि - उत्तरोत्तरं वर्धनशीलम् । गाढम् - अत्यन्तम् । अतिमात्रमिति यावत् । “अतिवेलभृशात्यतिमात्रोद्गाढनिर्भरम् । तीत्रैकान्तनितान्तानि गाढबाढदृढानि चे"त्यमरः । घनम् - सान्द्रम् । तिमिरम् - अज्ञानध्वान्तम् । “तिमिरं ध्वान्ते नेत्रमयान्तरे" इति मेदिनी । दिनकरोदयतः - दिवाकरोदयाचलसम्बन्धात् । तमः - अन्धकारम् । इव - यथा ।
Page #64
--------------------------------------------------------------------------
________________
त्वत्कीर्तनात् - भवदीयाभिधानकर्मकभूयोभूयःसमुच्चारणात् । आशु - शीघ्रम् । "लघु क्षिप्रमरं द्रुतम् । सत्वरं चपलं तूर्णमविलम्बितमाशु चे"त्यमरः । भिदाम् - भेदम्, विदीर्णताम्, विनाशमिति यावत् । उपैति - प्राप्नोति । बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मकोपमालङ्कारः ॥३८।।
श्रीजैनशासनवरोत्तमजात्यवंशा
ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः । स्वात्मानुरूपमधु मानसमाश्रयन्ते
त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥ अन्वयः श्रीजैनशासनवरोत्तमजात्यवंशाः, ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः, त्वत्पादपङ्कजवनायिणः, स्वात्मानुरूपमधु, मानसम्, आश्रयन्ते, ॥३९॥
वृत्तिः श्रीजैनशासनवरोत्तमजात्यवंशाः - श्रीजैनशासनं सुन्दरपरमार्हतागमसाम्राज्यमेव वरः श्रेष्ठ उत्तमः समीचीनो जात्यो विशिष्टजातीयो - वंशोऽन्ववायो येषान्ते तथा । "वंशः पुंसि कुले वेणौ पृष्ठावयववर्गयोः" इति मेदिनी । ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः - ज्ञानञ्च क्रिया च ज्ञानक्रिये त आत्मा स्वरूपं यस्य तत्, शुचिपक्षयुगलं-श्वेतपत्रद्वितयं येषान्ते आत्मान एव हंसा: मरालास्तथा । त्वत्पादपङ्कज वनाश्रयिणः - त्वत्पादौ भवदीयचरणावेव पङ्कजे त्वत्पादपङ्कजे तयोर्वनं त्वत्पाद एव पङ्कजवनम्, त्वत्पाद पङ्कजवनम्, तदाश्रयन्ते तच्छीलास्तथा । "सुप्यजातौ णिनिस्ताच्छीलो" इति णिनिः । सन्तः । स्वात्मानु रूपमधु - स्वेच्छानुसारमकरन्दम् । “मधु पुष्परसे क्षौद्रे मद्ये ना च मधुद्रुमे" इति मेदिनी । मानसम् - मानसं चित्तमेव तदाख्यं वा सरोवरम् । “मानसं सरसि स्वान्ते" इत्यमरः । आश्रयन्ते - अवलम्बन्ते । अत्र परम्परितरूपकालङ्कारः । यत्र चाऽऽरोप एवाऽऽरोपान्तरस्य निमित्तं तत्परम्परितम् ॥३९।।
अध्यात्मवर्त्मनि गता मुनयोऽल्पसत्त्वा
दुःश्वापदादिपरिरुद्धपथा अतत्त्वाः । भीति समाधिभरभङ्गकरीं त्यजन्ति
त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ अन्वयः अतत्त्वाः, दुःश्वापदादिपरिरुद्धपथाः, अल्पसत्त्वाः, मुनयः, भवतः, स्मरणात्, अध्यात्मवर्त्मनि, गताः, समाधिभरभङ्गकरीम्, भीतिम्, त्यजन्ति, त्रासम्, विहाय, व्रजन्ति ॥४०॥
वृत्तिः अतत्त्वाः - नास्ति तत्त्वं ब्रह्मयाथार्थ्यं वा येषान्ते तथा । "तत्त्वं ब्रह्मणि याथार्थ्य" इत्यमरः । दुःश्वापदादिपरिरुद्धपथाः - दुष्टाश्च ते श्वापदादयो हिंस्रव्यालादयोः दुःश्वापदादयस्तैः परि सर्वतोभावेन रुद्धोऽवरुद्धोऽवष्टब्ध इति यावत् पन्था मार्गो येषान्ते तथा। "हिंस्रेऽस्मिन् व्यालः श्वापदोऽपि च" ४।२८२।। इत्यभिधानचिन्तामणिः । अल्पसत्त्वाः - अल्पं मन्दं सत्त्वं बलं येषान्ते तथा । "सत्त्वं गुणे पिशाचादौ
Page #65
--------------------------------------------------------------------------
________________
बले द्रव्यस्वभावयोः ।" इति मेदिनी । मुनयः श्रमणसाधवः । ब्राह्मण- वशिष्ठन्यायेनेत्थमुक्तिरवसेया । भवतः श्रीमतः । स्मरणात् - स्मृतेः । अध्यात्मवर्त्मनि आध्यात्मिकमार्गे । गताः - श्रिताः, अध्यात्ममार्गसमारूढा इति यावत् । समाधिभरभङ्गकरीम् - अर्थमन्त्रावभासनरूपध्येयाकारनिर्भासात्मक ध्यानं समाधिस्तस्य भरोऽतिशयस्तस्य भङ्गं विनाशं करोतीति समाधिभरभङ्गकरी तान्तथा । " ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततेः । समाधिस्तु तदेवार्थमात्राभासनरूपकम् " ११८५ ॥ इत्यभिधानचिन्तामणिः । भीतिम् - भयम् | त्यजन्ति मुञ्चन्ति । त्रासम् - औत्पातिकभयम् । विहाय - हित्वा । व्रजन्ति मधुकर्य्यादिसमुचितोद्देशं गच्छन्तीति ॥४०॥
-
-
दारिद्र्यदुःखदुरितोद्भवदीनदीना दुष्कर्मणामुदयतः प्रहतप्रभावाः ।
त्वत्सन्निधानधृतसंयमशुद्धरूपा
मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥
अन्वयः दुष्कर्मणाम्, उदयतः, प्रहतप्रभावाः, दारिद्र्यदुःखदुरितोद्भवदीनदीनाः, मर्त्याः, त्वत्सन्निधान धृतसंयमशुद्धरूपाः, मकरध्वजतुल्यरूपाः भवन्ति ॥४१॥
वृत्ति: दुष्कर्मणाम् - मोहनीयादीनां घातिकर्मणाम् । इदमत्र तत्त्वम् - बन्धोऽष्टविधं कर्म, तत्र घातिकर्म चतुर्विधम्, तद्यथा - ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति, तथा चत्वार्यघाति कर्माणि भवन्ति तद्यथा - वेदनीयं नामिकं गोत्रिकमायुष्कञ्चेति । तत्र सम्यग्ज्ञानं न मोक्षसाधनं न हि ज्ञानाद्वस्तुतः सिद्धिरतिप्रसङ्गादिति विपर्य्ययो ज्ञानावरणीयं कर्मोच्यते, आर्हतदर्शनाभ्यासान्न मोक्ष इति ज्ञानं दर्शनावरणीय कर्म, बहुषु विप्रसिद्धेषु तीर्थकरैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं कर्म, मोक्षमार्गप्रवृत्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म तानीमानि श्रेयोहन्तृत्वाद्धातिकर्माण्युच्यन्ते इति । उदयत: - प्रादुर्भावात् । प्रहतप्रभावा: - विनष्टानुभावाः । दारिद्र्यदुःखदुरितोद्भवदीनदीना: - दारिद्र्यदुःखनिदानपापोदयाति दुर्विधाः । मर्त्याः - मनुजाः । त्वत्सन्निधानधृतसंयमशुद्धरूपाः - त्वत्सन्निधाने श्रीमद्भवत्पार्श्वे धृतसंयमेन विशुद्धचारित्रे शुद्धं रूपं स्वरूपं यैस्ते तथा । मकरध्वजतुल्यरूपाः - कामदेवसमानकान्तयः । "मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः मकरध्वज आत्मभूः" इत्यमरः । भवन्ति - जायन्ते । काव्यलिङ्ग मुपमा चाऽलङ्कारः ॥४१॥
जैनागमानुभवभाविततावकीना
शैलीं विभावमथनीं नु यथाप्नुवन्ति
क्षीणात्मभावजनकोपशमातिपीनाम् ।
सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥
५८
Page #66
--------------------------------------------------------------------------
________________
अन्वयः ये, जैनागमानुभवभाविततावकीनाक्षीणात्मभावजनकोपशमातिपीनाम्, विभावमथनीम्, शैलीम्, आप्नुवन्ति, (ते), सद्यः, स्वयम्, विगतबन्धभयाः, भवन्ति ॥४२॥
वृत्तिः ये - बुद्धिविषयाः । जैनागमानुभवभाविततावकीनाक्षीणात्मभावजनकोपशमातिपीनाम् - जिनानामर्हतामिमे जैनास्ते च ते आगमाः कल्पसूत्रप्रमुखशास्त्राणि जैनागमास्तेषामनुभवो यथार्थज्ञानं जैनागमानुभवस्तेन भावितः संस्कारितो जैनागमानुभवभावितस्तेन तावकीनेन - भावत्केन अक्षीणात्मभावजनकोपशमेन - परिपुष्टपरमात्मतत्त्वजननप्रशमेन अतिपीना - अत्यन्तं परिपुष्टा जैनागमानुभवभाविततावकीना क्षीणात्मभावजनकोपशमातिपीना तां तथा । विभावमथनीम् - विरुद्धश्चाऽसौ भावोऽभिप्रायो रत्यादिको वा विभावस्तं मनाति विलोडयतीति विभावमथनी, तान्तथा । शैलीम् - चारित्रादिपरिपालनरीतिम् । आप्नुवन्ति - अधिगच्छन्ति । (ते - बुद्धिविषयाः प्राप्ततादृशशैलीकाः पुरुषाः) सद्यः - तत्क्षणम् । "सहसैकपदे सद्योऽकस्मात् स यदि तत्क्षणे" ६।१६७॥ इत्यभिधानचिन्तामणिः । स्वयम् - आत्मना । विगतबन्धभयाः - विगतं विनष्टं बन्धभयमष्टविधकर्मजनितसाध्वसं येषान्ते तथा । भवन्ति - जायन्ते । विगतबन्धीभावे तादृशशैलीप्रापणस्य हेतुतयाऽभिधानात् काव्यलिङ्गमलङ्कारः । ॥४२॥
पुण्यानुबन्धिसुकृतं समुपाय॑ प्राज्यं
प्राप्नोति शाश्वतमरं वरमात्मराज्यम् । सद्भावभावितमना विशदं मिमीते ।
यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ अन्वयः यः, मतिमान्, तावकम्, इमम्, स्तवम्, अधीते, सद्भावभावितमनाः, विशदम्, मिमीते, (सः), पुण्यानुबन्धि, प्राज्यम्, सुकृतम्, समुपाय॑, अरम्, शाश्वतम्, वरम्, आत्मराज्यम्, प्राप्नोति ॥४३।।
वृत्तिः यः - बुद्धिविषयः । मतिमान् - प्रशमितबुद्धिः । मानव इति शेषः । तावकम् - तव श्रीमतो भवतोऽयन्तावकः तन्तथा । इमम् - प्रत्यक्षसमुपस्थितम् । स्तवम् - स्तोत्रम् । अधीते - पठति, चिन्तयति, विचारयति, परामृशति । सद्भावभावितमनाः - सता समीचीनेन भावेनाऽभिप्रायेण भावितं संस्कारितं मनोऽन्तःकरणं यस्य स तथा । विशदम् - विशुद्धम् यथा स्यात्तथा । मिमीते - जानाति । सः - बुद्धिविषयः । यच्छब्दस्योत्तरवाक्यगतत्वेन पूर्ववाक्ये तच्छब्दानुपादानेऽपि न क्षतिरित्यनुसन्धेयम् । पुण्यानुबन्धिसुकृतप्रयोजकम् यत्पुण्यमुत्तरोत्तरं पुण्यमेव प्रयोजयति तदिति भावः । प्राज्यम् - प्रचुरम् । सुकृतम् - पुण्यम् । समुपायं - लब्ध्वा । अरम् - शीघ्रम् । "लघु क्षिप्रमरं द्रुतम्" इत्यमरः । शाश्वतम् - सनातनम् नित्यमिति यावत् । वरम् - अभीष्टम् । आत्मराज्यम् - स्वराज्यम् सिद्धावस्थितिमिति यावत् । प्राप्नोति - व्यधिगच्छति, लभते इति यावत् । भवदीयस्तवाऽध्ययनात् सम्यग्दर्शनादिक्रमेण गुणश्रेणीमुत्तरोत्तरामधिरूढा भविका भव्यं मोक्षपदमधिकुर्वन्तीति भावः ॥४३॥
Page #67
--------------------------------------------------------------------------
________________
भक्तामरान्तिमपदानुगतिं विधाय
- सूक्तामृतोद्गमसुपुण्यमलं निधाय । त्वां सद्भुरन्धरमुपैति नु यः सलक्ष्मी
स्तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४४॥ अन्वयः भक्तामरान्तिमपदानुगतिम्, विधाय, सूक्तामृतोद्गमसुपुण्यम्, अलम्, निधाय, यः, सलक्ष्मीः, सद्धुरन्धरम्, त्वाम्, उपैति नु, मानतुङ्गम्, तम्, लक्ष्मीः , अवशा, समुपैति ॥४४॥
वृत्तिः भक्तामरान्तिमपदानुगतिम् - श्रीमानतुङ्गाचार्यविरचितसमस्तलोकप्रसिद्धभक्तामरस्तोत्रान्तिम पादसम्बन्धम् । विधाय - कृत्वा । सूक्तामृतोद्गमसुपुण्यम् - सूक्तामेवाऽमृतं पीयूषन्तत उद्गम उत्पत्तिर्यस्य तादृशञ्च तत्सुपुण्यं सुकृतश्रेष्ठं सूक्तामृतोद्गमसुपुण्यन्तत्तथा। अलम् - अत्यर्थम् । “अलं भूषण पर्याप्तिवारणेषु निरर्थके" इति मेदिनी। निधाय - धारयित्वा । स्थित इति शेषः । यः - बुद्धिविषयः । सलक्ष्मीः - सती समीचीना लक्ष्मीः ज्ञानादिसम्पत्तिर्यस्य स तथा । सद्भुरन्धरम् - सतां सत्सु वा, धुरन्धरः सर्वभारग्राहकः सद्धरन्धरस्तं तथा । सन् सज्जनः धुरन्धरस्तदभिधानं पंन्यासप्रवरश्रीधुरन्धरविजयगणिर्यस्य स सद्धरन्धर स्तन्तथा । त्वाम् - श्रीमन्तं, भवन्तम् । उपैति - प्राप्नोति । - - निश्चयेन । अव्ययानामनेकार्थत्वात् । मानतुङ्गम् - मानेन सन्मानेन तुङ्ग उन्नतो मानतुङ्गोऽतिसन्मानभाजनन्तन्तथा । तम् - तादृशं जनम् । लक्ष्मी: - कमला । अवशा - पराधीना, तदधीनेति यावत् वशंवदेति हृदयम् । समुपैति - प्राप्नोति । इति शम् ।।
६०
Page #68
--------------------------------------------------------------------------
________________
श्रीकदम्बगिरेर्माहात्म्यम् आ. विजयहेमचन्द्रसूरि :
तथा
कदम्बगिरिमाहात्म्यं वर्णयामि स्वशक्तितः । शत्रुञ्जयस्नान-महिमानमनुत्तमम् ॥१॥ सुदुस्तरे कलियुगे पञ्चमारेऽपि सम्प्रति । मनुष्याः पापकर्माणो रागद्वेषसमाकुलाः ॥२॥ प्रतिधर्ममविश्वस्ताः कुतर्का नास्तिका जनाः । पाखण्डधर्मनिरता देवधर्मविनिन्दकाः ॥३॥ गुरुमानमकुर्वन्तः पतन्ति नरकेऽशुचौ । मातृपितृगुरुभक्ति-रहिताः सकला जनाः ॥४॥ गुरुविद्वेषमिच्छन्ति धनमानमदान्विताः 1 स्तब्धा दुर्व्यसनासक्ताः पुत्रस्त्रीद्रव्यलालसाः ||५॥ अहं ममेत्यभिहताः सच्छासनपराङ्मुखाः । अन्योऽन्यं द्वेषकर्तारः सतां दुःखप्रदायकाः ॥६॥
इति दोषविभेदेन पतन्ति नरकेऽशुचौ ।
जिनशासनभक्तिवत्सलतया कृपालुना शासनाधिष्ठायकेन विचारितं स्वमनसि यद्येते उपरि वर्णिता महापापिजना भगवद्विमुखा भूत्वा स्वेनैव दोषेण नरके पतिष्यन्ति तन्मम शासनाधिष्ठायकताया किं महत्त्वं यद्येतेषां महापापिनामपि पतितपावनपरमात्मसांमुख्यं प्रापय्योद्धारं करिष्यामि इति ममाऽधिष्ठायकभावस्य साफल्यम्, अतस्तेषामुद्धारम्प्रति मया दयालुता कर्तव्या । केनोपायेन तेषां रक्षणं कार्यमिति क्षणमात्रं ध्यात्वा स्वतो भूमेरधस्तात् पाताले पापिनां पतनाय नारकलोको वर्तते, तस्मिंस्तामिस्रान्धतामिस्ररौरवाद्याः शतशो नरकावासाः पापानां शिक्षार्थं सन्ति । यत्र परमाधार्मिकपराधीनाः सर्वे पापिनः स्वकर्मफलदुःखं भुञ्जाना: सन्तः पश्चात्तापं प्रकुर्वन्ति प्रभो ! मया किं कृतम् यदेतादृशं दुःखं प्राप्नोमीत्यादि । तत्राऽपि दक्षिणस्यां दिशि बहुपापिनो जीवाः, तत्पापिनामुत्तरणार्थमेव लोकानुभावेन तत्रैव दक्षिणस्यां दिशि भूम्यां श्रीकदम्बगिरिः स्थापित इव लक्ष्यते । यस्य दर्शनेनैव महापापिनामपि पापनाशो भविष्यति । श्रीशत्रुञ्जयतले च वहन्त्यां शत्रुञ्जयनद्यां स्नात्वा शुद्धान्त:करणाः सन्तस्ते महापापिनोऽपि पापरहिता भविष्यन्ति । उक्तञ्च -
܂
दक्षिणस्यां च काष्ठायां कदम्बाख्यो गिरिर्महान् । यस्य संदर्शनेनैव शुद्ध्यन्ति पापिनो जनाः ॥ १॥
६१
Page #69
--------------------------------------------------------------------------
________________
तस्मात् पापप्रणाशाय नरकोत्तरणाय च । कदम्बाख्यगिरेर्यात्रा कर्तव्या पापभीरुभिः ॥२॥
यत्रैकदर्शनादेव क्षीयन्ते पापराशयः । शुद्धान्तःकरणा भूत्वा मोदन्ते दिवि देववत् ॥३॥
शत्रुञ्जया नदी यत्र स्नात्वा देवं प्रपूजयेत् । दत्त्वा दानञ्च विधिवन्मानुष्यं सफलं कुरु ||४|| मिसूरिं गुरुं नत्वा तदाज्ञापरिपालकः । सर्वस्वं गुरवे दत्त्वा न पुनर्मानुषो भवेत् ॥५॥
प्रतिष्ठां मन्दिरं कृत्वा तथा यात्रामहोत्सवान् । स्ववित्तं शुभमार्गेण व्ययं नीत्वा सुखीभव ||६||
इति विचार्य ध्यानाज्जाग्रत् संस्तं श्रीकदम्बाख्यगिरिम्प्रति यतीश्वरं श्रीनेमिसूरिं भगवदात्मभूतं निजानन्दसहितं मनसा प्रेरितवान् यद् भवान् भगवद्रूपोऽस्ति भव्यजीवानुग्रहार्थञ्च पृथिव्यां सञ्जातः । अयं भवतो लोकोत्तरावतारस्ततो जिनेश्वरधर्मविस्तारं करोतु । अतो भवान् स्वोपार्जितदिव्यज्ञानेन जिनप्रासादादीनि निर्माप्य प्रतिष्ठायात्रादिमहोत्सवञ्च कारयित्वा सर्वेषां जीवानां जिनधर्मसम्प्रदाय-पुरस्सरमुंद्धारं करोतु तेन भवतोऽवतारसाफल्यं भविष्यति । ततो भोगेन पुण्यक्षयं कुर्वन् कुशलेन कर्मणा पापक्षयं कुर्वन् कालजवेन कलेवरं हित्वा देवलोकगीतां विशुद्धां कीर्तिमवाप्य मुक्तबन्धः सन् आत्मज्योतिःस्वरूपमेष्यति भवात् । इति शासनाधिष्ठायकः सद्गुरुं नेमिसूरिमादिष्टवान् ।
अतः
भव्यानुग्रहसम्भूतं जिनाज्ञापरिपालकम् । भव्येभ्यो मोक्षदातारं नेमिसूरिं गुरुं नुमः ॥७॥
कदम्बाख्यगिरिं नत्वा शत्रुञ्जयासमीपगम् । देवधर्मगुरुं नत्वा मोक्षधर्मं समाचरेत् ॥८॥
इति धर्मविधिं कृत्वा मानुष्यं मोक्षहेतुकम् । सफलं कुरु जीवात्मन् ! मोक्षं प्राप्तुं यदीच्छसि ॥९॥
अतो नरकार्हाणां जीवानां च भव्यानामपि तारणार्थमयं कदम्बाख्यो गिरिर्वर्तते । तस्मात्तत्र सङ्घयात्रया गत्वा जिनमन्दिरं वा मूर्तिं प्रतिष्ठाप्य गुर्वाज्ञां गृहीत्वा तदाज्ञापुरस्सरं शुद्धधर्मं विज्ञाय सुकृती भव्यो जीव आत्ममोक्षं कुर्यादिति शम् ॥
इति श्रीकदम्बगिरि-माहात्म्यम् ॥
६०
Page #70
--------------------------------------------------------------------------
________________
तत्त्वबोधप्रवेशिका - १
प्रामाण्यवादः
मुनित्रैलोक्यमण्डनविजयः
(श्रीसिद्धसेनदिवाकरैर्विरचितस्य सन्मतितर्कप्रकरणस्योपरि न्यायपञ्चानन - श्री अभयदेवसूरिप्रणीतायास्तत्त्वबोधविधायिन्याख्याया वृत्तेरध्ययनकाले भासितं यदियं वृत्तिर्विद्यार्थिनां कृते दुर्गमेव । समाविष्टा नानाविधाश्चर्चा:, तर्क-प्रतितर्कानामीषदज्ञाता परिपाटी, दुरूहं विकल्पजालं, पाण्डित्यपूर्णा शैली - इत्यादिभिः कारंणैरस्या वृत्तेस्तत्त्वावगमनं न तावत् सुकरम् । तत्राऽपि खण्डन- मण्डनयोः सुविस्तृता प्रक्रियाऽपि बाधां समुपस्थापयति । ततः ‘अस्मात् सर्वस्मात् चचार्या हार्दं पृथक्कृत्य, यदि तत् सरलया शैल्या सङ्क्षिप्ततया च प्रस्तुतीक्रियेत, तथैव तेन साकं काचित् सन्दर्भात्मिका सामग्र्यप्युपन्यस्येत, तर्हि वरं भवे' दिति समुपधार्य तादृशानां लेखानामेकां श्रेणीं कर्तुं विचारः समुद्भूतः । तदनुसारमिह वृत्तावादावेव चर्चितः प्रामाण्यवादः प्रस्तुतीक्रियते ।)
जायमानाः सर्वेऽप्यनुभवा न केवलं यथार्था अयथार्था वा भवन्तीति वयं जानीम एव । तथैव तत्तदनुभवगतस्य यथार्थत्वस्याऽयथार्थत्वस्य वा भानमपि जायते एवेत्यप्यनुभवसिद्धम् । सर्वाणि दर्शनान्यप्येतदङ्गीकुर्वन्त्येव ।
अत्र प्रश्नोऽयं जायते यद् ज्ञानगते यथार्थत्वा - ऽयथार्थत्वे कथं ज्ञायेते ? को वा तन्निश्चायक: ? ‘ज्ञानं स्वप्रकाश’मित्यङ्गीकुर्वतां मते, यदा ज्ञानं स्वयमेवाऽऽत्मनो ज्ञानं जनयति, तदा तेनैव सममात्मनः प्रामाण्यमप्रामाण्यं वाऽपि तद् ज्ञापयति नवेत्येकः प्रश्नः । द्वितीयस्तु 'ज्ञानं ज्ञानान्तरसंवेद्य'मिति परप्रकाशपक्षधराणां मते', ज्ञानं यदा ज्ञानान्तरेण गृह्यते, तदा तेन ज्ञानान्तरेण किं तज्ज्ञाननिष्ठे प्रामाण्या
९. यद्यपि मीमांसक - प्रभाकराणां मतेऽयथार्थज्ञानस्याऽस्वीकारः, सर्वेषामपि ज्ञानानां तन्मते प्रमाणात्मकत्वात् । तथाऽपि स्मृतिप्रमोष-भेदाग्रह-विबेकाख्यात्यादिप्रक्रियाया अवलम्बनेन भ्रमात्मकज्ञानस्य साङ्गत्यं तु ते कुर्वन्त्येव ।
२. आर्हताः, सौत्रान्तिका योगाचाराश्च बौद्धाः, प्राभाकराः, शङ्कराचार्यानुयायिनः - इत्येतेषां मते ज्ञानं स्वप्रकाशम् । तन्नाम ज्ञानं स्वसंवेदनेनैव गृह्यते ।
३. ज्ञानं स्वविषयस्य बोधने एव समर्थम् । न तु तत् स्वमपि ज्ञापयति । ज्ञानस्य ग्रहणार्थं त्वन्यदेव ज्ञानमावश्यकमिति स्वीकर्तारो नैयायिका मुरारिमिश्राः कुमारिलभट्टा - इत्यादयः परप्रकाशवादिनः ।
६३
Page #71
--------------------------------------------------------------------------
________________
ऽप्रामाण्ये अपि गृह्येते उत नेति । सङ्क्षपेणोच्यते चेद, ज्ञानस्य ग्रहणं यदा जायते (भवतु तत् स्वसंवेदनतः परसंवेदनतो वा), तदैव तन्निष्ठे प्रामाण्या-ऽप्रामाण्ये अपि स्वाभाविकतया गृह्येते, आहोस्वित् तद् ग्रहणं ज्ञानग्रहणानन्तरं क्रियान्तरसापेक्षं भवति ? दार्शनिकपरिभाषायां स्वाभाविकं सहभावि ग्रहणं 'स्वतः', क्रियान्तरमपेक्ष्य जायमानं ग्रहणं च 'परतः' उच्यते । अपि च तद् ग्रहणं कथं भवतीति विषयमधिकृत्य जायमानो विमर्शः 'प्रामाण्यवादः' कथ्यते ।
वस्तुतः प्रामाण्यवादचर्चा द्विधा भवति । एकः प्रकारस्तु यथोपरि दर्शितस्तथा प्रामाण्यस्याऽप्रामाण्यस्य वा ग्रहणमधिकृत्य । द्वितीयस्त्वित्थम् - ज्ञाने प्रामाण्यमप्रामाण्यं वा कुत उत्पद्यते इति विषये दार्शनिकानां नानाविधानि मन्तव्यानि सन्ति । तत्र केषाञ्चिन्मते ज्ञानसामान्यस्य जनिका या कारणसामग्री भवति, सैव तत्तज्ज्ञाननिष्ठस्य प्रामाण्यस्याऽप्रामाण्यस्य वा जनने पर्याप्ता भवति । एवं च प्रामाण्यमप्रामाण्यं वा स्वोत्पत्तौ ज्ञानजनकसामग्रीमतिरिच्य कारणान्तरनिरपेक्षत्वात्, स्वाभाविकतयोत्पद्यमानं (-स्वतः) कथ्यते । अतो विरुद्धतया प्रामाण्या-ऽप्रामाण्ययोः 'परत' उत्पत्तिमङ्गीकर्तार आचार्या ज्ञानजनकसामग्रीमविशिष्टज्ञानजनिकां कथयन्ति । एतेषां मते तत्तज्ज्ञाने प्रामाण्या-ऽप्रामाण्यरूपं वैशिष्ट्यं कारणगतगुण-दोषमपेक्ष्यमुत्पद्यते, न स्वाभाविकं तत् तत्र सम्भवति ।
प्रकारद्वयविश्लेषणार्थं ग्रहणचर्चा 'ज्ञप्तौ प्रामाण्यवादः' उत्पत्तिचर्चा च 'उत्पत्तौ प्रामाण्यवाद' इत्यभिधीयते ।
साधारणतः प्रामाण्यवाद-सम्बन्धिन्यौ इमे चर्चे परस्परमवलम्बिते इत्यतः, उत्पत्तौ 'स्वतस्त्व'स्वीकर्तारो ज्ञप्तावपि स्वतस्त्वमेव समर्थयन्ति, 'परतः'पक्षधरास्तूभयत्र परतस्त्वम् । अपवादास्त्वत्राऽपि सन्त्येव, परं स्वल्पाः ।
मूलत: चर्चेयमीश्वरस्य सिद्धिमधिकृत्य प्रवर्तते स्म । तत्राऽपि सा शब्दप्रमाण एव सीमिताऽऽसीत् । नैयायिका ईश्वरसिद्ध्यर्थमेवोत्पत्तौ ज्ञप्तौ चोभयत्र परतः प्रामाण्यं स्वीकुर्वन्ति स्म । तेषां कथनमासीद् यद् वक्तृगत-यथार्थज्ञानात्मकगुणत एव, वक्तृप्रयुक्त-वाक्यजन्ये बोधे प्रामाण्यमुत्पद्यते न तु स्वतस्तत् सम्भवति । अर्थात् श्रोतरि जायमानो बोधो यदि प्रमात्मकस्तहि तस्मिन् प्रामाण्यस्य जनकरूपेण वाक्यस्य वक्तरि यथार्थज्ञानस्याऽस्तित्वं स्वीकरणीयमेव, अन्यथा वक्तृगताऽयथार्थज्ञानात्मकदोषहेतुतो वाक्यजन्यो बोधोऽप्रमात्मकोऽपि भवेत् । इत्थं च वाक्यसामान्यस्य प्रमाप्रमोभयात्मकबोधस्य जनकत्वेऽपि, एकस्मिन् बोधे प्रामाण्या-ऽप्रामाण्यान्यतरदेव जायते, तत्र वक्तृगतो गुणो दोषो वैव हेतुभूतः । अथ च वेदजन्यबोधोऽपि प्रमाणभूतः । ततस्तत्र प्रामाण्यस्य जनकतया यथार्थज्ञानात्मक-गुणस्याऽस्तित्वं स्वीकरणीयमेव, तच्च सर्वव्यापि यथार्थज्ञानं नेश्वरमतिरिच्याऽन्यत्र सम्भवतीति, वेदजन्यबोधनिष्ठप्रामाण्यजनकयथार्थज्ञानस्याऽऽश्रयतयेश्वरः सिद्ध्यति ।
१. यथा जैनमते उत्पत्ती परत:पक्षस्यैव स्वीकारेऽपि, ज्ञप्तौ कथञ्चित् स्वतःपक्षस्याऽपि समादरः ।
६४
Page #72
--------------------------------------------------------------------------
________________
तथैव वाक्यजन्यबोधनिष्ठस्य प्रामाण्यस्य ग्रहणमपि "इदं वाक्यं यथार्थज्ञानिनाऽऽप्तपुरुषेण प्रणीतमिति प्रमाणभूत"मितिविचारणातो जायते, न तु स्वतः । अतो वेदजन्यबोधगतं प्रामाण्यमपि यथार्थज्ञानवदाप्तपुरुषप्रणीतत्वेनैव निश्चीयते । ततश्च वेदप्रणेतृ-यथार्थज्ञान्याप्तपुरुषत्वेनाऽपीश्वरसिद्धिः ।
इत्थमादौ तु नैयायिकानां मते ईश्वरसिद्ध्यर्थं शब्दप्रमाणे एवोभयतः (-उत्पत्तौ ज्ञप्तौ च) परतः प्रामाण्यस्याऽऽदर आसीत् । किन्तु क्रमेण तैः सिद्धान्तस्थापनदृष्ट्या सर्वेष्वपि प्रमाणेषु परतः प्रामाण्यस्य पक्षः स्थिरीकृतः ।
अस्य विपक्षत्वेन, मीमांसका वेदमपौरुषेयम् (-अकर्तृकं) मन्यन्ते स्म । न च तेषां मते ईश्वरस्याऽप्यस्तित्वम् । ततस्ते शब्दप्रमाणे उत्पत्तौ ज्ञप्तौ वा परतः प्रामाण्यमुरीकर्तुं न क्षमन्ते स्म । अतस्तैः स्वत एव प्रामाण्यं स्वीकृतम् । अर्थात् तेषां मते "वेदा यथार्थज्ञानिनाऽऽप्तपुरुषेण प्रणीता अतो प्रमाण"मिति विचारणातो वेदप्रामाण्यं न गृह्यते । किं तहि ? वेदाः प्रमाणत्वेन स्वयं प्रतिष्ठिताः । न च तत्प्रामाण्यं तत्कर्तृगतयथार्थज्ञानसापेक्षम्, अपौरुषेयत्वेन तस्याऽभ्युपगमतस्तस्याऽकर्तृत्वात् । एवं च प्रामाण्यस्य वेदेषु स्वयंसिद्धत्वाद् न तस्योत्पत्त्यर्थं तस्य ग्रहणार्थं वा यथार्थज्ञानवत्त्वस्याऽऽप्तत्वस्य वाऽऽवश्यकत्वं, न च तदाश्रयतयेश्वरसिद्धिरित्यभिसन्धिः ।
अग्रे तु मीमांसादर्शने सर्वेष्वपि शाब्दबोधेषु, ततोऽपि सर्वेष्वपि प्रमाणेषु स्वतःप्रामाण्यमभ्युपगमनीयमभवत् । क्वचित् स्वतः प्रामाण्यं, क्वचिच्च परतः - इत्यभ्युपगमस्त्वस्याद्वादिनां मीमांसकानां दर्शने न सम्भवत्येवेति, एकत्र स्वतः प्रामाण्येऽभ्युपगते, सर्वत्र स्वतः प्रामाण्यमेवेति तेषां सिद्धान्तो जातः । ___ यथोपदर्शितमादौ चर्चेयं नैयायिक-मीमांसकयोमिथ एव प्रवर्तिता । परमग्रेतनकाले क्रमशोऽन्यदार्शनिकैरप्यस्मिन् विषये स्वमन्तव्यनिदर्शनं तद्द्वारा चर्चायां भागग्रहणं च विधेयमभवत् । भारतीयतत्त्वज्ञानपरम्परायां प्रामाण्यवादसम्बन्धि विस्तृतं विपुलं च साहित्यमुपलभ्यते तदस्यैव फलम् । अस्मिन् साहित्य न्यायवार्तिकगतायाः सरलायास्तर्कसरणेरारभ्य गदाधरभट्टाचार्याणां जटिलं तर्कजालं यावदन्तर्भवति । अद्याऽपि च तत्सम्बन्धि नूतनं साहित्यं सृज्यमानमेव वर्तते ।
अस्य समग्रस्य साहित्यस्याऽऽकलनेन प्रामाण्यवादे प्रधानतः पञ्च पक्षा अवगम्यन्ते । तथाहि - १. प्रामाण्यमप्रामाण्यं चोभयं स्वतः - साङ्ख्यदर्शनम् २. प्रामाण्यं स्वतोऽप्रामाण्यं च परतः - मीमांसा (पूर्वोत्तरा च)
१. प्रमाणत्वाप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिताः ।
नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥ प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः । प्रमाणत्वं स्वतः प्राहुः परतश्चाऽप्रमाणताम् ॥
- सर्वदर्शनसङ्ग्रहः (-माधवाचार्यः)
६५
Page #73
--------------------------------------------------------------------------
________________
३. प्रामाण्यमप्रामाण्यं चोभयं परतः - न्याय-वैशेषिकदर्शने ४. प्रामाण्यं परतोऽप्रामाण्यं च स्वतः - प्राचीनबौद्धाः
५. अनियमितपक्षः - आर्हता नव्यबौद्धाश्च अत्र पञ्चानामपि पक्षाणां विषये क्रमशो विमृश्यते -
१. प्रामाण्यमप्रामाण्यं चोभयं स्वतः - साङ्ख्याचार्यैः पक्षोऽयमभ्युपगत इत्युल्लेखा माधवाचार्यरचित-सर्वदर्शनसङ्ग्रहः, कुमारिलभट्टप्रणीत-श्लोकवार्तिकम् - इत्यादिषु यद्यपि दृश्यन्ते; तथापि मतस्याऽस्य हार्द, तर्काः, प्रमाणानि - इत्यादिसम्बन्धिनः साहित्यस्याऽभावे न तस्य विमर्शः शक्यः ।
__ अत्र कल्पनैकोद्भवति यत् साङ्ख्यदर्शनं सत्कार्यवाद्यस्ति । अतस्तस्य मते सर्वमपि कार्य स्वोपादानीभूते कारणे प्रथमतः; प्रच्छन्नतया विद्यमानमेव भवति, सहकारीभूतैः कारणैः केवलं तस्य प्रादुर्भाव एव भवति । अथ च प्रामाण्या-ऽप्रामाण्ये अपि कार्यात्मकधर्मावेव । ततस्तयोरपि तदुपादानकारणे स्वोत्पत्तेः पूर्वमपि विद्यमानत्वमेवाऽङ्गीकरणीयम् । इत्थं च तयोरपि स्वत एव उत्पत्तिः (-प्रादुर्भाव:), न परतः । किन्त्विदं कल्पनामात्रं, वास्तवमन्यदपि सम्भवेत् ।
___ एवं चार्वाक-योगदर्शनयोरप्यस्मिन् विषये कीदृशं मन्तव्यमिति न ज्ञायते । परं वैशेषिकाणामस्मिन् विषये स्वकीयमन्तव्यस्याऽनुपलब्धावपि, नैयायिकैः प्रायः समानतन्त्रत्वात् तेषां यथा परतःप्रामाण्यवादित्वमननं, तथैव योगदर्शनस्य स्वसमानतन्त्रेण साङ्ख्येन सदृशमेव मन्तव्यं स्यादिति मनने नाऽऽपत्तिर्भासते ।
२. प्रामाण्यं स्वतोऽप्रामाण्यं च परतः - पूर्वमीमांसोत्तरमीमांसयोर्मते ज्ञानोत्पत्तेर्ज्ञानग्रहणस्य च प्रक्रियायां परस्परं विभेदेऽपि प्रामाण्यवादे उभयोरप्यैकमत्यम् । तन्नामोभयमते प्रामाण्यमुत्पत्तिप्तिरित्युभयत्र स्वतोऽप्रामाण्यं चोभयत्र परतः स्वीकृतमस्ति ।।
उत्पत्तौ प्रामाण्यस्य स्वतस्त्वं नाम ज्ञानसामान्यस्य जनिका या साधारणा कारणसामग्री भवति, ततो ज्ञानेन सहैवोत्पद्यमानत्वं, कारणान्तरस्य स्वोत्पत्तौ चाऽनपेक्षत्वम् । अर्थाद् ज्ञानजनिका सामग्री प्रमाया एव जनिका भवति, तथा ज्ञानमात्रे प्रामाण्यं स्वतोनिष्ठं भवति । अप्रामाण्ये तु नैवम् । तत्तु स्वोत्पत्तौ ज्ञानजनकसामग्रीमतिरिच्य कारणगतदोषानप्यपेक्षते, यतो दोषयुक्तैव कारणसामग्र्यप्रमोत्पादिका । एवं प्रामाण्यं निरपेक्षत्वात् स्वतोऽप्रामाण्यं च परापेक्षत्वात् परतः ।
१. अस्या विचारणायाः परम्पर्येण पोषिकैका युक्तिः सन्मतितर्कवृत्तावन्यत्र (पृ.४, पं.९) दृश्यते । तत्र मीमांसकैः स्पष्टीकृतं "न वयं सत्कार्यवादसमाश्रयणात् स्वतःप्रामाण्यवादिन" इति । अनेन ज्ञायते यत् सत्कार्यवादः स्वतःप्रामाण्यसाधकः।
२. उत्पत्तौ प्रामाण्यस्य स्वतस्त्वं नाम कार्यकारणादेव कार्येण सहोत्पत्तिः -अथर्वभाष्यम्
Page #74
--------------------------------------------------------------------------
________________
अत्र मते समस्यैकोद्भवितुमर्हति । चक्षुर्गतं नैर्मल्यं, धातूनां समत्वं, मनसः स्वास्थ्यम्, इन्द्रियाणां पटुत्वमित्यादयः गुणाः प्रमाणभूतस्य ज्ञानस्य जनकहेतव इति लोकशास्त्रोभयसम्मतम् । स्वतःप्रामाण्यवादिभिस्तु प्रामाण्यस्योत्पत्तौ ज्ञानसामान्यजनकसामग्र्यतिरिक्तस्य निरपेक्षत्वमङ्गीकृतम् । ततश्च गुणेषु प्रामाण्यजनकत्वाभाव एव प्रतिपादितो भवतीति कथं न विरोध इति ?
इत्थमत्र समाहितं स्वतःप्रामाण्यपुरस्कर्तृभिः न वयं गुणानां प्रामाण्यजनने सहभागित्वमपलपामः । गुणत्वेन परिचितानां तत्त्वानां प्रामाण्यजनकताया निषेधे नैवाऽस्माकं मतिः । किं तर्हि ? येष्वधिकरणेषु यानिं तत्त्वानि 'गुण' पदेन सङ्केतितानि भवन्ति, तानि तत्तदधिकरणानां स्वाभाविक्यवस्थैव, न पृथग् धर्मान्तरम् । तथाहि - चक्षुषि समलताऽऽगन्तुकधर्मः, ततश्च तमागन्तुकधर्मं 'दोष' रूपेण परिगणय्य तज्जनितमप्रामाण्यं 'परत' उच्यते । परं नैर्मल्यं तु चक्षुषः स्वकीयो धर्मः, नाऽऽगन्तुकः, यत् तस्याऽपेक्षणं 'परत' उच्येत । एवमेव ज्ञानजनककारणनिष्ठानि यानि तत्त्वानि 'गुण' पदेनाऽभिधीयन्ते तानि सर्वाण्यपि तत्तत्कारणांनां स्वरूपे एव समाविष्टानि, नौपाधिकानि । ततो ज्ञानजनकसामग्र्यन्तर्निहितेभ्यो गुणेभ्यो जायमानं प्रामाण्यं, स्वाधारीभूते ज्ञाने 'स्वत' एवोत्पद्यमानं कथ्यते; ज्ञानजनकसामग्रीव्यतिरिक्तेभ्यो दोषेभ्यो जायमानमप्रामाण्यं च 'परत' उत्पद्यमानमिति ।
-
उत्पत्तौ प्रामाण्यस्य स्वतस्त्वकल्पने युक्त्यन्तरमित्थम् - ज्ञाननिष्ठाऽर्थस्य यथावस्थितबोधजनिका शक्ति: 'प्रामाण्य'मुच्यते । शक्तयश्च सर्वभावानां स्वत एव भवन्ति । नोत्पादककारणकलापस्याऽधीनत्वं सम्भवति । यथा मृत्पिण्डे विद्यमाना रूपादयो मृत्पिण्डादुपजायमाने घटेऽपि मृत्पिण्डरूपादिद्वारेणोप जायन्ते । घटनिष्ठा जलधारणशक्तिस्तु स्वत एव तत्र प्रादुर्भवति, न मृत्पिण्डादिकारणसमूहतः, तस्यास्तत्रा ऽभावात्। एवमेव ज्ञाननिष्ठाऽर्थस्य यथावस्थितबोधजनिका शक्तिश्चक्षुरादिषु ज्ञानोत्पादककारणेष्वविद्यमाना स्वत एवोत्पद्यमानाऽभिधीयते इति ।
३
प्रामाण्यस्य ज्ञप्तौ स्वतस्त्वं नाम स्वाश्रयीभूतस्य ज्ञानस्य ग्राहकेण ग्राह्यत्वम् । अर्थात् प्रमात्मकज्ञानस्य स्वसंवेदनेन (-प्रभाकरमते), अनुव्यवसायेन (-मुरारिमिश्रमते), ज्ञाततालिङ्गकयाऽनुमित्या (-कुमारिलभट्टमते), साक्षिज्ञानेन (-वेदान्तिमते) वा यदा ग्रहणं जायते, तदैव तज्ज्ञानगतं प्रामाण्यमपि गृह्यते एवेति । इदं सर्वज्ञानेषु समानम् । तेन ज्ञानं प्रमात्मकं स्याद् भ्रमात्मकं वा, परं प्रारम्भे तु तद् निरपवादत्वेन प्रमाणभूतमेव ज्ञायते । अग्रे तु भ्रमात्मकस्थले प्रत्यक्षान्तरेण ज्ञानप्रवर्तितप्रवृत्तिवैफल्येनाऽऽप्तवचनेन वा तस्य भ्रान्तत्वावगमे प्रारम्भिकी प्रामाण्यबुद्धिर्निवर्तते, अप्रामाण्यस्य च भानं जायते । अन्यथा तत्र
१. न चेन्द्रियनैर्मल्यादि गुणत्वेन वक्तुं शक्यम्, नैर्मल्यं हि तत्स्वरूपमेव, न पुनरौपाधिको गुणः । तथाव्यपदेशस्तु दोषाभावनिबन्धनः । - सन्मतितर्कवृत्तिः
२. मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते ।
उदाहरणे तस्य तदपेक्षा न विद्यते ॥
सन्मतितर्कवृत्तावुद्धृतः
३. "ज्ञप्तौ स्वतस्त्वं नाम ज्ञानग्राहकमात्रग्राह्यत्वम् । येन ज्ञानं गृह्यते तेनैव तद्गतं प्रामाण्यमपि गृह्यते इति "
- प्रमाणपद्धतिः परि. १
६७
Page #75
--------------------------------------------------------------------------
________________
१
प्रामाण्यबुद्धिरेवाऽनुवर्तते । एवं च प्रामाण्यबोधः स्वाभाविको ज्ञानान्तरनिरपेक्षश्च, अप्रामाण्यबोध: पुनर्ज्ञानान्तरसापेक्षत्वेनाऽस्वाभाविक इति ।
अयमत्राऽऽशयः - ज्ञाने प्रामाण्यनिश्चयेऽसति न तज्ज्ञानप्रवर्तिता पुरुषस्य प्रवृत्तिः । तथाहि – “मम अयं घट इति ज्ञानं प्रमाणभूत" मिति निश्चयो यावन्नोद्भवति, न तावत् तज्ज्ञानप्रवर्तिता पुरुषस्य घटविषयिकी प्रवृत्तिः सम्भवति, प्रवृत्तिवैफल्यभयात् ! निश्चयश्चाऽयं स्वतः प्रामाण्यस्य ग्रहणे एव सम्भवी । यतो ज्ञानप्रवर्तितायाः क्रियाया अनन्तरमेव तत्साफल्येन, ज्ञानगतप्रामाण्यस्याऽनुमानेन निश्चय इत्याग्रहे, प्रवृत्तेरेवाऽसम्भव इति ज्ञानमात्रे पूर्वं प्रामाण्यस्य निश्चयः, ततश्च तज्ज्ञानद्वारा पदार्थप्रकाशनेन पुरुषस्य प्रवृत्तौ प्रवर्त्तनम्, ततश्च प्रवृत्तेः संवादित्वे सति ( - ज्ञानक्रिययोरविरोधे, ज्ञानानुरूपमर्थस्योपलब्धाविति यावत्), पूर्वगृहीतस्य प्रामाण्यस्य पुष्टिः, प्रवृत्तेर्विसंवादित्वे च (ज्ञानानुरूपमर्थस्याऽनुपलब्धौ ) प्रामाण्यबोधस्य निवर्तनमप्रामाण्यस्य च ग्रहणमिति प्रक्रिया |
केषाञ्चिज्ज्ञानानामुत्पत्त्यनन्तरम् 'इदं प्रमा स्यादप्रमा वेति संशयोत्पत्तिरनुभवसिद्धा । सर्वत्र स्वत: प्रामाण्यग्रहे न सा सम्भवतीत्यत्राऽऽशङ्कोद्भवितुमर्हति । स्वतः प्रामाण्यवादिभिरस्या निराकरणार्थं ज्ञप्तेर्लक्षणे ‘दोषाभावे सतीत्यपि समावेशितम् । तथा च दोषाणां सत्त्वे स्वतः प्रामाण्यनिश्चयस्याऽभाव एवाऽभ्युपगतः । अथ च संशयो दोषाणां सत्त्वे एव भवतीति यत्र संशयस्तत्र 'दोषाभावे सती' त्यंशस्याऽ पूरणात् तत्र स्वतः प्रामाण्यस्य ज्ञप्तेः सम्भावनैव नाऽस्तीति नाऽऽपत्तिरिति ।
तत्र प्रभाकरगुरूणां मते सर्वं ज्ञानं स्वप्रकाशकमिति स्वसंवेदनेन ज्ञानस्य ग्रहः । मुरारिमिश्राणां मते ज्ञानं स्वसमनन्तरजन्येन मानसप्रत्यक्षेण ( - अनुव्यवसायेन गृह्यते । कुमारिलभट्टास्तु ज्ञानमतीन्द्रियं स्वीकुर्वन्तीति तेषां मते ज्ञानविषयीभूतेऽर्थे या तज्ज्ञानजन्या ज्ञाततोद्भवति, तया तज्ज्ञानमनुमीयते । वेदान्तिनस्तु साक्षिज्ञानेन वृत्तिज्ञानग्रहणमाहुरिति प्रस्थानानां नानात्वेऽपि ज्ञानग्रहणेन साकमेव तज्ज्ञाननिष्ठस्य प्रामाण्यस्याऽपि स्वाभाविकं ग्रहणमित्यत्र सर्वेषामैकमत्यम् ।
३. अप्रामाण्यं स्वतः प्रामाण्यं च परतः - बौद्धदर्शनस्येदं प्राचीनं मतं माधवाचार्याणां सर्वदर्शनसङ्ग्रहे, श्चेरबात्स्कीवर्यस्य 'बुद्धिस्ट लाजिक्' इत्यत्र (पृ. ६६), आचार्य - नरेन्द्रदेवस्य 'बौद्ध धर्मदर्शन' पुस्तके (पृ. ५९१) चोल्लिखितमस्ति । मतेऽस्मिन् सर्वज्ञानेषु प्रामाण्यव्यभिचारस्य सम्भवः । ततश्च ज्ञानमात्रे तद्ग्रहेणन साकं तन्निष्ठाप्रामाण्यस्याऽपि स्वाभाविकं ग्रहणं, 'इदं ज्ञानं प्रमाऽप्रमा वेति संशयोत्पत्तिश्च । पश्चात्काले ज्ञानजनककारणनिष्ठगुणानां भाने, ज्ञानप्रवर्तितप्रवृत्तेः संवादित्वे, आप्तवचनोपलम्भे
१. प्रामाण्या-प्रामाण्याश्रयीभूतज्ञानग्राहकं यद् ज्ञानं तदतिरिक्तं ज्ञानमंत्र ज्ञानान्तरत्वेनाऽभिप्रेतम् । तेन प्रामाण्यस्य ज्ञप्तौ ज्ञानग्राहकज्ञानस्याऽऽवश्यकत्वेऽपि न क्षतिः ।
२. “स्वतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् । न चैवं प्रामाण्यसंशयानुपपत्तिः । तत्र संशयानुरोधेन दोषस्याऽपि सत्त्वेन दोषाभावघटितस्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाऽग्रहात् "
वेदान्तपरिभाषा - अनु० परि०
६८
Page #76
--------------------------------------------------------------------------
________________
वा स्वतो गृहीतस्याऽप्रामाण्यस्य निवृत्तिः, प्रामाण्यबोधस्य चोत्पत्तिः । अन्यथाऽप्रामाण्यबोधस्य तादवस्थ्यमेव । इत्थमप्रामाण्यस्य स्वाभाविको निश्चयः, प्रामाण्यस्य च ज्ञानान्तरसापेक्ष: ( - परत) इति ।
न प्रामाण्यनिश्चयः, प्रत्युत प्रामाण्यसंशयः प्रवृत्तेर्जनक इतीह मुख्यमालम्बनं ज्ञायते । किञ्च, नव्यबौद्धैः प्राय आर्हतमतस्य प्रभावेनाऽनियमितपक्षोऽङ्गीकृत इति सम्भावनाऽपि भासते ।
४. प्रामाण्यमप्रामाण्यं चोभयं परत: - नैयायिकानां (समानतन्त्रत्वेन च वैशेषिकाणामपि) मते प्रामाण्यमप्रामाण्यं चोभयमप्युत्पत्तिर्ज्ञाप्तिश्चेत्युभयत्र परतः ।
उत्पत्तौ परतस्त्वं नाम ज्ञानसामान्यजनिका या कारणसामग्री तदतिरिक्तं यत् कारणं तज्जन्यत्वम् । ज्ञानसामान्ये यथार्थत्वा-ऽयथार्थत्वरूपं वैशिष्ट्यं क्रमशो गुण-दोषसापेक्षं, न स्वतः ।
अयमत्राऽभिसन्धिः - अनुभवोत्पादकानि कारणानि नाऽनुभवगतयथार्थत्वस्य जनकानि, तथा सति सर्वेषामप्यनुभवानां यथार्थत्वापत्तेः । न चैवम्, अनुभवेषु यथार्थत्वा ऽयथार्थत्वयोरनुभवसिद्धत्वात् । तज्ज्ञायते यदनुभवनिष्ठयथार्थत्वस्य जनकत्वं नाऽनुभवोत्पादककारणेषु, प्रत्युताऽनुभवोत्पादककारणव्यतिरिक्तमेव किञ्चिद् याथार्थ्यजनकम् । किं तदिति चेत् ? अनुभवोत्पादककारणसामग्रीनिष्ठगुणाख्यं तत्त्वमिति । एवं च तदपेक्ष्योत्पद्यमानं प्रामाण्यं न स्वाभाविकं, न सार्वदिकं, न सार्वत्रिकं च, किन्त्वपेक्ष्यगुणास्तित्वेन तस्य नियम्यत्वादस्वाभाविकत्वमेव तस्य । इदमेव प्रामाण्यस्योत्पत्तौ परतस्त्वम् । दोषापेक्षस्याऽप्रामाण्यस्य परतस्त्वं तु पूर्वं चर्चितमेव ।
स्वत:प्रामाण्यवादिनो गुणान् दोषाभावरूपान् कारणस्य स्वरूपेऽन्तर्भूतान् वा परिगणयन्ति । नैयायिकानां तद्विपक्षतया कथनमित्थम् - दोषरूपेण सम्मतानां तत्त्वानां यथा न कारणस्वरूपान्तर्भूतत्वं गुणाभावत्वं वा, यथा च तेषां स्वतन्त्रमस्तित्वं; तथैव गुणानामपि न कारणस्वरूपान्तर्भूतत्वं दोषाभावरूपत्वं वा, तेषामपि च स्वतन्त्रमस्तित्वम् । कादाचित्कत्वस्योभयत्राऽपि समानत्वादेकतरस्य स्वाभाविकत्वमन्यतरस्यौपाधिकत्वं
युक्तिहीनम् । लोकेऽपि " मम चक्षुषी प्राक् सदोषे अभूतामिदानीमासादितगुणे सञ्जाते" इत्यादिप्रयोगेषु चक्षुर्नैर्मल्यादीनां न दोषाभावरूपेण किन्तु गुणरूपेणाऽभ्युपगमः । सङ्क्षेपेणोच्यते चेत् कारणानां स्वाभाविकं रूपं ं ज्ञानसामान्यजनने सहभागि भवति । ज्ञाननिष्ठे याथार्थ्या याथार्थ्ये चाऽनुक्रमेण गुणदोषसापेक्षे, न स्वाभाविके इत्येव तयोः परतस्त्वमिति ।
प्रत्यक्षस्थले विशेषणवता विशेष्येण सममिन्द्रियसन्निकर्षो गुणः । अनुमितौ व्यापकवति व्याप्तिप्रतिबद्धस्य व्याप्यस्य ज्ञानं गुणः । उपमितौ यथार्थसादृश्यादेर्ज्ञानं गुणः । शाब्दबोधे तात्पर्यज्ञानं गुणः । एवमन्येऽपि बहवो गुणाः सम्भवन्ति । तत्तत्स्थले एषामभावो वैपरीत्यं वा दोष इति ।
१. "उत्पत्तौ परतस्त्वं नाम ज्ञानकारणातिरिक्तकारणजन्यत्वम्"
२. "दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् " - सिद्धान्तमुक्तावली - ३१ ३. द्रष्टव्यं न्यायसिद्धान्तमञ्जरीप्रकाशः-४
प्रमाणचन्द्रिका - परि० १
६९
Page #77
--------------------------------------------------------------------------
________________
'शक्तयश्च सर्वभावानां स्वत एव भवन्ती'ति मीमांसकानां प्ररूपणायाः प्रतिवादे नैयायिकाः कथयन्ति यत् तत्तत्पदार्थे तत्तच्छक्तेर्नियम एव सूचयति शक्तेः कारणसापेक्षत्वम् । शक्तीनां स्वतस्त्वे तु सर्वत्राऽपि सर्वा एव शक्तयः सम्भवेयुरित्यनायत्या शक्तिरूपं प्रामाण्यमपि स्वोत्पत्तौ कारणसापेक्षमङ्गीकर्तव्यम् । तथा च तत् परत एव । किञ्च, अप्रामाण्यमपि भ्रमात्मकज्ञानगता पदार्थस्याऽयथावस्थितबोधजनिका शक्तिरेव । शक्तीनां स्वतस्त्वमनने तदपि स्वत एव स्यात् । न च तद् मीमांसकादिस्वतःप्रामाण्यवादिनां सम्मतमिति, अप्रामाण्यवत् प्रामाण्यस्य शक्तिरूपत्वेऽपि परतस्त्वमेवाऽभ्युपगन्तव्यमिति ।
इदानीं प्रामाण्या-ऽप्रामाण्ययोर्शप्तौ परतस्त्वं चिन्त्यते । अस्य भावार्थस्तु ज्ञानस्य ग्रहणेन सह नैव तद्गतं प्रामाण्यमप्रामाण्यं वा गृह्यते, किन्तु ज्ञानग्रहणानन्तरं ज्ञानान्तरेण तस्याऽनुमितिर्जायते ।
-
१
अयमत्राऽऽशयः - अनुभवस्याऽनन्तरमनुभवाश्रिता प्रवृत्तिर्भवति । प्रवृत्तेः साफल्ये च तत्प्रवर्तकेऽनुभवे यथार्थत्वस्याऽधिगतिः । प्रवृत्तेविफलतायां चाऽयथार्थत्वस्य । एवमनुभवस्योत्पत्तावेव न किल तद्गतप्रामाण्या-ऽप्रामाण्ययोर्ग्रहणं, किन्तु प्रवृत्तिफललिङ्गकानुमानगम्यत्वं तयोरिति परतस्त्वम् । यद्यप्यनभ्यासदशोत्पन्नज्ञाने एव प्रामाण्या - ऽप्रामाण्यानुमित्यर्थं प्रवृत्तेरपेक्षणम्, अभ्यासदशायां तु पूर्वज्ञानसादृश्यमवलम्ब्य प्रवृत्तेः पूर्वमपि प्रामाण्या - ऽप्रामाण्यानुमानस्य सम्भवोऽस्त्येवं, परं प्रामाण्यऽप्रामाण्यग्रहणमनुमानेनैव भवत्युभयत्रेति परतस्त्वं निश्चप्रचम् ।
प्रामाण्यसंशयोऽपि प्रवृत्तिजनकः, संवादात्मकप्रवृत्तिजननयोग्यत्वमेव ज्ञाननिष्ठं प्रामाण्यं, सर्वत्र स्वतः प्रामाण्यग्रहे प्रामाण्यसंशयानुपपत्तिरित्यादयोऽस्य पक्षस्य प्रमुखाः सिद्धान्ताः ।
५. अनियमितः पक्षः - प्राचीनबौद्धैः प्रतिपादितस्य मतस्य निरूपणमस्माभिर्दृष्टम् । नव्यबौद्धैस्तु तद् मतं त्यक्त्वा नूतनं मतं स्वीकृतम् । अस्य मतस्य निरूपणं कुर्वता बौद्धाचार्य - शान्तरक्षितेन तत्त्वसङ् ग्रहपञ्जिकायां (श्लोक-२८१०-११) पूर्वोक्तान् चतुरोऽपि पक्षान् निरस्याऽनियम एव स्थिरीकृतः । अस्य मतस्य विवरणे आचार्यकमलशील उल्लिखति (तत्त्व. पं. श्लोक ३१२२ वृत्तौ ) यत् " न हि बौद्धैरेषां चतुर्णामेकतमोऽपि पक्षोऽभीष्टः, अनियमपक्षस्येष्टत्वात् । तथाहि - उभयमप्येतत् किञ्चित् स्वतः किञ्चित् परत इति” । इह यद्यपि स्वतस्त्व - परतस्त्वयोर्विषयविभागो न दर्शितस्तथापि सन्मतितर्कवृत्तौ प्रामाण्यवादे ध्वनिश्रवणं, चित्रालिखितरूपदर्शनं, गन्धरसस्पर्शबुद्धयः, पदार्थानां तत्तत्कार्येषु व्यापारणमित्यादिज्ञानानामर्थक्रियानुभवरूपत्वात् स्वतः सिद्धं प्रामाण्यमित्याशयो बौद्धानां लक्ष्यते । अभ्यासदशोत्पन्नप्रत्यक्षेष्वनुमानेषु
१. “प्रामाण्यं हि समर्थप्रवृत्तिजनकत्वादनुमेयम्" - न्यायवार्तिकतात्पर्यवृत्तिः १.१.१
२. " अभ्यासदशापन्नज्ञानेषु द्वितीयतृतीयजलादिज्ञानेषु तु प्रवृत्तेः पूर्वमप्यन्वयव्यतिरेकिणाऽपि पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेन प्रामाण्यमवधार्यते " - तर्ककौमुदी
३. क्वचिदभ्यासदशोत्पन्नज्ञानस्थले द्वितीयानुव्यवसायेनाऽपि प्रामाण्याप्रामाण्यग्रहणं स्वीकृतमस्ति । द्रष्टव्यं तर्कप्रकाशः
- खण्ड ४ ।
४. पृष्ठम् ६८
७०
Page #78
--------------------------------------------------------------------------
________________
चाऽपि स्वतः प्रामाण्यज्ञप्तिस्तैस्तत्राऽनुमोदिताऽस्ति । अत एषु स्थलेषु स्वतोऽन्यत्र च परतः प्रामाण्यग्रह इति तेषां मतं परिज्ञायते । बौद्धैः प्राचीनं स्वमतं त्यक्त्वा कृतेऽनियमितपक्षस्य स्वीकारे प्रथमत एवाऽनियमित पक्षप्रतिपादकस्याऽऽर्हतमतस्य प्रभावः परिलक्ष्यते ।
अधुनाऽत्र जैनमतविचारणा समाद्रियते । प्रामाण्यवादविषयकस्य जैनमन्तव्यस्य सुस्पष्टं निरूपणं प्रमाणनयतत्त्वालोके समुपलभ्यते "तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्च ।” (१.२१) अस्य विवरणं स्याद्वादरत्नाकरव्याख्यायामित्थं दृश्यते - "ज्ञानस्य प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुण-दोषरूपं परमपेक्ष्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतोऽनभ्यासदशायां तु परतः" इति ।
अस्मिन् मते प्रामाण्यनिश्चय एव प्रवृत्तिजनक इत्येकान्तो नाऽस्ति । अनभ्यासदशायां प्रामाण्यसन्देहादपि प्रवृत्तिस्तत्साफल्यवैफल्याभ्यां प्रामाण्या - ऽप्रामाण्यनिश्चयश्च स्वीक्रियेते अत्र |
वस्तुतः प्रामाण्या-ऽप्रामाण्यनिश्चयेऽनेकान्तोऽयमनुभवसिद्धः । क्वचिद् वयं स्वत एव ज्ञानस्वरूपं निश्चिनुमः क्वचिच्च प्रवृत्तेः फलाधारेणेति को वा निषेद्धुमर्हति ? अनुभवसिद्धं सत्यमिदमुपेक्ष्याऽन्यतरपक्षस्याऽऽग्रहस्तु त्याज्य एव । स्वतः प्रामाण्यग्रहणस्यैकान्तेऽनभ्यासदशोत्पन्नज्ञाने प्रामाण्यसंशयो न घटते, परतस्त्वेकान्ते चाऽभ्यासदशोत्पन्नज्ञाने प्रामाण्यस्य स्वतोऽनुभूतेरसम्भवः । दोषयोरनयोर्निवारणार्थं क्रमशः स्वतःप्रामाण्यवादिभिः कृतः 'दोषाभावे सतीति परिष्कारः, परतः प्रामाण्यवादिभिश्चाऽभ्यस्तस्थले प्रवृत्तेर्विनैव स्वतोऽनुमितेः स्वीकार:, 'घट्टकुट्यां प्रभात' मिति न्यायेन प्रामाण्यग्रहणेऽनेकान्तमेव समर्थयतः ।
अत्रेदमपि ध्येयम् - स्वतःप्रामाण्यपक्षधरैर्मीमांसकादिभिः परतः प्रामाण्यवादिभिर्नैयायिकैश्च प्रामाण्यग्रहणे मिथो विपक्षत्वेऽपि, अप्रामाण्यग्रहणे तु परतस्त्वमेवैकान्तेनाऽङ्गीकृतम् । स्याद्वादिनस्त्वत्राऽपि युक्तिपुरस्कृतमनुभवसिद्धं चाऽनेकान्तमुररीकृतवन्तः । अर्थात् तैरप्रामाण्यस्याऽप्यभ्यासदशायां स्वतो ऽनभ्यासदशायां च परतो ज्ञप्तिः स्वीकृतेति ।
प्रामाण्यवादस्य चर्चायामिदं स्मर्तव्यं यत् तत्तद्दर्शनस्य सम्मतेषु सर्वेष्वपि प्रमाणेषु तत्तद्दर्शनेनाऽङ्गीकृत: स्वत:पक्षः परतःपक्षो वा सम्बध्यते, तथाऽपि प्रामाण्यवादस्तु प्रायः प्रत्यक्षप्रमाणे एव केन्द्रितो भवति । अत्र चैवं स्पष्टीकुर्वन्ति परमगुरवः श्रीविजयनेमिसूरयः स्वप्रणीते सन्मतितर्कवृत्तिविवरणे - " यद्यपि प्रमामात्रस्यैव प्रामाण्यमुत्पत्तौ स्वतः परतो वेति विचार्यते । तत्र प्रत्यक्षप्रमाणमधिकृत्य गुणसाधनतद्बाधनप्रकारो नाऽतिसामञ्जस्यमञ्चति । तथापि शिष्यबुद्धिसौकर्याय प्रत्यक्षादिप्रामाण्यविशेषमाश्रित्य द्विचार आदृतः । विशेषे स्वतस्त्व - परतस्त्वान्यतरसिद्धौ तन्न्यायेन सामान्येऽपि तदुपसंहारः कर्तुं शक्य इत्यभिप्राय:..." इति ।
इतो विशेषजिज्ञासुभिः सन्मतितर्कवृत्तिगत - प्रामाण्यवादचर्चाऽवलोकनीया ।
७१
Page #79
--------------------------------------------------------------------------
________________
चिन्तनम्
सङ्कुचितः कः ? मुनिधर्मकीर्तिविजयः
भारतीयसंस्कृतेः कृते, विशेषतो जैनसमुदायस्य च कृतेऽतिगौरवप्रदैषा घटनाऽस्ति । तथैव 'जैन समुदायः सङ्कुचितोऽस्ति, साम्प्रदायिकमानसं च धारयति', इति भ्रमणाभ्रान्तजनेभ्य एकोत्तररूपा सत्या कथाऽस्ति ।
श्रीराजनगरे (अहम्मदावादनगरे) 'हठीभाई वाडी' नामोद्याने शासनसंम्राट्समुदायस्य परमपूज्यतेजोमूर्तिआचार्यवर्य श्रीविजयसूर्योदयसूरीश्वरशिष्यरत्नपरमपूज्याचार्य श्रीविजयशीलचन्द्रसूरीश्वराणां पुण्यनिश्रायां कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्मृतिशिक्षण - संस्कार - निधि - ट्रस्ट इति संस्थया १० - १ - २०१६तमे दिनाङ्के पेरीस(फ्रान्स)निवासिन्यै श्रीमत्यै 'नलिनी बलबीर ' नामविदुष्यै श्रीहेमचन्द्राचार्यचन्द्रकस्य प्रदानं कृतम् । एषा विदुषी पेरीसमहानगरे 'युनिवर्सिटी ओफ सोरबोर्न' इति संस्थायां भारतीयभाषाशास्त्रस्याऽध्यापिकाऽस्ति । सा फ्रान्स - जर्मनी - भारतदेशानां विश्वविद्यालयेषु यथावसरं विविधविषयस्योपरि विद्वत्तापूर्णं. व्याख्यानं कुर्वत्यस्ति । बहुवर्षेभ्यो राजनगरे 'एल. डी. इन्स्टीट्युट ओफ इन्डोलोजी' नामसंस्थायां सा स्वकीयाभ्यासार्थं पुनः पुनरागच्छन्त्यस्ति । ततो विश्वविख्यातयोः श्रीयुतदलसुख मालवणिया-महोदयस्य श्रीयुतहरिवल्लभभायाणी-महोदयस्य च परमप्रीतिपात्रमस्त्येषा विदुषी ।
अस्त्येषा जैनसाहित्यस्य मर्मज्ञा विदुषी । जैनानां बौद्धानां च साहित्यविषये प्राकृत - पालि-संस्कृतगूर्जर - हिन्दीतिभाषायामेतया विदुष्या विविधानि कार्याणि कृतानि सन्ति । एतया विशिष्टजैनकृतीनां फ्रेन्चभाषायामनुवादोऽपि कृतोऽस्ति । एवमेतया विदुष्या धूमकेतु - रा. वि. पाठक - उमाशंकर जोशी - इत्यादीनां साक्षरजनानां कृतीनामपि फ्रेन्च भाषायामनुवादो विहितोऽस्ति । गूर्जरसाहित्यं प्रति तस्याः कियती रुचि: स्यादित्येतदेव सूचयति । तथैव निराला - नागार्जुन - अज्ञेयेतिमहोदयानां हिन्दीभाषीयकृतीनामपि फ्रेन्चभाषायामनुवादोऽकारि विदुष्यैतया । एतयाऽनेके स्वतन्त्रा ग्रन्था रचिताः, बहवः संशोधनलेखाः प्रस्तावनालेखाः समीक्षालेखाश्च लिखिताः सन्ति । तस्या लेखनमतीव लोकप्रियमस्ति तत एव वैश्विकप्रतिष्ठाप्रापकेषु सामयिकेषु तस्या लेखाः प्रकाश्यन्ते । अस्यै विदुष्यै विविधसंस्थाभिर्बहवः पुरस्काराः
७२
Page #80
--------------------------------------------------------------------------
________________
प्रदत्ताः सन्ति ।
एतादृश्या विश्वसन्माननीययाः फ्रान्सदेशीयविदुष्याः सन्मानं भारतदेशे जैनाचार्यप्रस्थापितसंस्थया जैनाचार्यनिश्रायां भवेत्, एतत्तु न केवलं जैनानाम्, अपि तु समग्रभारतदेशस्याऽऽर्यसंस्कृतेश्च गौरवप्रदा घटनाऽस्ति । चन्द्रकप्रदानं तु अनेकाभिः संस्थाभिः क्रियते, किन्तु जैनाचार्यप्रेरणयाऽन्यदेशीयअन्यमतानुयायिविदुष्याः सन्मानं विधीयते, एतत्तु महदाश्चर्यमेवाऽस्ति ।।
सम्प्रदायनिरपेक्षताया इतोऽधिकं श्रेष्ठमुदाहरणं किं स्यात् ? सम्प्रदायनिरपेक्षतायाश्चर्चा सर्वधर्ममान्यसर्वधर्मगुरुभिरग्रणीजनै राजसिंहासनस्थितै राजनेतृभिश्चोच्चैराराटिं कुर्वद्भिः सदा विधीयते, किन्तु कैः क्रियते आचरणम् ? अन्येषां निन्दार्थं स्वप्रशंसार्थं च न लिखामि, अपि तु जैनसमाजो जैनसाधुश्च कीदृशीमुदारदृष्टिं समाचरतीति जनसमाजस्य ज्ञापनार्थमेव लिखाम्यहम् । अद्य सर्वत्र 'जैनाः सङ्कुचिता रूढिवादिनश्च सन्ति, ते जैनमतं विना नाऽन्यत् किमपि स्वीकुर्वन्ती'ति प्रबलमताग्रहोऽस्ति । तेषां मताग्रहिनामेषोत्तररूपा घटनाऽस्ति । एतैर्गुरुभिरेतादृशं नैकमेव कार्यं कृतं किन्तु अद्यावधि एतादृशान्यनेकानि कार्याणि कृतानि सन्ति । तान्यत्र वर्णयामि । ____ अद्य गूर्जरराज्यं संस्कारदृष्ट्या नीतिदृष्ट्या चेति सर्वरीत्याऽतीव समृद्धमस्ति । अस्माकं समीपेऽद्य स्वकीयं व्याकरणमस्ति । एतस्याः सर्वसमृद्धेः कारणमस्ति - एष गुरुः कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यः । एनं गुरुं विना स्वतन्त्रास्तित्वधारकस्य गूर्जरराज्यस्य कल्पनैवाऽशक्याऽस्ति । तद्गुरोर्नवमजन्मशताब्दीमुपलक्ष्य शासनसम्राट्-तपागच्छाधिपति-श्रीविजयनेमिसूरीश्वर-प्रशिष्यश्रीविजयसूर्योदयसूरीश्वरस्याऽऽशिषा, तच्छिष्यश्रीविजयशीलचन्द्रसूरेः सत्प्रेरणया चैषा कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्मृतिशिक्षणसंस्कारनिधिट्रस्टेतिनाम्नी संस्था प्रस्थापिता । एतैर्गुरुवर्यैः स्वजीवने श्रीमहावीरस्वामिनोऽनेकान्तवादसिद्धान्तश्चरितार्थीकृतोऽस्ति । एते गुरवः सम्प्रदायनिरपेक्षमानसं संसेवन्ते । तत एवैतादृशं कार्यं कर्तुं समर्था भवन्त्येते गुरवः । गुरुवर्यैः संस्थापितायाः संस्थाया शुभाशयाः सम्यगनुसरणीयाः सन्ति ।
• कस्या अपि भाषायाः सत्साहित्यस्य सेवां यः कोऽपि कुर्यात्तस्य सन्मानं करणीयम् । आस्तां स कस्याऽपि अन्यधर्मस्याऽनुयायी स्यात् ।
एतया संस्थयाऽद्यावधि त्रयोदशानां साक्षरजनानां सन्मानमकारि । तत्र - १. अध्यापकः श्रीशान्तिलाल गुलाबचन्द शाह-महोदयः
२. पं. श्रीलक्ष्मणभाई हीरालाल भोजक-महोदयः ३. पं. श्रीदलसुखभाई मालवणिया-महोदयः ४. डो. हरिवल्लभ भायाणी-महोदयः ५. डो. उमाकान्त पी. शाह-महोदयः
७ः
Page #81
--------------------------------------------------------------------------
________________
६. डो. मधुसूदन ढांकी-महोदयः ७. डो. नगीनदास जे. शाह-महोदयः ८. डो. सत्यरञ्जन बेनर्जी-महोदयः ९. श्रीजयन्तभाई कोठारी-महोदयः १०. श्रीकनुभाई जानी-महोदयः ११. श्रीलाभशङ्कर पुरोहित-महोदयः १२. श्रीहसुभाई याज्ञिक-महोदयः १३. डो. वसंतभाई परीख-महोदयः इदानीं श्रीनलिनी-बलबीरविदुष्याः सन्मानं कृतम् । • उत्तमानां साहित्यविषयकपुस्तकानां प्रकाशनं करणीयम् ।
अद्यावधि विविधासु भाषास्वनेके ग्रन्थाः प्रकाशिताः । • राष्ट्रीयकक्षायाः परिसंवादा आयोजनीयाः ।
विविधविषयमनुलक्ष्याऽद्यावधि एतया संस्थया बहवः परिसंवादा आयोजिताः सन्ति । तत्राऽपि वटपद्र(वडोदरा)नगरे, महुवा(लघुकश्मीर)पत्तने तथा गोधरानगरे द्विदिवसीयपरिसंवादा संयोजिता आसन् । तदा जैनाः शैवाः पुष्टिसाम्प्रदायिकाः इस्लाममतीयाः ख्रिस्तीयाः पारसीयाः आदिवासिनश्च विद्वज्जना आगत्य स्व-स्वधर्मविषयकं साहित्यं पठन्ति स्म । तदुपरि जैनाचार्यनिश्रायां मुक्तमनसा चर्चामपि तत्रत्या जना अकुर्वन् । आश्चर्यं त्वेतद्, आदिवासिसमाजस्य मुख्यधर्मगुरुस्तत्र जैनस्थानके बहिः कुत्राऽपि न क्रियमाणं गुह्यं तत्पट्टविधि सभासमक्षं दर्शयति स्म । __ भोः ! एतादृशं क्रान्तिकरं सम्प्रदायनिरपेक्षं कार्यं नाऽन्यः, किन्तु जैनाचार्येण श्रीशीलचन्द्रसूरिणैव कृतमासीत् । तथा परिसंवादस्य सर्वोऽपि यातायातवेतन-पुरस्कार-भोजनादिव्ययो जैनश्रावकैरेव कृत आसीत्, एतन्न कदाऽपि विस्मर्तव्यम् । तत्पश्चात् तैविद्वज्जनैः वाचितानां लेखानां पुस्तकमपि प्रकाशितमस्ति, तेन सूरिणैव ।
महुवापत्तने आयोजितपरिसंवादे आगतेन पूज्यश्रीमोरारिबापु-महात्मना कथितम् - जैनस्थानके एष आयोजित: परिसंवादः सम्प्रदायनिरपेक्षतायाः श्रेष्ठमुदाहरणमस्ति । एतदायोजनं महत् क्रान्तिकरमस्ति । अस्याऽनुकरणं सर्वधर्मगुरुभिः करणीयमस्ति, इति ।
किमेषा उदारदृष्टिः सम्प्रदायनिरपेक्षता च कथ्यते न वा ?
पूर्वकालत एव जैनसमाज उदारः सम्प्रदायनिरपेक्षश्चाऽऽसीत्, इति कथने नाऽतिशयोक्तिरस्ति । दर्शयामि अहम् -
७४
Page #82
--------------------------------------------------------------------------
________________
• अद्य भारते परदेशे चाऽनेकेषु नगरेषु जैनमतानुयायिभिरन्यधर्ममतानुयायिभिश्च संचालिता बहवः पुस्तकालया विद्यन्ते । तत्र जैनभाण्डागारेषु जैनपुस्तकैः सह न्याय-बौद्ध-चार्वाक-पातञ्जल-मीमांसकवेदान्त-साङ्ख्यादीनां सर्वेषां मतानां विविधविषयानां पुस्तकानि अद्याऽप्युपलब्धानि भवन्ति । तथैव तत्तद्दर्शनविषयसम्बन्धिंन्यः प्राचीना हस्तलिखितप्रतयो जैनभाण्डागारेष्वद्याऽपि प्राप्यन्ते । ता अपि सुचारुस्थित्यां प्राप्यन्ते । ___ अथ अन्यधर्मानुयायिभिः संचालितेषु पुस्तकालयेषु किं जैनमतसम्बन्धिन्यः प्राचीनप्रतयः पुस्तकानि च अवाप्यन्ते ? भोः ! अन्यत्र तु जैनप्रती: जना नाशयन्ति स्म ।
• जैनपुस्तकालयेषु परधर्ममान्यमन्दिराणां विशिष्टचित्र-कला-शिल्पादीनां पुस्तकान्यपि संगृह्यन्ते ।
• पूर्वकालीना जैनाचार्याः सर्वदर्शनसाहित्यमधीयते स्म । सा परम्पराऽद्यपर्यन्तं वर्तते । अद्याऽपि प्रायः सर्वेऽपि जैनसाधवो दुराग्रहं विमुच्य मुक्तमनसाऽन्यदर्शनीयानि शास्त्राणि तत्तद्दर्शनविदां पण्डितानां समीपे पठन्ति । तथैव तेन सह तुलनात्मकाभ्यासमपि कुर्वन्ति जैनमुनयः ।
अथ कोऽन्यमतावलम्बी साधुजैनग्रन्थान् अधीते ? जैनदर्शनाभ्यासार्थं जैनपण्डितान् के आह्वयन्ति ?
• अद्याऽपि जैनमुनयोऽन्यदर्शनीयानि विविधशास्त्राणि प्रकाशयन्ति । वदतु ! क उदारः? को वा संकुचितः ? पूर्वकालतो जैनसमाजः संप्रदायनिरपेक्षोऽस्ति ।
वैक्रमीये द्वादशे शतके कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यो जातः । विश्वविख्यातेनैतेन सूरिणा जिनशासनस्योपरि महानुपकारः कृतोऽस्ति । एतेन सूरिणा चौलुक्यवंशीयौ सिद्धराजजयसिंहः कुमारपालश्चेति द्वौ राजानौ प्रतिबोधितौ स्तः । प्रतिबोधिताभ्यामेताभ्यां राजभ्यां गूर्जरराज्यस्य समृद्ध्यर्थं शान्त्यर्थं च बहूनि सत्कार्याणि कारितानि सन्ति तेन सूरिणा । __गूर्जरराज्ये हिन्दुजनानां पवित्रं विश्वप्रसिद्धं सोमनाथमहादेवमन्दिरमस्ति । तन्मन्दिरं तत्तत्काले इस्लाममतीयशासकैरनेकशो लुण्टितं नष्टं च । कुमारपालराजस्य शासनकाले कृतजीर्णोद्धारस्य महादेव मन्दिरस्य प्रतिष्ठाकालः आगतः । तदा राज्ञा तत्प्रतिष्ठामहोत्सवे आगन्तुं श्रीहेमचन्द्राचार्यसूरीश्वराया-ऽऽमन्त्रणं प्रदत्तम् । सूरिणा स्वीकृतमपि । प्रतिष्ठाकाले स्वयं स सूरीश्वरस्तत्राऽऽगतवान् । असङ्ख्यजनानां मध्ये तेन सूरिणा सोमनाथमहादेवस्य प्रतिष्ठा कृता, स्तुतिरपि च कृता ।
प्रशान्तं दर्शनं यस्य, सर्वभूताभयप्रदम् । माङ्गल्यं च प्रशस्तं च, शिवस्तेन विभाव्यते । महत्त्वादीश्वरत्वाच्च, यो महेश्वरतां गतः । राय-द्वेषविनिर्मुक्तं, वन्देऽहं तं महेश्वरम् ॥ .
७५
Page #83
--------------------------------------------------------------------------
________________
महाज्ञानं भवेद्यस्य, लोकालोकप्रकाशकम् । महादया दमो ध्यानं, महादेवः स उच्यते । महान्तस्तस्करा ये तु, तिष्ठन्तः स्वशरीरके । निर्जिता येन देवेन, महादेवः स उच्यते ॥
एवं चतुश्चत्वारिंशत्श्लोकप्रमाणं श्रीमहादेवस्तोत्रं तदैव महादेवस्तुतिकरणव्याजेन तेन श्रीहेमचन्द्रसूरिणा रचितम् । अद्याऽपि तत् स्तोत्रं प्राप्यते ।
प्राप्त परमार्हत बिरुदेन हेमचन्द्रसूरीश्वरस्य परमोपासकेन तेन कुमारपालेन नैकानि नूनानि शिवमन्दिराणि कारितानि तथा केषाञ्चित् शिवमन्दिराणां जीर्णोद्धारा कारिताः ।
ततः त्रयोदशशतके वस्तुपालो महामन्त्रीश्वरः सञ्जातः । एतेन मन्त्रिणाऽनेकशः स्वबुद्धि-कौशल्येन गूर्जरराज्यस्य रक्षाऽकारि । एष यथा राजनीतिज्ञ आसीत्तथैव शास्त्रज्ञोऽप्यासीत् । एतेन संस्कृतभाषानिबद्धानि शास्त्राण्यपि रचितानि सन्ति । एवमेष जैनशासनस्याऽग्रणीः श्रावक आसीत् । एतेन जिनशासनस्य बह्वी प्रभावना कृताऽऽसीत् । तत एव अनेकैर्महद्भिर्जुनाचार्यैः प्रशस्तिः कृताऽऽसीत् महामन्त्रीश्वरस्याऽस्य । एतादृशेन जैनधर्मे परमश्रद्धालुना वस्तुपालेन नैकम्, अपि तु बहूनि शैवमन्दिराणि कारितानि, तथा पुरातनानां शैवमन्दिराणां जीर्णोद्धाराः कारिताः । ततोऽप्यधिकं त्वेतद् यद्, एतेन मन्त्रिणा चतुरशीतिः यवनधर्मस्थानानि (मस्जिदा) निर्मापितानि
अत्र साम्प्रदायिकदृष्टिः कुत्र दृश्यते ?
एवं तत्तत्कालीना अनेके जैनाचार्याः श्रावकाश्च सम्प्रदायनिरपेक्षाणि बहूनि सत्कार्याणि चक्रुः । ऐतिहासिकग्रन्था अस्य कथनस्य सत्यतां प्रमाणीकुर्वन्ति ।
इदानीन्तनकालेऽपि अहम्मदावादनगरे 'हठीभाई वाडी' नामकोद्याने श्रीहरकोरशेठाणी-महोदयया स्वसूक्ष्मदृष्ट्या कारितमेकं जिनमन्दिरं विद्यते । शिल्प-कलादिदृष्ट्या तज्जिनमन्दिरं विश्वप्रसिद्धमस्ति । दर्शनीयस्थानानां गणनायामस्य मन्दिरस्याऽपि गणना क्रियते । तत एव परदेशतो भारते देशे आगच्छन्तः सर्वेऽपि परदेशीयजना अस्य मन्दिरस्य दर्शनार्थमवश्यंतयाऽऽगच्छन्त्येव । तन्मन्दिरस्य मुख्यद्वारस्य बहिर्भागे महादेवमन्दिरमस्ति । तथा मन्दिरान्तः प्रवेशे कृते सति अग्रभागे एव कृष्णवासुदेवस्य मूर्तिः वर्तते । तत्र श्रावणकृष्णस्याऽष्टमीतिथिदिने महामहोत्सवो जायते, तथा सहस्राधिकं जनाः दर्शनार्थमप्यागच्छन्ति । न कैरपि जैनैविरोधो विधीयते । ।
किञ्च - पञ्चमहालप्रदेशे गोधरानगरसमीपस्थेऽस्माकं गुरूणां श्रीविजयसूर्योदयसूरिणां दीक्षाभूमौ श्रीपरोलीतीर्थमध्ये यदुवंशीयश्रीनेमनाथपरमात्मनः पुराणं मन्दिरमस्ति । तन्मन्दिरस्यैकतः शङ्करस्य तथाऽपरतो लक्ष्मीनारायणस्य च मूर्तिरद्याऽपि विद्यते । जैनसंस्थयाऽस्य मन्दिरस्य रक्षणं सञ्चालनं च क्रियते ।
७६
Page #84
--------------------------------------------------------------------------
________________
__ अन्यान्यपि स्थानान्येतादृशान्यद्य विद्यन्ते । अत एव कथयामि - पूर्वकालत आरभ्याऽद्यावधि जैनैर्न सङ्कचितता साम्प्रदायिकदृष्टिश्च प्रदर्शिता ।
सर्वैर्धर्मानुयायिभिः स्वस्वमतानुसारी प्ररूपणा क्रियते, अत्र न काऽपि बाधा, किन्त्वन्यमतस्याऽवहेलनं न करणीयम् । यदाऽन्यमतस्याऽवहेलनं क्रियते तदा सम्प्रदायनिरपेक्षता कथं सम्भाव्यते ? अद्य सर्वेऽपि मतानुयायिनः स्वमतं प्रशंसन्ते, अन्यमतं च निन्दन्ति । तथाऽपि जैना एव सङ्कुचिताः सम्प्रदायबद्धाश्चोच्यन्ते, नाऽन्ये । एष न्यायः कथं सम्भाव्यते ?'
जिनशासने न केषाञ्चिदपि जनानां निषेधः कृतोऽस्ति । स्वयं त्रैशलेयश्रीमहावीरविभोर्देशनाकाले देवै रचिते समवसरणे ३६३पाखण्डिजना आगच्छन्ति स्म, न च निरुद्धाः केनाऽपि । तदाऽनेकैर्ब्राह्मणैरन्यज्ञातीयजनैश्च प्रव्रज्या अङ्गीकृताः । अन्ते, आत्मकल्याणं विधाय तेऽपि शिवसुखमाप्ता आसन् । किञ्च, जैनैर्बहुभिर्महापुरुषै रचितेषु नैकेषु संस्कृत-प्राकृतशास्त्रग्रन्थेषु गूर्जरपदेषु चैतादृशानि विविधानि पदानि प्राप्यन्ते, यत्र - हरो, ब्रह्मा, विष्णुः, बुद्धो जिनो वा ये केऽपि स्युः, यदि ते राग-द्वेषविहीनाः स्युस्तर्हि ते सर्वेऽप्यवश्यंतया नमस्करणीयाः - वन्दनीयाश्चेति कथितमस्ति । • कथमेतावत्युदारताऽपि सङ्कुचिततारूपेण कथ्यते ?
वस्तुतः सत्यं सत्यमेव भवति । सत्यं न कदाऽपि निहोतुं शक्यमस्ति । उच्चैराराटि कुर्वद्भिर्बहुजनैः संमीलितैरपि मृषा न कदाऽपि सत्यरूपेण भवितुं शक्यमस्ति । सत्यं तु सुवर्णमिव सर्वकालीनं सत्यमेव वर्तते । सुवर्णस्योपर्यनेकशो लेपकरणेनाऽपि यथा तदस्तित्वं न कदाऽपि नष्टं भवति तथैवाऽनेकैः असत्यैरपि सत्यं नाशयितुं न शक्यते । जैना उदाराः सम्प्रदायनिरपेक्षाश्च सन्ति, इति सर्वकालीनं सत्यमस्ति, तन्न कोऽपि निनोतुं शक्नोति ।
एवं सर्वकालीनं सत्यमपि असत्यरूपेण कथनीयं तत्तु असदाग्रह उच्यते । किन्तु यत्र यथार्थं ज्ञानं (स्पष्ट)विहितश्च बोधोऽस्ति तत्र न कदाऽपि दुराग्रहः असदाग्रहश्च भवितुं शक्तोऽस्ति । ज्ञानस्यैतदेव फलमस्ति यद्, ज्ञानं दुराग्रहमसदाग्रहं च सन्त्याज्य सदाग्रहं प्रति प्रेरयति, ज्ञानं क्लेशं सङ्घर्षं चाऽपास्य समाधान ददाति, ज्ञानं विभाजनवृत्तिं दूरीकृत्य समन्वयं प्रयच्छति, ज्ञानं सङ्कुचिततां विहायौदार्यं प्रकटयति, ज्ञानं च राग-द्वेषौ अपाकृत्य समत्वमर्पयति । यस्य हृदि यथार्थं ज्ञानं परिणतं स कदाऽपि न सङ्कुचितो भवति, सदोदार एव भवति । यत्र ज्ञाने सत्यपि सङ्कुचितता भवेत् तत्र न ज्ञानं किन्तु ज्ञानाभास एव ज्ञेयः । - एष चन्द्रकप्रदानमहोत्सवो जातः स तु विशेषतो ज्ञानाविष्कारोऽस्ति । यत्र यत्र ज्ञानाविष्कारो भवति तत्र गौरवं वर्धते एव, यत एष ज्ञानाविष्कारो यस्य कस्याऽपि यत् शुद्धं सद् निर्मलं चाऽस्ति तद् गवेषयित्वा स्वीकरोति । यत्र शुद्धस्य सतश्चाऽङ्गीकारोऽस्ति तत्र गौरवादृते किं भवेत् ? एवं फ्रान्सदेशीयविदुष्याः कारितं सन्मानं, न केवलं जैनानामपि तु समग्रभारतीयजनानां गौरवमस्ति, इति निश्चितं ज्ञेयम् ।
-७७
Page #85
--------------------------------------------------------------------------
________________
अथ, परदेशीयविदुषी सन्मानिता, एतावन्मात्रेण कार्यं न समाप्ति प्रापत् । एतद्घटनातो बोधो ग्रहणीयोऽस्ति । एतस्या विदुष्या ज्ञाननिष्ठाऽतीवाऽनुमोदनीयाऽनुकरणीया चाऽस्ति ।। ___ अस्या मातृभाषाऽस्ति फ्रेन्चभाषा । सा विदुषी नाऽन्यां कामपि भाषां जानाति स्म । तथाऽपि ज्ञानं प्रति विशेषरुचिरासीत् । ततो ज्ञानप्राप्त्यर्थं सर्वत्राऽटन्ति स्म । यदा गूर्जरराज्ये साऽऽगतवती तदा जैनागमं प्रति विशेषतो रुचिः सञ्जाता । ततस्तदभ्यासार्थं गूर्जरभाषा-हिन्दीभाषा-संस्कृतभाषा-प्राकृतभाषा च शिक्षिता । तत्साहाय्येन बौद्ध-जैनशास्त्राणां संशोधनादिकं कार्यं कृतम् । तन्मनसि ज्ञानप्राप्तेरभिलाषा कीदृशी स्यादित्यत्र ज्ञेयमस्ति । कथंरीत्या कियता कालेन च तया विदुष्यैता भाषाः शिक्षिताः स्युरिति प्रश्नोऽस्ति ।
एका परदेशी विदुषी अस्माकं विविधा भाषा: शिक्षयति, ततः सन्माननीयं कार्यमपि विधातुं शक्ता जाता सा । वयमत्रैव वसामः, अस्माकं सर्वा एता भाषाः परिचिताः सन्ति, ता भाषा: शिक्षयितुमनेके तत्तद्विषयज्ञाः पण्डिता अपि उपलब्धा भवन्ति । तथाऽप्यस्माभिः किं विशिष्टं ज्ञानक्षेत्रे कार्यं कृतम् ? कानि शास्त्राणि पठितानि ? का भाषा शिक्षिता ? जैनैरागमविषये हिन्दुभिश्च वैदिकसाहित्ये किं विशिष्टं कार्यं कृतम् ? प्रश्ना अनुत्तररूपा एव भवेयुः, इति जानामि ।
एष चन्द्रकप्रदानमहोत्सवः समष्टिगतदृष्ट्या गौरवप्रदोऽस्ति, किन्तु व्यक्तिगतदृष्ट्याऽस्माकं कृते लज्जाकारकोऽस्ति । यतोऽस्माभिरद्यावधि न तादृशं विशिष्टमेकमपि कार्यं कृतमस्ति । अन्ते, सर्वे ज्ञाननिष्ठावन्तो भवेयुरित्याशासे ।
७८
Page #86
--------------------------------------------------------------------------
________________
पत्रम्
मुनिधर्मकीर्तिविजयः
॥ नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । तत्राऽप्येवं स्यादित्याशासे ।
पूज्यपादगुरुभगवद्भिः साकं विविधनगरेषु विहरन्तो वयं सर्वेऽपि ‘पादलिप्त' (पालीताणा) नगरसमीपस्थे तीर्थाधिराज-परमपवित्रतम-श्रीशत्रुञ्जयतीर्थस्यैवैकभागस्वरूपे श्रीकदम्बगिरितीर्थमध्ये महोत्सवादिप्रयोजनराहित्येन केवलं शास्त्र-स्वाध्यायार्थमेवाऽऽगता स्मः । प्रायो मासपर्यन्तमत्रैवोपवत्स्यामः ।
बन्धो ! तीर्थमेतदतीव रमणीयं कमनीयं चाऽस्ति । अद्यतनकालीनैः समस्तप्रदूषणैविरहितमेतन्निर्दोषं तीर्थक्षेत्रमस्ति । अत्र न विशिष्टमुपाहारगृहं विद्यते, ततो 'दाबेली-वडापाउ-होटडोग-मन्चूरीयन-ढोसापीझा-इडली-पाणीपुरी-सेन्डवीच'-इतिपदवाच्यानां वस्तूनां नामान्यप्यत्र न कोऽपि जानाति, तर्हि तत्प्राप्तिस्तु कथं भवेदत्र ? अत्र विशिष्टानि शीतपेयान्यपि न प्राप्यन्ते । अत्र केवलं चायं तमाखु-गुटका धूम्रवर्तिका च प्राप्यन्ते । आस्तामद्यतनसुविधाभिः अत्र सामान्यसुविधारहितानि पुरातनकालीनान्येवाऽऽवासगृहाणि विद्यन्ते । अन्यत्र गमनार्थं टेक्सी-रिक्षेतियानान्यपि नाऽत्रोपलब्धानि भवन्ति, केवलं सर्वकारीयाणि बस्यानानि निश्चितकाले एव प्राप्यन्ते । एवमेष ग्रामोऽद्यतनसुविधाघ्रातो नाऽस्ति । ततो न केऽपि नगरवास्तव्या जना अत्राऽगच्छन्ति, विशिष्टकार्यसम्पादकेच्छव एवाऽत्राऽऽगच्छन्ति । एवं स्थितौ वयमपि निर्बन्धनतयाऽविक्षिप्तमनसा प्रसन्नवदनेन चाऽऽदिनं स्वाध्यायं प्रकुर्मः । ततोऽत्र मनस्यपूर्वशान्तिरनुभूयतेऽस्माभिः ।
संजोगमूला जीवेण पत्ता दुक्खपरम्परा । तम्हा संजोगसंबंध सव्वं तिविहेण वोसिरिअं ॥ (संयोगमूला जीवेन प्राप्ता दुःखपरम्परा । ततः संयोगसम्बन्धः सर्वः त्रिविधेन व्युत्सृष्टः)
७९
Page #87
--------------------------------------------------------------------------
________________
एतच्छ्लोकं प्रतिदिनमहं रटामि, अर्थमपि जानाम्यहं, किन्तु तच्छ्लोकार्थस्याऽनुभवस्त्विदानीमेव कृतो मया । बाह्यनिमित्तानामसङ्ग एव परमशान्तेः कारणमस्ति । .
अस्मिन् तीर्थे सहजं प्राकृतिकसौन्दर्यं विलसति । अत्र सर्वतः पर्वतीयप्रदेशो विद्यते । ग्रामस्य परितो हरितवर्णी वनराजिः प्रसृताऽस्ति । ततो द्वीपि-सिंहादयो हिंस्रपशवोऽहि-नकुल-वृश्चिकादयो विषाकीर्ण जन्तवश्चाऽपीतस्ततो निराबाधमटन्ति । मृगेन्द्रास्तु स्वकीयसहजच्छटाभिर्निर्बन्धं विजृम्भन्ते । एते प्राणिनो रात्रिमध्येऽस्माकमुपाश्रयस्य परिसरस्य बहिर्जलं पातुं बहुश आगच्छन्ति, तीर्थस्योपरि च जिनमन्दिरस्य बहिःस्थभुवि वारंवारमागच्छन्ति, घण्टां यावत्तत्रैवोपविशन्ति चाऽपि । शुकाः कपोताः चटकाः कोकिला नीलकण्ठा बलाकाश्च पतङ्गा भ्रमरा गृहगोधिकाश्चाऽपि मानवनाम्नः प्राणिनो भयाभावेन निर्भयं सानन्दं च मुक्तमनसा विहरन्ति । अत्र सिंहानां 'डणक'-इत्याराव: द्वीपिनां “घुर्घर" इत्यारावश्च श्रूयते, प्रत्यहं प्रात:काले सर्वतो मयूराणां केकारवः, कोकिलानां मनःप्रीतिकरः कूजनरवः श्रूयते, निशि तित्तिर-जतुकाभ्रमरादिनिशाचरकीटकानां तीक्ष्णः सन्नपि मधुराराव: संश्रूयते, मध्याह्नकाले क्षपायां च नीरवशान्तौ प्रसृतायां सत्यां तीव्रवेगेन प्रवहतो महावातस्याऽऽरावोऽपि सदा श्रूयते । तथैव प्रातःकाले सायंकाले च शिवमन्दिरेभ्यः प्रसरन् शङ्खनादो घण्टारवश्चाऽपि कर्णपटले पतति । एवं नितरां मनःप्रसन्नकर शान्तिकरं च ग्राम्यवातावरण
मस्ति ।
अत्र गगनोत्तुङ्गानि भवनान्येव न सन्ति, तथैवोपाश्रयोऽपि सुन्दरतमोऽस्ति, परितो भूमिरावरणरहिताऽस्ति । ततो निरावरणगगनस्य मुक्तानां सकलपशु-पक्षिणां च सहजसौन्दर्यमहमहर्निशं स्थानस्थ: सन्नेव दरीदर्शिम । यथा पूर्णिमादिनचन्द्रमाः सर्वकला विदधाति तथैते शिखिनः सर्वकलाभिः पिच्छानि धारयन्ति । तेषां केकारवस्तु जनश्रुतिपुटामृतसिञ्चनरूपोऽस्ति । ते यदा प्रसन्ना भवेयुस्तदाऽमराप्सरसां नृत्यमिव मनोहरं चित्ताकर्षकं च नृत्यमपि निराबाधं कुर्वन्ति । एतादृशानि मन:संतापनाशकराणि दृश्यानि दरीदृश्यन्ते ऽत्र । अस्मिन् स्वच्छगगनमण्डपे प्रकृतेर्विधविधविशिष्टकलाकौशलमस्माभिः सदा दरीदृश्यते । तत्राऽपि सन्ध्याकाले विधात्रा नभोमण्डपे विरच्यमानं कलावैभवं निरीक्ष्याऽऽदिनं कृतः परिश्रमो दूरीभवति, स्वान्तस्य विकल्पा उद्वेगाश्चाऽपि द्रुतं विलीना भवन्ति, देहेऽनन्या स्फूर्तिः प्रकटीभवति, चित्तं च गगनमिव निरावरणममलीमसं च भवति । एवं मनस्त्वतीव प्रसन्नतामनुभवति । __ चेतन ! एतादृशे स्वर्गीयसुखानुभवकारके रमणीये वातावरणे वयमासीनाः स्मः । एतादृशं सुखं न सर्वेषां ललाटे लिखितमस्ति । माथेरानादिस्थानेषु गच्छद्भिर्युष्माभिः रूप्यककोटिव्ययेनाऽपि न यत्सुखमवाप्यते ततोऽप्यधिकं सुखमत्राऽनुभूयतेऽस्माभिः । ऐदंयुगीना जनाः कोलाहलप्रियाः सन्ति । ततः प्रतिदिनमनेके जना मिलेयुः, महोत्सवाः सम्पन्ना भवेयुः, वादित्राणि च वाद्येरन्, तर्येव चित्ते सन्तोषो भवति, अन्यथोद्विग्ना भवन्ति ते । एतादृशाः कोलाहलं विना क्षणमपि स्थातुमशक्ता जीवा अप्यत्राऽऽगत्य शान्ता भवन्ति, एतादृशं शान्तं वातावरणमस्ति ।
Page #88
--------------------------------------------------------------------------
________________
भोः ! युष्माकं तु का वार्ता करणीयाऽस्ति ।
जनः स्वयमेव कोलाहलमशान्ति चोत्पादयति, प्रतिदिनमादिनं च तत्रैव रमते, एवं क्षुद्रजन्तुवत् स्वरचितजालेष्वेव बद्धो भवति । तत्पश्चादशान्तः श्रान्तश्च स जनः शान्तिमवाप्तुं माथेरान-पञ्चगीनी-गोवाकेराला-इत्याद्यटनीयस्थानेषु गृहं परिवारं व्यवसायं च विहाय बहुधनव्ययं विधाय च सोल्लासं गच्छति । इदानीं तु इभ्यजनेषु स्वसम्पत्तिप्रदर्शनस्याऽभिलाषा मनस्युच्छलति, ततस्ते जनाः शान्तिप्राप्त्यर्थं होंगकोंग-थाईलेन्ड-दुबई-मलेशिया-सिंगापोर-इत्याद्यपरप्रदेशेषु रूप्यककोटिव्ययं कृत्वा गच्छन्ति ।
आश्चर्यं त्वेतद्, यः शान्त्यर्थं परदेशे गतः, स जन एव ततो यदि प्रतिनिवर्तेत तदाऽतीवाऽशान्तः श्रान्तश्च भवेत्, इति । एतत्कथं शक्यम् ?
अद्य सर्वेऽपि जीवाः शान्ति सुखं चेच्छन्ति, तदर्थं ते सदा प्रयतन्ते, तथाऽपि जीवैरशान्तिर्दुःखं चैव प्राप्यते । उक्तं च
सर्वत्र सर्वस्य सदा प्रवृत्तिर्दुःखस्य नाशाय सुखस्य हेतोः । . तथाऽपि दुःखं न विनाशमेति, सुखं न कस्याऽपि भजेत् स्थिरत्वम् ॥
अत्राऽप्येषैव स्थितिवर्तते । जनो दुःखमशान्ति चाऽपाकर्तुमेव सर्वमपि त्यक्त्वाऽपरदेशे गच्छति, तथाऽपि दुःखमशान्ति चैव जनोऽवाप्नोति । 'कथमि'ति प्रश्नो विमर्शनीयोऽस्ति । ___ जनः परदेशे गच्छन्नपि गृहादिचिन्तां न विजहाति । जीवः कायेन गृहादिकं त्यक्तवान्, किन्तु न मनसा । एवमशान्तिप्रोत्पादकानि निमित्तानि सङ्ग्रह्मैव सोऽन्यत्र गतवान् । ततस्स जनः कुत्राऽपि गच्छेत्, तत्र सोऽशान्तिमेव प्राप्नुयात्, इति निश्चितं ज्ञेयम् ।
अशान्तेः कारणमस्ति चिन्ता । चिन्तामात्रं दुःखस्याऽशान्तेश्चोत्पादकमस्ति, आस्तां सा चिन्ता काऽपि विषयसम्बन्धिनी स्यात् । इदानींतनकाले मनुष्यजीवने चिन्तोत्पादनस्य मुख्य कारणमस्ति - चलदूरवाणी यन्त्रम् (Mobile) । सर्वचिन्तामुक्तानां जीवानामप्येतद् यन्त्रमकारणं दुःखायते । चिन्तामहासागरे एतद्यन्त्रं जनान् क्षिपन्ति । उदाहरणेन दर्शयामि -
बन्धो ! सांसारिकक्लेश-चिन्ताक्रान्तो जनो मनसः शान्त्यर्थं गृहादिकं सर्वमपि त्यक्त्वा 'मलेशिया' इतिस्थाने गतवान् । एष जीवो यावद्गन्तव्यस्थानं प्राप्नुयात् तावदेवैतद्यन्त्रद्वारेण गृहसदस्यैः सह चर्चा कुर्यात् । तत्पश्चात् प्रतिदिनं वारद्वयं तैः सह गृहादिविषयकं वार्तालापं करोत्येष जनः । तदा तैः परस्परं को वार्तालापः क्रियते ? मातर् ! भ्रातृजाययैवं कृतं, एवं च कथितम् । भ्रात्रा मया सहैतादृशो व्यवहारोऽकारि । भ्रातृजायाया जननी आगतवत्यासीत्, सा एवमेवं वदति स्म, ........इति ।
Page #89
--------------------------------------------------------------------------
________________
पित्रा पृष्टः पुत्रो वदति - पितर् ! तेन व्यापारिणाऽहं वञ्चितः, अद्य वाणिज्ये इयती हानिर्जाता,..... इति । एतच्छ्रुत्वा मनसि दुःखमनेके विकल्पाश्चोद्भवेयुः । अन्यदेशे गच्छन्नपि पिता वाणिज्यं करोति, माता च गृहकार्यं करोत्येव । एवं सति गृहं व्यापारं च मनसा साकं गृहीत्वैव गच्छन् जनः कथं कुत्र च शान्तिमवाप्नुयात् ?
चिन्तय त्वम् ! परदेशे गतो जनः संसर्गशून्योऽस्ति, दुःखस्य निमित्तं न किमप्यस्ति, तथाऽपि तेन जनेनाऽहनिशं गृहसदस्यैः सहैतद्यन्त्रद्वारेण गृह-व्यापारविषयिकी चर्चा क्रियते, ततः संसर्गशून्यः सन्नपि दुःखीभवति । यदि स एतद्यन्त्रग्रहणं विनैव गच्छेत्, अथवा स गृहसभ्यैः सह गृहादिचर्चामेव न कुर्यात् तर्हि न काऽपि पीडा भवेत्, न च दुःखमप्युद्भवेत् । किञ्च, गृहे वाणिज्ये च या काऽपि विपत्तिर्जाता, तां विपदं स जनो दूरीकर्तुं न समर्थोऽस्ति, यदा गृहं प्रत्यागच्छेत्तदैव स किमपि कर्तुं शक्नुयात् । तथाऽप्येतच्चिन्ताजनिकां वार्ता संश्रुत्य स जनो यावत् परदेशं तिष्ठेत् तावद् दुःखीभवेत्, दर्शनीयस्थानेऽटतोऽपि प्रमोदं च कुर्वतोऽपि तस्य मनस्येषा पीडा निरन्तरं कण्टकवद् दुःखीकुर्यादेव । एवं गृहं व्यापारं परिवारजनं च सन्त्यजन्नपि रूप्यककोटिधनव्ययं च प्रकुर्वन्नपि स जनो यदा गृहे प्रतिनिवर्तेत तदाऽतीवाऽशान्तः श्रान्तो दुःख्युद्विग्नश्च भवति । एतत्समस्तदुःखानां कारणमस्ति - एतत् चलदूरवाणीयन्त्रम् ।
बन्धो ! अत्र किं जातम् ? लाभ उत हानिः ?
केवलं हानिरेव जाता । जनोऽतीवाऽशान्तो दुःखी श्रान्तश्च जात एव, किन्तु तेनैतेन सहाऽन्यदपि प्राप्तं यद्, देहव्ययो वाणिज्यव्ययो विशुद्धाहारव्ययः समयव्ययोऽतीव धनव्ययः (वर्षं यावत् परिश्रमकरणेन यद्धनं प्राप्तं तद्धनं दशदिनेषु व्यतीकृतम्) विशेषतो धर्मव्ययश्चेति । किमेषा शान्तिप्राप्तिचेष्टा कथ्यते उत मूर्खचेष्टोच्यते ?
त्वयैवं ज्ञातमेवोपर्युक्तकथनेनैतद् यन्त्रं दुःखानां कारणस्तीति । अद्य जनः क्षणमेकमपि एतद्यन्त्रं विना स्थातुं न शक्तोऽस्ति । पुत्रादिपरिवारं पत्नी वाणिज्यं किङ्करं च विना वसितुं समर्थोऽस्ति, किन्तु नैतद् यन्त्रमृते । मानसेऽनेकशः प्रश्नोऽप्युद्भवति - किं जनो गृहसदस्यानभिलषति उत यन्त्रमेतद् ? इति । जनोऽन्येन सह वार्तालापं कुर्वन्नपि स्वहस्ताद् तद्यन्त्रं न विमुञ्चति, अत्यावश्यकवार्तालापं प्रकुर्वन्नपि स एतद् यन्त्रं दरीदष्टि । यदि निद्रां न प्राप्नुयात्तर्हि जनो दीर्घकालमेतद्यन्त्रद्वारेणाऽनावश्यकं वार्तालापं क्रीडां च कृत्वा समयव्ययं धनहानि च कुर्यात् । अद्य त्वेतादृशी परिस्थितिरुद्भूता यत् - एतद्यन्त्रप्रभावेन जनोऽल्पस्वापी निशाचरश्च सञ्जातोऽस्ति । पुत्रमिव तद् यन्त्रमालिङ्ग्यैव जनो निद्राति । पूर्वं जनः स्वस्वेष्टभगवतां स्मरणं कृत्वैव स्वपिति स्म, तथोपकारिप्रभूनां दर्शनं स्मरणं च कुर्वन्नेव जागति स्म, तत्पश्चादेव सः सर्वमपि व्यवहारं चकार । अद्य तु स्वपनकाले जागरणकाले च जन एतद्यन्त्रस्यैव दर्शनं
Page #90
--------------------------------------------------------------------------
________________
विदधाति । उत्थिते सत्येव एतद्यन्त्रमङ्गीकृत्य - कस्य लघुसन्देशोऽस्ति (message), कस्य वाऽस्वीकृतसन्देशः (missed call) आगतोऽस्ति, इति प्रथमं पश्यति । ततः पश्चात् कदाचित् प्रभुस्मरणं करोति ।
एका पङ्कितः स्मर्यते - प्रभाते करदर्शनम् । अद्याऽहं कथयामि - प्रभाते यन्त्र(Mobile)दर्शनम् ।
चेतन ! अद्य जनः प्रगाढं चलदूरवाणीयन्त्रासक्तो जातः, तस्य वार्ताऽपि करणीयाऽशक्याऽस्ति । ऐदंयुगीनो जनो विषयकषायाधीनोऽस्ति, ततः संसारमहासागरनिमग्नोऽस्ति, एवमतीव दुःखी अशान्तश्चाऽस्ति । तदशान्तिमपास्तुं स प्रभुस्मरणं करोति, धर्मस्थानकेषु गत्वा विविधधर्मक्रियामाचरति, किन्तु स एतादृशो यन्त्रासक्तो जातो येन शान्तिप्रापकेषु शान्तिधामस्वरूपेषु च धर्मस्थानकेषु अपि तद्यन्त्रं गृहीत्वैव गच्छति । तत्र प्रभोः स्मरणेन सह यन्त्रस्य स्मरणं, प्रभोः दर्शनेन सह यन्त्रस्य चाऽपि दर्शनं करोति । भगवतां सद्ध्याने बाढं तल्लीनो जनोऽपि यदि समीपस्थस्य चलदूरवाणियन्त्रस्य घण्टिका वादिता स्यात्तर्हि तत्क्षणं प्रभुना सह क्रियमाणमनुसन्धानं विहायैतद्यन्त्रं पश्येत्, कदाचित् वार्तालापमपि कुर्यात्, अन्यथा लघुसन्देशं (message) कुर्याच्च । अहो ! आश्चर्यम् ! जनः कियान् मूढ आसक्तश्च जातोऽस्तीत्येतेन ज्ञायते ।
इदानींतनकाले चलदूरवाणीयन्त्रमेवाऽस्माकं शरणं सर्वस्वं च किं न स्यादिति प्रतिभाति । एवं सति जनेन शान्तिः कथं प्राप्यते ? ___भोः ! सुखं शान्तिश्चाऽऽगन्तुका नास्ति, किन्तु स्वाभाविकाऽस्ति । या स्वाभाविका साऽन्येन वस्तुना व्यक्तिना वातावरणेन च कथं प्राप्तुं शक्या ? अस्माभिर्वस्तुनिष्ठा व्यक्तिनिष्ठा वातावरणनिष्ठा च शान्तिः प्रकल्पिता । तत्कल्पनाप्रभावेनैव बहवो जनाः सुखाभासे रममाणाः सन्ति, किन्त्वेषा कल्पनैवाऽशान्ते: कारणमस्ति । यदि वस्त्वादिकं सर्वमपि क्षणिकं स्यात्तर्हि तत्तनिष्ठा शान्तिः क्षणिकैव स्यात्, एतत्तु सहजं गणितमस्ति, तथाऽपि गणितक्षेत्रे प्रवीणा निपुणाश्च वयं कथमेतत् सामान्यं गणितमपि न जानीम: ? इति प्रश्नो भवति । यावन्त्यद्यतनसुखसाधनानि तावन्ति दुःखकारणानि सन्ति । अद्य नागरिको जनो यावान् दुःख्यशान्तश्चाऽस्ति तावान् न दुःखी ग्रामीणो जनोऽस्ति, यतस्तत्समीपेऽद्यतनसाधनानि न विद्यन्ते । अद्यतनकालीनसर्वश्रेष्ठसाधनेषु परिचितस्वजनेषु च मध्ये निवसज्जनो विशेषतोऽशान्तो दुःख्युद्विग्नश्चाऽस्ति, इति पश्यामः ।
भो ! जीवने यदि शान्तिमिच्छेस्तर्हि प्रथमं चिन्तोत्पादकान्यद्यतनसाधनानि त्यज । अहं तत्साधनानामेकान्तेन न निषेधं करोमि, किन्तु तत्साधनेषु तादृशी प्रगाढासक्तिन करणीया, येन तानि विना स्थातुमेव न शक्नोहि, इति कथयामि ।
Page #91
--------------------------------------------------------------------------
________________
पूर्वमेव कथितं मया, एतत्तीर्थं समस्तप्रदूषणरहितमस्ति, इति । अत्रत्या जनाः परमशान्तिनिमग्नाः सन्ति, यतस्ते प्रकृतिदत्तवातावरणे वसन्ति, प्रकृतिदत्तं शुद्धमाहारमेव भक्षयन्ति, अद्यतनसाधनपिशाचाग्रथिलाश्च सन्ति । एतादृशे तीर्थे वसन्तो वयमपि परमशान्तिरूपाम्भोधौ निमज्जामः । तत एव साहजिकं सत्सुखमनुभूयतेऽस्माभिः । जननीनिभप्रकृत्या अङ्के निर्बन्धं लुण्ठनरूपं परमसुखमप्यनुभूयतेऽत्राऽस्माभिः । यदि त्वमपि परमसुखसहभागी भवितुमिच्छेस्तर्हि त्वरयाऽत्राऽऽगच्छ । प्रकृतिः त्वामाह्वयति, प्रकृतिस्तव स्वागतं कर्तुं प्रयत्नशीलाऽस्ति, प्रकृतिस्तु ते कण्ठे परमसहज-सुखशान्तिवरमालां परिधापयितु मुत्कण्ठिताऽस्ति । चेतन ! आगच्छ, आशु आगच्छ ।
__ अन्ते, यदा यदा त्वच्चित्ते परमशान्ति-सुखस्याऽभिलाषा स्यात्तर्हि अत्राऽऽगच्छेः, किन्तु रूप्यककोटि व्ययकरे स्थाने न गच्छेः, केवलं कान्यपि चिन्तोत्पादकाद्यतनसाधनानि नाऽऽनेतव्यानि, इति सूचयामि । अस्य तीर्थस्य भव्य इतिहासोऽस्ति, तद्विषये भविष्यत्काले लेखिष्यामि । '
८.४
Page #92
--------------------------------------------------------------------------
________________
मर्म गंभीरम्
मुनिकल्याणकीर्तिविजयः
( १ ) पुनर्जन्म
"केचन जना मन्यन्ते यन्मरणानन्तरं जीवनं जन्म वा नैवाऽस्ति !" शिष्यः स्वगुरुं प्रति । "एवं वा ?"
गुरुरन्यमनस्क इवाऽवदत् ।
" मरणस्यैष विचार एव कीदृक् त्रासदोऽस्ति यत् पुनर्न कदाचिदपि किमपि द्रष्टव्यं श्रोतव्यं गन्तव्यं प्रेम वा कर्तव्यम् !!" शिष्यः साक्षेपं कथितवान् ।
-
“भवता तत् त्रासदं प्रतीयते ? अरे ! प्रायशो जना मरणात् पूर्वमपि न किञ्चित् शृण्वन्ति पश्यन्ति गच्छन्ति प्रेम वाऽपि कुर्वन्ति !!" गुरु: सस्मितमकथयत् ।
इत्युक्तवान् कश्चन
(२) धार्मिकता
बाइबल्-पुस्तकानामेको दुर्वेष्टितो बन्धः पत्रवाहेन प्रेषितो यावत् पत्रालयं प्राप्तस्तावतैवाऽपावृतो जात:, सुन्दरतया मुद्रितानि दृढावरणयुक्तानि च पुस्तकानीतस्ततः विकीर्णानि पत्रालय भूपृष्ठे । तानि दृष्ट्वैकः पत्रवाहकस्तत एकस्य पुस्तकस्य ग्रहणात् स्वं रोद्धुं नाऽशक्नोत् ।
अनन्तरं यदा स गुरोः समक्षं स्वीयं पापं निवेदितवान् तदा गुरुरपृच्छत् - "केन कारणेन भवान् बाइबल्-पुस्तकं चोरितवान् ?"
" मम धार्मिकस्वभावत्वात् गुरो !”
सपश्चात्तापं स उक्तवान् ।
( ३ ) वर्तमानो दिवस:
“किं भवान् पर्वदिनस्य शुभकामना अस्मभ्यं नैव दद्यात् ?" - कश्चन धार्मिको जनो गुरवेऽपृच्छत् । गुरुर्दिनदर्शिनीं दृष्ट्वाऽद्य गुरुवासरोऽस्तीति निश्चित्य च कथितवान् - "अहं भवते गुरुवासरस्य शुभकामना दद्यां तदेतोऽपि वरम्" ।
८५
Page #93
--------------------------------------------------------------------------
________________
एतच्छ्रुत्वा साम्प्रदायिकानां विरोधो जातः । तदा गुरुः समाधानं कृतवान् यत् - "पर्वदिनाचरणं कृत्वा लक्षशो जना आनन्दिता भविष्यन्ति, किन्तु वर्तमानं दिवसं न केऽपि समाचरिष्यन्ति । ततश्च तेषामानन्दस्याऽवधिः सीमितः । परं, ये जना वर्तमानं दिवसं सानन्दं समाचरितुं शिक्षितास्तेषां कृते समेऽपि दिवसाः पर्वदिवसा एव ॥" -
(४) त्यागः एको गुरुः स्वशिष्येभ्यः कथामेकां श्रावितवान्
"कश्चन रसिको युवा देशान्तरदिदृक्षया गृहान्निर्गतः सन् विविधान् ग्राम-नगरारण्यादीन् विलोकयन्, जनजीवनं च निरीक्षमाणो, नदी-पर्वतादींश्च समुल्लङ्घयन् कदाचिन्महारण्यमेकं प्राप्तः । तच्च तादृग्गहनमासीत् यथा दिन-रात्र्योर्भेदोऽपि न ज्ञायते स्म । तथाऽप्यनुमानेनैव रात्रि दिनं च कल्पयन् स तदतिक्रमितुं प्रारभत शनैः शनैश्च तत्पारं प्राप्तवान् । यदा च सोऽटवीप्रान्तं प्राप्तस्तदैव तेनैकं विशालं सरोवरं दृष्टम् । तस्य चाऽपरस्मिन् तटे एकः समीकृतो भूभागो दृष्टः । ततश्च तेन चिन्तितं यत् - "तत्र केनाऽपि ग्रामेण भवितव्यमतो यद्यहं तं प्राप्नुयां तदा वरम् । परं तत्र कथं वा गन्तव्यम् ?" । तेन इतस्ततो विलोकितं, शुष्ककाष्ठखण्डाश्च दृष्टाः । शीघ्रमेव तेन काष्ठखण्डान् विचिन्त्यैका तरी निर्मिता तां चोपयुज्य स सरोवरस्य पारं प्राप्तवान् । अपरं तटं प्राप्य तेन चिन्तितं यत् - "सम्प्रति किमस्यास्ताः कर्तव्यम् ? किमत्र जले एव तां मुक्त्वा गन्तव्यं मयोत कस्यचिदुपयोगिनी भवेदित्यर्थं शुष्के स्थले स्थापनीया ?" ___"स चिन्तयतु नाम तत् । अहं तु भवद्भ्यः पृच्छामि, कथयन्तु, किं तस्यास्ताः कर्तव्यम् ?" इति गुरुः शिष्यानच्छत् ।
शिष्या अपि सकारणान्युत्तराणि दातुं प्रवृत्ताः, किन्तु गुरोस्तानि श्रुत्वा सन्तोषो नैव जातः । केषाञ्चिदुत्तरं समीचीनमासीत् परं तत्कारणजातं विवरीतुं ते न शक्ता अभवन् । तदैकस्तेजस्वी शिष्योऽवदत् - "तेन यात्रिकेण सा तरी त्यक्तव्यैव न तु रक्षयितव्या, यतो भवतैव शिक्षितं यत् कार्यसिद्ध्यनन्तरं साधनजातं त्यक्तव्यमेव, न पुनर्मोहाद् रक्षणीयं तत् । अन्यस्य कृते तस्य रक्षणं नाम तस्य कृते साधनं मार्गो वा निश्चेतव्य इति । तत् सर्वथाऽनुचितम् । स्वस्य मार्गः साधनं वा स्वयमेव निश्चेतव्यः साधकेन । अन्यथा सम्प्रदायः समुत्तिष्ठेत साधना च स्थगिता भवेत्" ।
गुरुणोक्तं - "सत्यं भवतोक्तम् । अस्माभिः प्रयुक्तं साधनं क्षुण्णः पन्था वाऽन्येषां शिरसि बलानैवाऽऽरोपणीयम् । सर्वेऽपि साधकाः स्वीयप्रकृत्यनुसारं परिस्थितेरनुरूपं च साधनं मागं च निश्चिन्वन्तु नाम !" |
Page #94
--------------------------------------------------------------------------
________________
जीवनमौक्तिकम्
मुनिरम्याङ्गरत्नविजयः
(१) निःश्रेयसमार्ग नियन्त्रणम्
पञ्चसु इन्द्रियेषु सर्वाधिकप्रबलं दुर्गाह्यञ्च जिह्वेन्द्रियम् । एकैकक्रियाकर्तृणि सर्वाणि इन्द्रियाणि किन्तु जिह्वेन्द्रियस्य द्वे कार्ये स्तः । वदनं-आस्वादनञ्च ।
कार्यद्वयकर्तरि अस्मिन् रसनेन्द्रिये नियन्त्रणमत्यावश्यकम् । अयमेव निःश्रेयसमार्गः । बहुभाषणेन अत्यशनेन वा व्यक्तेर्जीवनं समूलं नष्टं श्रूयते ।
ततो वचनभोजनयोरतिमात्रां निरुध्याऽवसरानवसरविवेकवता भवितव्यम् । तथोक्तं - "अवसरपठिता वाणी गुणगणरहितापि शोभते पुंसाम्" । इत्थं - परमशर्म प्रति जीवा अग्रेसरा भवन्ति ।
यथा वाचाऽस्मादृशां जीवनं स्वरसवाहि भवेत्, तथैव वाचा कदाचित् जीवनशैल्यव्यवस्थिता समाप्ताऽपि भवेत् ।
अतो वाग्विवेकं ज्ञात्वा वचस्तत्रैव वक्तव्यं यत्रोक्तं सफलं भवेत् ।
Page #95
--------------------------------------------------------------------------
________________
(२) आत्मा रक्ष्यः प्रयत्नेन
किञ्चिदन्तरात्मनि अवधार्य ईक्षेम । अस्माकमन्तःकरणस्य सहजाभिरुचिविषयत्वेन केन्द्रबिन्दौ किम् ? आत्मा अन्यत्किञ्चिद्वा ।
अस्मादृशां वाग्व्यवहारयोर्मध्ये कस्य प्रतिबिम्बमुपगूढम् तत्तु न मया पृच्छ्येत किन्तु एतावदेव ज्ञातुं इच्छामि यदुत - अस्मदन्तःकरणे किम् ?
अभीप्साया मध्यवर्त्तिरूपतया कस्य वासः ? आत्मद्रव्यस्याऽनात्मद्रव्यस्य वा ?
नवरं यथाकामं यस्याऽप्यभिलाषो भवेत् तस्य व्यवहारपथेऽवतारणप्रयासः करणीयः ।
एतद्विषये नाऽननुमतिः केषाञ्चिदपि ।
अत्र स्मरणीयं रहस्यमेतद् बहिरात्मदशायां केन्द्रबिन्दुवर्त्तित्वेन सन्ति जगद्वर्त्तिनः सर्वे पदार्थाः । अन्तरात्मदशायाः तु केन्द्रबिन्दौ संरक्षणीय आत्मा ।
०
८८
Page #96
--------------------------------------------------------------------------
________________
आङ्ग्लमूलम्
Destruction
काव्यानुवादः
मुनिकल्याणकीर्तिविजयः
You
don't have to burn
books to destroy
a culture.
Just get people
to stop
reading them !! !
८९
संस्कृतानुवादः
विनाशः
संस्कृतेर्विनाशनार्थं
पुस्तकानां दहनं
नैवाऽऽवश्यकम् ।
केवलं
जनाः पुस्तकपठनात्
निरुध्यन्ताम् !!
Page #97
--------------------------------------------------------------------------
________________
काव्यानुवादः
जीवन चोपाट गूर्जरमूलम् - प्रफुल्ला वोरा
रे भेरु ! जीवतर आटापाटा कोक'दि आसोपालव गूंथ्या, कोक'दि बावळ कांटा
रे भेरु ! जीवतर आटापाटा
कोक'दि बत्रीस भोजन मळतां कोक'दि तांसळ खाली
अमृतनो आसव पामो तो .
कोक दि खाली प्याली मनना आ सूना आंगणमां कोक'दि कंकु छांटा
रे भेरु ! जीवतर आटापाटा
मेघधनुषी सपनां लईने खेल समयना जोवा
सुख-दुःखनी चोपाटे जीत्या
दाव कदीए खोवा आयुषना आकाशे झील्या तेज-तिमिरना फटा
रे भेरु ! जीवतर आटापाटा
Page #98
--------------------------------------------------------------------------
________________
काव्यानुवादः
।
जीवनचतुरङ्गः अनु. मुनिधर्मकीर्तिविजयः
रे मित्र ! जीवने उच्चावचत्वम् कदाचिद् अशोकपर्णतोरणाः कदाचिच्च बबूलस्य कण्टकाः
रे मित्र ! जीवने उच्चावचत्वम्
कदाचिद् द्वात्रिंशद् भोजनानि कदाचित् स्थाली रिक्तका
अमृतासवोऽप्यवाप्येत
कदाचित् रिक्तं भाजनम् मनसोऽस्मिन् शून्याङ्गणे कदाचित् कुङ्कमच्छोटनम्
रे मित्र ! जीवने उच्चावचत्वम्
इन्द्रचापीयस्वप्नान् सङ्ग्रह्य कालदेवस्य क्रीडनं द्रष्टव्यम् . सुख-दुःखयोश्चतुरङ्गः विजेयः
कदाचित् स्वपर्यायोऽपि नाश्यः आयुराकाशेन प्राप्ताः तेजःतिमिरयोः मार्गाः
रे मित्र ! जीवने उच्चावचत्वम् ।
Page #99
--------------------------------------------------------------------------
________________
काव्यानुवादः मुनिकल्याणकीर्तिविजयः
3116614614 - Tengin Tsundue
संस्कृतानुवादः
My Tibetanness
Thirty nine year in exile yet no nation supports us not a single bloody nation !
मम तिब्बतीयत्वम् एकोनचत्वारिंशद् वर्षाणि निर्वासनस्य तथाऽपि न कोऽपि देशोऽस्माकं साहाय्यं करोति, नैकतमोऽपि निर्दयो देशः !!
we are refugees here people of a lost country, citizens to no nation.
वयं खल्विह शरणार्थिनः नष्टस्यैकस्य देशस्य जनाः, इदानीं न कस्याऽपि देशस्य नागरिकाः ।
Tibetans : the world's sympathy stock. तिब्बतीयाः - जगतोऽप्यनकम्पासामग्री. serene monks and bubbly traditionalists; प्रशान्ताः साधवः सौम्याश्च परम्पराभिमानिनः one lakh and several thousands odd, लक्षमेकं कानिचिच्च सहस्राणि nicely mixed steeped
सम्यक्तया मिश्रीभूय व्याप्तानि च in various assimilating cultural hegemonies. विविधसदृशसांस्कृतिकसमुदायेषु ।
१. चीनदेशीयाक्रमणैनिर्वासितानां भारतदेशे च शरणार्थितया निवसतां तिब्बतीयजनानामन्यतमस्यैकस्य प्रबुद्धयुवकस्येयमभिव्यक्तिरान्तरव्यथा च ।
९२
Page #100
--------------------------------------------------------------------------
________________
At every check post and office
""
I am an "Indian - Tibetan.
My registrations - certificate
I renew every year with a salaam.
A foreigher born in India,
I am more of an Indian
वैदेशिक एको भारते जातः
अहमाधिक्येन भारतीय एवाऽस्मि
केवलं मम बहुविवरं तिब्बतीयमास्यं विना,
except for my chinky Tibetan face, Nepali? Thai ? Japanese ? Chinese ? नेपालीयः ? थाइदेशीयः ? जपानीयः ? Naga ? Manipuri ? चीनीयः ? नागप्रदेशीयः ? मणिपुरीयः ?
but never the question - Tibetan?
परं न कदाऽपि पृष्टः
तिब्बतीयः ?
I am a Tibetan
But I am not from Tibet.
Never been there.
yet I dream
of dying there.
प्रत्येकं रक्षिस्थाने कार्यालये च अहमस्मि एको "भारतीय-तिब्बतीयः " । मम पञ्जीकरण-प्रमाणपत्राणि प्रतिवर्षमहं सप्रणामं तत्र नवीकारयामि ।
९३
-
अहमस्मि तिब्बतीयः.
परमहं तिब्बतान्नाऽऽगतः, न चाऽपि तत्र गतः कदाचित् । तथाऽपि स्वप्नायामि तत्रैव मरणाय !!
Page #101
--------------------------------------------------------------------------
________________
काव्यानुवादः
आङ्गलमूलम् - Tengin tsundue
Betrayal * My father died defending our home, our village, our country; I too wanted to fight. But we are Buddhists. People say we Should be peaceful and non-violent. so, I forgive my enemy But sometimes I feel I betrayed my father.....
संस्कृतानुवादः - मुनिकल्याणकीर्तिविजयः
विश्वासघात: मम पिता मृतः अस्मद्गृहं रक्षन्, ग्रामं रक्षन्, देशं च रक्षन्, . अहमपि योद्धमैच्छमेव शत्रुभिः । किन्तु वयं स्मः बौद्धाः । जनाः वदन्ति - अस्माभिः शान्तैरहिंसकैश्च भवितव्यम् । ततोऽहं मम शत्रून् क्षमयामि । किन्तु, कदाचित् अनुभवाम्यहं यन्मया मम पितुर्विश्वासघातः कृतः...
* इयमस्ति कस्यचन निर्वासितस्य भारतदेशे कृतवासस्य तिब्बतीयजनस्याऽऽन्तरव्यथा ।
९४
Page #102
--------------------------------------------------------------------------
________________
काव्यानुवादः मुनिकल्याणकीर्तिविजयः
आङ्ग्लमूलम्
Television - Groucho Marx I must say I find television very educational. The minute somebody turns it on, I go to the library and read a good book !!
संस्कृतानुवादः दूरदर्शनयन्त्रम् मयाऽवश्यं वक्तव्यं यद् दूरदर्शनयन्त्रं ममाऽतीव ज्ञानवर्धकं प्रतिभाति । यस्मिन् क्षणे कश्चन तत् प्रवर्तयेत् (तस्मिन्नेव क्षणे) अहं ग्रन्थालयं गच्छामि उत्तमं पुस्तकं च पठामि !!
Page #103
--------------------------------------------------------------------------
________________
कथा
दिव्यातिदिव्य - श्रीनेमिकुमारः
मुनितारकचन्द्रसागरः
तिर्यग्-लोकनाभिस्वरूपे असंख्यद्वीपसमुद्रपरिवृते एकलक्षयोजनप्रमाणे अत्रैव जम्बूद्वीपाभिधे द्वीपे दक्षिणार्धभरतक्षेत्रे मध्यखण्डे अस्ति श्रीपुरन्दरपुरप्रस्पर्धमाना द्वारिकाभिधा नगरी ।
सा च प्राकृतिकसौन्दर्येण परिपूता पुण्यशालिजनसमुदायसेविताऽऽसीत् । तस्यां नगर्यां त्रिखण्डाधिपतिः सार्धद्वादशसहस्रदेवतापरिसेवितपादारविन्दः श्रीकृष्णनामवासुदेवो राज्यमकरोत् ।
स स्वप्रतापातिशयेन जरासन्धनाम प्रतिवासुदेवं विजित्य दक्षिणार्धभरतक्षेत्रं शासति स्म । षोडशसहस्रभूपतयः तस्याऽऽज्ञां अम्लानपुष्पमालेव विनम्रभावेन स्वीकुर्वन्ति स्म ।
स बन्धुवर्गेषु पूर्णराकेन्दुवत् सौम्यभावं, शत्रुवर्गेषु आतङ्ककारिदुष्टजनेषु च भानुरिव तेजः प्रतापं बिभर्ति ।
एकदा केनाऽपि मङ्गलप्रसङ्गहेतुना तस्य राजपर्षदि अनेकानेकनरेन्द्रा वरनगर श्रेष्ठिनो वरसार्थवाहाश्च आमन्त्रिताः । विशेषातिथिस्वरूपेण हस्तिनापुरनराधिपाः महाराजयुधिष्ठिरादयः पञ्च पाण्डवाः तथा च समुद्रविजयपृथ्वीपतिनन्दन - अरिष्टनेमिकुमारादयो निमन्त्रिताः । श्रीकृष्ण - युधिष्ठिरादयः सर्वे भूपतयो गीत - सङ्गीत-नृत्यादिकार्यक्रमं निरीक्षितुं लग्नाः । तत्र श्रीनेमिकुमारस्तु औदासीन्येनैव निरीक्षते स्म ।
तत्र समयेऽकस्मादेव एको गुप्तचरः समागतः । श्रीकृष्णं प्रणम्य च तेन निवेदितं यद् - 'भोः ! कृपालुदेव ! भवत्प्रसादेन सर्वेऽपि नागरिका आनन्दप्रमोदेन वर्तन्ते । किन्तु अधुना अकाण्ड एव विक्षेपो जात:' । गुप्तचरवचनं श्रुत्वा श्रीकृष्णेन नृत्यादिसर्वं स्थगितं साश्चर्येण पृष्टं च किं भयम् ? केन वा विक्षेपः कृतः ?
-
गुप्तचरेणोक्तं-द्वारिकानगरतः योजनमात्रदूरमेव विशालसैन्यसहितौ कावपि द्वौ नृपावागतौ स्तः ।
गजाश्वरथसैनिकानां कोटिसङ्ख्याका विशालसागर इव विभासन्ते । अत्राऽन्तरे द्वारपालः समागतः प्रणम्य च निवेदितं यद् - भोः ! पूज्याः ! अनार्यदेशनरेश - जयसेन - विजयसेनयोर्दूतः समागतोऽस्ति ।
९६
Page #104
--------------------------------------------------------------------------
________________
हरिणोक्तं-'प्रेषयाऽन्तस्तम्' ।
तथेति उक्त्वा क्षणमात्रवेलायां द्वारपालो दूतेन सह आगतः । पृष्टं तस्मै श्रीकृष्णेन - 'कोऽस्ति भवान् ? कुतः केन हेतुना कस्याऽऽज्ञया वाऽऽगतोऽस्ति ?' दूतेनोक्तम् - 'अनार्यदेशनरेशमहाराजजयसेनस्तस्य लघुबन्धुर्विजयसेनश्च विशालया चतुरङ्गचम्वा सहेतो योजनमात्रदूरमेव समागतोऽस्ति । ___महापराक्रमिनृपेण जयसेनेन ज्ञापितं यद् - यदि भवान् स्वकीयं क्षेमकुशलं निर्विघ्नं राज्यं च इच्छेत् तर्हि मदीयामाज्ञामविलम्बेन शिरोधार्यां करोतु । अस्माकं भूपतिः स्वकीयपराक्रमातिशयेन भवन्तं क्रीडामात्रेणैव विजेतुं समर्थोऽस्ति अतो भवान् तत्र तूर्णं गत्वा तेषां पदातिभावं स्वीकरोतु तेषां महाप्रसादेन च अत्रैव निर्भयेन राज्यपालनं करोतु' ।
दूतवचनं निशम्य सकोपेन कृष्णेनोक्तं - ‘मा उल्लङ्घय सीमानम् ! हे दूत ! सम्पूर्ण विश्वे मां जेतुं न कोऽपि समर्थः । कदाचित् पङ्गुर्गिरिं लङ्घयेत्, कदाचित् वामनः स्वबलेनैव तुङ्गवृक्षफलं प्राप्नुयात्, कदाचित् कुण्ठोऽपि अम्बुनिधि तरेत्, कदाचित् वह्निना शैत्यं, वारिणा उष्णत्वं, विषेण जीवनं भवेत्, कदाचिच्च भानुः पश्चिमे उदयेत् !... परंतु श्रीकृष्णं पराजेतुं न कोऽपि देवोऽपि क्षमः । दूतोऽवध्यो भवेत्, अत: शीघ्रमेवेतो निर्गम्यताम्' । क्रोधाध्मातं श्रीकृष्णं दृष्ट्वा दूतः किञ्चित् विक्षुब्धो जातः । तथाऽपि शौर्येण तेनोक्तं - 'भो भूपाल ! यदि भवान् भवदीयामेतादृशीं यशोगाथामखण्डितस्वरूपेण द्रष्टुमच्छेत् तर्हि शीघ्रातिशीघ्रं शरणं स्वीकुरुतां, चेन्न तर्हि अलमत्र वागाडम्बरेण । - सज्जीभवतु सङ्ग्रामाय । तत्रैव शौर्यं दर्शयितव्यम् । महायोद्धानां सङ्ग्रामे एव पराक्रमः परीक्ष्यते न तु वाक्चातुर्येण' - इत्युक्त्वा दूतो निर्गतः ।
श्रीकृष्णेन स्वसेनापतिसमक्षं प्रेक्ष्य गदितं - 'सेनापते ! तत्क्षणमेवाऽऽस्माकिनी चतुरङ्गसेना सज्जीक्रियताम्' । आवेशान्वितेन सेनाधीशेन स्वकीयकरवालमुत्कृत्योक्तं - कृपालुपूज्याः ! वयं सज्जा एव, युद्धविषये वयं सदैव सज्जाः । अत्र न काऽपि चिन्ता कार्या' । __ अत्राऽन्तरे हस्तिनापुरनरेशधर्मराजयुधिष्ठिरेणोक्तं - 'महाराज ! कौरव-पाण्डवानां युद्धसमये भवता वयं भृशमुपकृता, अतोऽधुना भवता न काऽपि चिन्ता कर्तव्या । वयं पाण्डवा एव युद्धाय गमिष्यामः', आस्माकिनी युद्धलीला भवता प्रमोदेन द्रष्टव्या । वयं लीलयैव जयसेनं विजयसेनं च विजित्य विजयवरमाला प्राप्स्यामः । यतो वरकेसरिणा वरकुञ्जरस्य पराभव एव उचितः, क्षुद्रजन्तून् हत्वा तु वरकेसरी स्वकीयामेव प्रतिष्ठामधरीकरोति । अतो भवता तु नैव गन्तव्यम् । वयमेव विजयवरमालां लब्ध्वा भवत्कण्ठारोपितां करिष्यामः' ।
धर्मराजवचनं निशम्य सतोषेण श्रीकृष्णेनोक्तं - 'धर्मराज ! अवसरोचितं भवद्वाक्यं सत्यमस्ति । एवमेव भवतु । करोतु प्रयाणं; शिवास्ते सन्तु पन्थानः, विजयीभवतु' । ____ द्वितीयदिने प्रातर्विशालसैन्येन सह युधिष्ठिरभीमार्जुनसहदेवनकुलाख्याः पञ्च पाण्डवाः, अन्येऽपि महायोद्धारश्च निर्गताः । नगराद् बहिर्दै अपि सेने सज्जीभूय स्थिते आस्ताम् ।
Page #105
--------------------------------------------------------------------------
________________
जात: सूर्योदयः । पूरितः शखोद्घोषः । सेनानायकेनाऽऽक्रमणं कुर्वन्तु इत्यादेशः कृतः । ततो द्वयोरपि सेनयोः सैनिका अतिशयोत्साहेन परस्परं योद्धुं लग्नाः । ततो वरकर भैर्वरकरभाः, रथवरै रथवराः, कुञ्जरैः कुञ्जराः, अश्वैरश्वाः, सैनिकैः सैनिकाश्च सङ्घट्टितुमारब्धाः ।
सञ्जातं बहुजनमर्दनम् । ततः सस्पर्धं सतिरस्कारं जयसेनविजयसेनाभ्यामाहूताः पाण्डवा रणाय । पाण्डवैरपि स्वकीयायुधैर्दत्तं प्रत्युत्तरम् । महायोद्धानां परस्परं महाभयानकं युद्धं प्रेक्ष्य प्रक्षुभिताः सुभटाः, सर्वेऽपि महाबलिनां युद्धकौशलं पश्यन्ति स्म, स्व- स्वभूपस्योल्लासं च वर्धयन्ति स्म ।
1
अत्रान्तरे जयसेनविजयसेनयोर्युद्धकौशलं दृष्ट्वा पाण्डवाः किञ्चित् विक्षुब्धाः । जयसेन-विजयसेनाभ्यां चाऽनवरत बाणवर्षया पूरितमम्बरम् । तयोरतिशयगूढयुद्धव्यूहरचनया पाण्डवा जीवन्त एव बद्धाः सञ्जाता: । तेषां सैनिका इतस्ततो नष्टाः । पाण्डुपुत्राणामेतादृशीं दयनीयां स्थिति प्रेक्ष्य भानुरपि सलज्जमस्ताचलं प्रति प्रयातः ।
सञ्जातः सूर्यास्त:, स्थगितं युद्धं पाण्डवान् गृहीत्वा जयसेनविजयसेनौ गतौ स्वीयशिबिरं प्रति ।
अत्र पाण्डवानामेतादृशीं पराजयवार्तां श्रुत्वाऽत्यन्तं विस्मयान्वितो जातः श्रीकृष्णः । पुनः पुनस्तेन स समाचारदाता पृष्टो यद् - 'महाबलिष्ठयुधिष्ठिरादिपाण्डुपुत्राणामेतादृशी स्थितिः केन प्रकारेण निर्मिताः ? महाबलवान् भीमः तथा च धनुर्विद्यापारङ्गतोऽर्जुनस्तु समग्रे शस्त्रास्त्रविद्याकलापेऽतीव निपुणौ स्त: । तथाऽपि पाण्डवाः पराजिताः, एतत्तु महदाश्चर्यम् ! अतो मयाऽपि न प्रमादः कर्तव्यः । सावधानीभूय युद्धव्यूहरचना कर्तव्या येनाऽहं जयेयम्' ।
युद्धस्य द्वितीयदिने प्रातः स्वयं त्रिखण्डाधिपतिः श्रीकृष्णः सेनया सह निर्गतः ।
शूरवीराणां शौर्यमुत्साहं च वर्धयन् सञ्जातः सूर्योदयः । उद्घोषितः शङ्खारवः । प्रारब्धो .
महासङ्ग्रामः ।
संग्रामे धनुर्धारिणां बाणवर्षाऽऽषाढस्य मेघ इव भासते, खड्गैः खड्गानां सङ्घर्षेण सञ्जाता अग्निकणाः गगनाद् पतन्त्य उल्का इव भासन्ते ।
दिनस्य चतुर्थे यामे जयसेनविजयसेनौ श्रीकृष्णस्य सम्मुखमागतौ ।
तीव्रातितीव्रगत्या बाणवर्षया युद्धस्य शस्त्रास्त्रविद्याकलाकलापकौशलेन च ताभ्यां द्वाभ्यां श्रीकृष्णस्य सर्वशस्त्रास्त्रविद्या विफलीकृता । युद्धकौशलं दृष्ट्वा त्रिखण्डनरेशोऽपि अभिभूतो जातः । तेन स्वकीयमन्तिमशस्त्रस्वरूपं चक्ररत्नं स्मृतम् । तदैव जाज्वल्यमानं चक्ररत्नं प्रकटीभूतम् । सकोपेन श्रीकृष्णेन तच्चक्ररत्नं जयसेन-विजयसेनौ प्रति क्षिप्तं । किन्तु जयसेनेन तु तच्चक्ररत्नमपि बालक्रीडयैव लीलयैव गृहीतं चूर्णीकृतं च ।
साश्चर्येण श्रीकृष्णेन चिन्तितं, ननु अहं वासुदेवोऽस्मि उत न वा ? एतद्विचारे प्रचलति सति विजयसेनेन स्तम्भिनी विद्या प्रयुक्ता, तत्क्षणं श्रीकृष्णस्तत्रैव स्थिरो जातः, तीव्रगत्या जयसेनेन आगत्य
९८
Page #106
--------------------------------------------------------------------------
________________
दृढरज्ज्वा श्रीकृष्णो बद्ध:, स्वस्वामिन एतादृशीं स्थिति विज्ञाय सैनिकाः इतस्ततो नश्यन्ति । श्रीकृष्णं जयसेन - विजयसेनौ पूर्वे यत्र पाण्डवा आसन् तत्रैव स्वशिबिरं प्रति नितवन्तौ ! वासुदेवस्य दयनीयां स्थितिं निरीक्षितुमशक्तिमान् भानुरपि निस्तेजसा पश्चिमे दिशि निमग्नः ।
सञ्जातः सूर्यास्तः । शनैः शनैर्वर्धते निशायाः प्रभावः । एकस्मिन् बृहत्काष्ठपिञ्जरे, पाण्डवैः सह श्रीकृष्णः 'अथ किं कर्तव्यं अस्माभिः ? अथवा केन प्रकारेण इतो बहिर्गमिष्याम, इति वार्तालापं करोति ।
तदा भीमेनोक्तं - यदि अस्मादृशाः समर्थयोद्धारोऽपि जयसेनं विजयसेनं च पराजेतुमसमर्थास्तर्हि न कोऽपि क्षमोऽस्मिन् विश्वे तं पराजयीकरणाय । भीमवचनं श्रुत्वा हरिणोक्तं - नोच्यं एतादृग्निराशाजनकं वचनम् । अधुनाऽपि विद्यते द्वारिकायामेव एकः सिंहपुरुषः, यो मदोन्मत्तशत्रुकुम्भिकुम्भं भेत्तुं सम्पूर्णरीत्यैव समर्थोऽस्ति । तस्य एकयैव गर्जनया सर्वेऽपि मदोन्मत्तहस्तिनो भीत भीतमूषका इव, शृगाला इव मृगा इव पलायिष्यन्ति ।
सर्वैः साश्चर्येण सानन्देन पृष्टं - कोऽस्ति सः महापुरुषः योऽस्माकं मुक्तये महेन्द्र इव समर्थोऽस्ति ? श्रीकृष्णेनोक्तं - समुद्रविजयपृथिवीपतिसूनुः, यदुवंशसमुद्रेन्दुः, यदुवंशकुलकेतुः पूज्यश्रीनेमिकुमारः । स एव एको महापुरुषोऽस्मदापन्निवारणाय समर्थोऽस्ति । अत्र न कोऽपि सन्देहः ।
अथ युधिष्ठिरेणोक्तं - तर्हि विना विलम्बेन एको विश्वसनीयानुचरस्तत्र प्रेषणीयः । ओम् इत्युक्त्वा श्रीकृष्णेन केनाऽपि प्रकारेण एको विश्वसनीयः चतुरदूतो विमुक्तिहेतवे प्रार्थनायै प्रेषितः ।
दूतस्तीव्रगत्या गुप्तरीत्या च श्रीनेमिकुमारसमीपं गतः । प्रणम्य च तेनोक्तं यद्, कुवलयदलविलासलासिकृपादृष्टिधारक ! भोः ! कुपालुदेव ! पाण्डवाः श्रीकृष्णश्च विकटसङ्कटे पतिताः । तेषां सङ्कटनिवारणायाऽस्मिन् विश्वे भवानेव एकः सिंहपुरुषोऽस्ति । अतो भवान् कृपां कृत्वा श्वस्तने दिने प्रात: शस्त्रास्त्रैः सज्जीभूय प्रचण्डसिंहनादं करोतु, मदोन्मत्तशत्रुकुम्भिनां कुम्भं च प्रस्फोट्य, विजयवरमालां वृणोतु, श्रीकृष्णादीनां दुःखं हरतु । भवादृशां महापुंसां जीवनं परोपकाराय एव भवति । " परदुःखेषु दुःखिनः परसुखेषु सुखिनः महात्मनः शरणं न व्यर्थम् अपि तु निश्चितेनैव सफलीभवति" ।
एतच्छ्रुत्वा सकलविश्वहितचिन्तकश्रीनेमिकुमारेणोक्तं - एवमेव भवतु, श्वः प्रातर् अहं प्रयाणं करिष्यामि । ततो द्वितीये दिने प्रणताशेषदेव-दानव - नरेन्द्रकिरीटांशुविराजितपादपङ्कजः, अशेषजनवन्द्यः, स्नेहनिर्भरमानसः, समस्तभूतसङ्घातशरणस्यैकाधारः, स्वशौर्यत्वेनाऽधरीकृतकोटिचक्रिबलः, वरस्यन्दनारूढः श्रीनेमिकुमारः प्रयाणं करोति ।
यथा कुरङ्गसमूहविसर्जनाय एक एव वरकेसरी अलं भवेत्, तथैव श्रीनेमिकुमार एकाकी एव सङ्ग्रामभूमिं प्राप्तः । तत्र दृष्टा: श्रीनेमिकुमारेण युद्धभूमौ जयसेनविजयसेनयोः शस्त्रास्त्रान्वितसैनिकगजाश्वरथानां कोटीसङ्ख्याः ।
९९
Page #107
--------------------------------------------------------------------------
________________
अथ प्रभुणा चिन्तितं यद् - यद्यहं युद्धं करिष्यामि तर्हि मदीयशस्त्रास्त्राणां प्रहारेण न कोऽपि जीवितुं शक्तिमान् भविष्यति ।
अतः सङ्ग्रामशीर्षस्थनागराट् इव श्रीनेमिकुमारः केवलं प्रचण्डशङ्खोद्घोषं कृतवान् ।
शङ्खस्थप्रचण्डध्वनिना त्रस्ताः सर्वेऽपि गजाः सैनिकाश्च भीतभीताः केचिन्नष्टाः, केचिद् विगतचेतना अभवन् । सद्य एव हाहारवं कुर्वाणा: 'त्रायस्य देव ! त्रायस्व देव ! अस्माभिर्न सह्य एष ध्वनि रिति वदन्ति । प्रचण्डध्वनिना त्रुटिताः पर्वताः, क्षुब्धः समुद्रः, जातं भूकम्पनं, देवा अपि त्रस्ताः । ___ अत्राऽन्तरे - हे प्रभो ! प्रसीद.... प्रसीद... क्षमस्व... क्षमस्व... प्रसन्नीभव... प्रसन्नीभव... इति वदन्तौ तौ जयसेन-विजयसेनौ श्रीनेमिकुमारस्य पादारविन्दयोः पतितौ । ___ अतः श्रीनेमिकुमारेण शङ्खारवः स्थगितः । तदा चैव गजाश्चरथसैनिकशस्त्रास्त्राणीत्यादि सर्वमदृश्यं जातम् । वातावरणं समीचीनं जातं, मन्दं मन्दं सुगन्धो वायुर्वाति स्म । पाण्डवाः श्रीकृष्णश्चाऽपि क्षणमात्रेणैव तत्राऽऽगताः । __ अम्बराद् देवैः पुष्पवृष्टिः कृता । अथ साश्चर्येण युधिष्ठिरेण श्रीकृष्णेनाऽपि च श्रीनेमिकुमारः पृष्टः - 'प्रभो ! एतद् किं आश्चर्यमस्ति ? क्व सकलसङ्क्लेशकारिका दुःखदायिका भय-शोकवधिका युद्धस्य परिस्थितिः ? क्व चैतादृशी हृदयालादकारिणी मनोरमा परिस्थितिः ? कुत्र गतौ तौ जयसेनविजयसेनौ ? वयं चाऽत्र केन प्रकारेणाऽऽगताः ?' इति यावद् - अनेके सङ्कल्पविकल्पाः तेषां मनसि प्रचलन्ति तावदेव तेषां पुरस्ताद् द्वौ दिव्याकृतिधारकौ देवौ समुपस्थितौ । देवाभ्यां श्रीनेमिकुमारस्य वरा स्तुतिः कृता । ललाटतटविन्यस्तकरेणैकेन देवेनोक्तं -
हे स्वप्रभोद्भासितत्रिलोक ! अष्टाधिकसहस्रलक्षणधर ! शौर्यपराक्रमपुञ्ज ! तेजसा जितसहस्रांशो । सौम्यत्वेनाऽधरीकृतचन्द्र ! गाम्भीर्येण जितार्णव ! स्थैर्येण पराजितमेरुपर्वत ! श्रीनेमिकुमार !
जय त्वं विभो ! त्रिलोकसुखदायिन् ! महापराक्रमिणः सुरासुरेन्द्रनरेन्द्रा अपि भवन्तं भापयितुं जेतुं वा न क्षमाः ।
सुरलोकसभायां देवेन्द्रेण भवतो बल-पराक्रम-शौर्याणां स्तुतिः कृता । महामोहविलसितचेतसा मया सा स्तुतिर्न सम्यग्रीत्या स्वीकृता । देवेन्द्रस्य वचने न विश्वासः कृतः, न च सोढा भवतः प्रशंसा । अतो भवत्परीक्षणार्थमावामागतौ ।
प्रसन्नीभूय भवता अस्माकमेष घोरातिघोरोऽपराधः क्षन्तव्यः । यतः कृपावन्त एव हि भवन्ति महात्मानः इत्युक्त्वा सर्वेऽपि स्व-स्वस्थानं गताः ।
१००
Page #108
--------------------------------------------------------------------------
________________
कथा
विश्लानि संस्कारमूल्यानि मुनिः अक्षयरत्नविजयः
(१) विरलं संशोधनप्रेम थोमसआल्वाओडिसनः । येन विद्युद्दीपसंशोधनाय ३६ सहस्राणि प्रयोगाः कृताः । तदनु साफल्यमपि . प्राप्तम् । इयं तदीया जीवनघटना - .. विद्युद्दीपसंशोधनकार्यं तदा प्रवर्तमानमासीत् । तत्रान्तरे थोमसआल्वाओडिसनः स्वस्य पूर्ण समयं संशोधनालये व्यतीतं करोति स्म । स्वस्य स्त्रिया सहाऽपि वार्तालापं न करोति स्म । अत एकस्मिन् दिने तस्य गृहिण्या कथितम् - "भोः ! रविवासरे तु संशोधनालयं त्यक्तव्यम् । यतो मनो हरितं भवेत् ।"
अडिसन उक्तवान् - "त्वदीया वार्ता नूनं सत्या । परं, संशोधनालयं प्रतिषिध्याऽहं क्व गच्छेयम् ?" पत्नी उक्तवती - “यत्र गन्तुं मनो भवेत्, तत्र गन्तव्यम् ।" 'ओम्' - अडिसन उक्तवान् ।
तत्पश्चाद् रविवासर आगतः । ओडिसनो यथानित्यक्रमं वस्त्राणि परिधाय गृहाद् बहिनिर्गच्छति स्म, तदा पत्नी पृष्टवती - "भोः ! अद्य रविवासरोऽस्ति । क्व गच्छति भवान् ?"
ओडिसनः प्रत्युक्तवान् - "यत्र गमनार्थं मे मनोऽस्ति ।" "अद्य क्व गन्तुं मनोऽस्ति भवतः ?" - पत्नी पुनः पृष्टवती । अथ अडिसनः सस्मितं प्रत्युक्तवान् - "संशोधनालयगमनं विना मे मनो क्व भवेत् ?" उत्तरं श्रुत्वा पत्नी अपि तस्य संशोधनप्रेम हृदयेन वन्दितवती । एतावत्संशोधनस्नेहादेव थोमसआल्वाओडिसनः सिद्धि प्राप्तवान् । नाऽनुभूयते यदस्माकं परमात्मस्नेहोऽपि एतावद् भवेत्तदा मोक्षप्राप्तिः - परमात्मप्राप्तिर्नूनं भवेत् ?
१०१
Page #109
--------------------------------------------------------------------------
________________
(२) तदाकारव्यक्तित्वम् वैज्ञानिकथोमसआल्वाओडिसनस्य जीवने दृश्यमानेयमन्या प्रेरकघटना । अडिसनः प्रयोगशालायां नित्यं विभिन्नप्रयोगान् करोति स्म । स प्रयोगशालायां प्रविशेत्, प्रयोगांश्च प्रारभेत तदनु प्रयोगेष्वेतादृशस्तदाकारो भवेद् यद् देहस्याऽस्तित्वमपि विस्मरेत् ।
अथैकदा अडिसनः प्रयोगशालायां प्रयोगकार्ये निमग्न आसीत् । अडिसनस्य निःशेषमस्तित्वं ननु प्रयोगमयमभवत् । तदानीं तस्य कश्चित् सुहृत् तत्राऽऽगतः । प्रयोगे तन्मयमेडिसनं दृष्ट्वा मौनमवधार्य स उच्चासनं (Chair) गृहीत्वोपविष्टवान् । . केनचित् क्षणेन अडिसनस्य किङ्करः स्थाल्यां भोजनं नीत्वाऽऽगतः । अडिसनस्य कृते लघुपल्यङ्के भोजनस्थाली रक्षित्वा किङ्करः प्रत्यागतः ।
तत्रोपविष्टं मित्रं मनसि चिन्तितवद् - 'अधुनाऽहं क्षुधापीडितोऽस्मि । अतो भोजनमिदमहमेव भक्षयेयम् ।' विचिन्त्येदं सर्वं भोजनं तेन भक्षितम् ।
पश्चात् स सहचर: 'अथ अडिसनस्य किमुत्तरं देयमिति विमोहितो जातः । रिक्ता स्थाली लघुपल्यङ्के रक्षिताऽऽसीत् ।
अत्रान्तरे अडिसनः प्रयोगाद् विमुक्तोऽभूत् । स स्वस्थानादुत्थिवान्, मित्रं च दृष्टवान् । स उपमित्रमागतः । तत्र रिक्तां स्थालीं दृष्ट्वा अडिसनो मित्रमुक्तवान् -"रे मित्र ! त्वं मनाग् विलम्बेनाऽऽगतः । पश्य, रिक्तेयं स्थाली । मयाऽधुनैव भोजनं कृतम् । अहं दुःखमनुभवामि, यतो मया तव भोजनं न कारितम् ।"
अडिसनस्य सहचरस्तेनोक्तं श्रुत्वा साश्चर्यो बभूव । स्वस्य मित्रस्य कृते तस्य हृदयेऽतिशय आदर उद्भूतः - 'स्वं मित्रं स्वकार्ये कीदृशं तदाकारमस्ति ? प्रयोगस्य तन्मयतायां भोजनं केन कृतमिति सत्यमपि स न जानाति । धन्यवादा.ऽयं सुहृत्, धन्यवादा)ऽहमपि यत ईदृशमुत्तमं मित्रं मया प्राप्तमिति' ।
अधुना विश्वस्य जना बहुधा अदाकारा भवन्ति । अदाकारा नाम अभिनयकारकाः । परमेकं जीवनपरिवर्तकं वाक्यं नित्यं स्मरणपटे रक्षितव्यम् – 'अदाकारा मुक्तिं न प्राप्नुवन्ति, अपि तु ये सत्कार्येषु तदाकारा भवन्ति त एव निराकारा भवन्ति, अर्थात् परमपदं (मुक्ति) प्राप्तुमर्हन्ती'ति ।
आगम्यताम् - वयं थोमसआल्वाअडिसनवत् स्वसाधनासु तदाकारा भवेम, ततश्च निराकारा भवेम - संसारतीरं प्राप्नुयामेति सारांशः ।।
(३) आदर्शस्वस्थता गुर्जरभूपालसिद्धराजस्येयं कथा । सिद्धराजो बाल आसीत् तदैव पितुः कर्णदेवस्य जीवनविरामोऽभवत् । अतो निर्नाथगूर्जरस्य नाथो बालसिद्धराजोऽभवत् ।
१०२ .
Page #110
--------------------------------------------------------------------------
________________
कस्मिश्चिद्दिने 'बालभूपालसिद्धराजो गूर्जरराज्यं पालयति' इति सन्देशो दिल्हीसिंहासनस्थयवनराजेन प्राप्तः । तेन चिन्तितम् - 'कीदृशोऽयं बालराजः ? स भीरुरस्ति शूरोऽस्ति वेति ज्ञातव्यमस्ति ।' । ___ यवनराजेन बालनृपमाकारयितुं सन्देशः प्रेषितः । यवनराजस्य वार्ताहरो गूर्जरदेशस्य राजसभायामागत्य सन्देशं दत्तवान् । __तदा गूर्जरराजमात्रा प्रोक्तम् - "बालनृपः कैश्चिद् दिनैदिल्हीनगरं नूनमागमिष्यति ।"
वार्ताहरः सत्कृत्य प्रतिप्रेषितः । परं, राजमाता भयं प्राप्तवती, यतः सा जानाति स्म 'यवनराजेन मम पुत्रः परीक्षणार्थमेवाऽऽकारितोऽस्ति । यदि सिद्धराजस्तस्य परीक्षणे निर्बलो हीनश्च प्रमाणितो भविष्यति तर्हि स आक्रमणकारी नरेशो गूर्जरदेशं प्रत्याक्रामेदपि ।
__ अतस्तयाऽऽन्वहं सिद्धराजस्य शिक्षणमारब्धम् - "पुत्र ! राजा यदीमं प्रश्नं कुर्यात् तीदमुत्तरं देयम्, यदि तेनाऽयं प्रश्नः क्रियेत तीदमुत्तरं देयमिति ।"
एवं गमनस्य समय आगतः । अधुनाऽपि राजमात्रा पृष्टम् - "वत्स ! उत्तराणि तु ते स्मरणे सन्ति ननु ?" . . सिद्धराजेन सात्मविश्वासं प्रत्युक्तम् - "मातः ! तेषां चिन्तां मा कुरु । एवमपि चिन्तय - त्वया यत् शिक्षणं न दत्तम्, तादृशं किञ्चित् प्रक्ष्यते तदाऽहं किं करिष्यामि ? अत आशीर्वादो देयः 'अहं सफलो भवेयमि'ति ।"
सिद्धराज राजपुरुषैः सह दिल्हीनगरं गतः । राजसभायां राज्ञा सह प्रथमं मिलनं जातम् । प्रथमे च मिलनप्रसङ्ग एव दिल्हीनरेशः सहसा सिद्धराजस्य करौ गृहीत्वा पृष्टवान् - "अधुना त्वं नितरां ममाऽधीनोऽस्मि । वद, अथ किं करिष्यसि ?"
प्रश्नं श्रुत्वाऽनन्तरक्षण एव सिद्धराजो मुक्तहास्योऽभवत् । दिल्हीनरेशः पुनरुक्तवान् - "बालराज ! हास्यं न कर्तव्यम्, शीघ्रमुत्तरं देयम् ।" ___ सिद्धराजो मिष्टभाषायां प्राह - "राजन् ! अथ मया किञ्चिदपि कर्तव्यं नास्ति । भवानस्मत्वैदिकपरम्परां न जानाति । तत्र पाणिग्रहणवेलायां पुंसा स्त्र्यि एक एव करो गृह्येत, तत आजीवनं तस्याः संरक्षणस्य भारं स पुरुषो निर्वहति । भवता तु मम द्वौ करौ गृहीतौ स्तः, अतो न केवलं मम, अपि तु मम राज्यस्य संरक्षणभारोऽपि भवतोऽभूत् । अतो मम का चिन्ता भवेत् ? किं च कृत्यं भवेत् ?"
लघोः सिद्धराजस्य चातुर्यपूर्ण निर्भयमुत्तरं श्रुत्वा समग्रसभायां 'अहो अहो' इति ध्वनिर्जातः । दिल्हीनरेशोऽपि प्रभावितः सञ्जातः । अथ सिद्धराजः सत्कृत्य सबहुमानं प्रतिप्रेषितः । ___ जीवने प्रतिसमयं प्रतिप्रसङ्गं सिद्धराजवत् स्वस्थता धार्या । यतः स्वस्थता कार्यसाधिका भवति, अस्वस्थता च कार्यबाधिका भवतीति कथातात्पर्यम् ।
१०३
Page #111
--------------------------------------------------------------------------
________________
(४) मतेर्जाड्यम् काचिन्मुग्धा महिलाऽऽसीत् । साऽतिधर्मानुरागिणी आसीत्, परमज्ञाऽऽसीत् ।। एकदा सा कस्यचित् संन्यासिनः प्रवचनश्रवणं कर्तुं बहिर्नगरं गता।
अनुप्रवचनं तया सन्यासिनः पार्वे जपक्रियार्थमेको मन्त्रो याचितः । सन्न्यासिना मन्त्री दत्तः 'ॐ नमो भगवते वासुदेवाय' इति ।
मन्त्रमन्तःकरणे स्थापित्वा सा गृहं गता। तस्या आनन्दस्तस्मिन् दिनेऽपरिमितो दृश्यते स्म । यतस्तया गुरोः समीपान्मन्त्रोऽधिगत आसीत् ।
गृहकार्य समाप्य शुद्धवस्त्राणि च परिधाय सा जपक्रियार्थमुपविष्टा । परं तदैव तन्मनसि स्वस्थताहारकं चिन्तनं समुद्भुतम् । ___यतस्तस्याः पत्यु माऽपि 'वासुदेव' इत्यासीत् । मन्त्रेऽपि 'वासुदेव' इति शब्द आसीत् । अतस्तया चिन्तितं यत् - आर्यमहिलया पत्युर्नाम न ग्राह्यम् । इतो मन्त्रजपोऽपि आवश्यकोऽस्ति । अथ किं कर्तव्यमिति सा चिन्तितवती। ___कतिपयः समयव्ययो जातः । तदनु तया महिलया निर्णीतं यत् पत्यु माऽपि न ग्राह्यम्, तथाऽपि जपक्रिया त्ववश्यं करणीया' इति । तया जपमन्त्रः परिवर्तितः । अथ मन्त्र ईदृश आसीत् - 'ॐ नमो भगवते मच्छिशोर्जनकाय' इति ।
लघुप्रसङ्गोऽयं हास्योत्पादको ज्ञायते । परमस्मिन् प्रसङ्गेऽप्येका वार्ता नूनमवगन्तव्याऽस्ति यदुक्तमहिलाया मौयं जाड्यं वा हृदयस्य न, अपि तु बुद्धेर्जाड्यमासीत् । आर्षः कथयतीदृशं मतेर्जाड्यमल्पहानिकारकं भवति, परं हृदयस्य जाड्यं त्वत्यन्तहानिकारकं भवतीति नूनं ज्ञातव्यम् । हृदयस्य जाड्यं नाम भावनाशून्यता । इयं भावनाशून्यताऽस्माकमात्मानमसत्स्थानेषु पातयति । अतो हृदयं नित्यं भावनासम्पन्न विधेयम् ।
१०४
Page #112
--------------------------------------------------------------------------
________________
कथा
समर्पणं श्रेष्ठदानम्
मुनिः रम्याङ्गरत्नविजयः
एकदा महात्मा गान्धी महोदय: स्वकीयतर्कुसमूहार्थम् 'ओरिस्साराज्यस्य ग्रामानुग्रामं विहृत्य धनराशिप्रचया यत्नं करोति स्म ।
भारतवर्षस्य नैकेषु राज्येषु एतद्राज्यस्य गणना दरिद्रतायां ख्याता । एकस्यां सभायां अस्मद्राष्ट्रपिता जनान्नुद्दिश्य 'दानं ददतु' इति सातिशयतया निवेदितवान् । तदा अर्धावनतकन्धरी जीर्णशीर्णवस्त्रवती च कर्पासकणिकेव श्वेतकेशवती एका वयोवृद्धा उत्थिता । राष्ट्रपित्रनुयायिनश्च महात्मसमीपं गमनप्रवृत्तां तामवरोद्धुं लग्नाः । किन्तु सा दृढतया त्वरितगत्या च यत्र पिता आसीनः, तत्र गता । तदनन्तरं पितुश्चरणस्पर्शं कृत्वा तया स्वीयजीर्णकशाटिकाया अन्तस्थबद्धाया ग्रन्थेर्मध्यादेकं रूप्यकं पितुः पादारविन्दयोः समर्पितम् । शीघ्रमेव तद्रूप्यकं गृहीत्वा पित्रा रक्षणीयत्वेन समुद्ग स्थापितम् । तदा तर्कसङ्घस्य सर्वराशेर्व्यवस्थाकारी "जमनालाल बजाज "नामा पितरं वक्ति स्म - 'हे पितः ! एतद्रूप्यकं मह्यं ददातु। अहं दानपेटिकायां निधाय संरक्षिष्यामि । लक्ष - सहस्राणामपि दानस्य रक्षणमस्माभिः क्रियते एव - तदैकस्याऽस्य रूपकस्य किमस्माकं भारो लगिष्यति वा ?'
-
सगौरवं पिता उवाच वृद्धासत्करूप्यकस्य लक्षकोटीदानादपि महत्तमं माहात्म्यं, न किमपि वस्तु तस्य मूल्याङ्कनं कर्तुमर्हति । भ्रातः ! लक्षाधिपतीनां सहस्रदानादप्यस्या दरिद्रवृद्धाया रूप्यकदानमपि तत्कारणात् श्लाघ्यं यत्तैः श्रीमद्भिः स्वीयनिधौ बहु संरक्ष्य किञ्चिदेव दत्तम् । अनया वृद्धया तु समग्रं जीवनसर्वस्वं स्वकीयं दत्तम्, कतिचिद् वेलानां भोजनमपि त्यक्तं सम्भवेत्, अतः मन्मनसि कोटिरूप्यकेभ्योऽपि एतद्रूप्यकं महार्घ्यमस्ति । एतादृशं समीचीनं वृत्तं निशम्याऽस्याऽवतारणं वयं स्वजीवने एवं कुर्महे यत् - धनस्य मूर्च्छा परित्यज्याऽस्माभिरुदारवृत्तिभिर्भविर्तव्यम् । तेन आत्मा त्यागसंस्कारवान् भवेत् । धनं च वायुतरत्तरङ्गवत् सर्वथा तरलं ज्ञातव्यम् । ततश्च आत्मा कदाचित्तस्य नाशेऽपि स्वस्थतया वसेत् ।
I
१०५
Page #113
--------------------------------------------------------------------------
________________
मर्म नर्म - कीर्तित्रयी
- + -
'ह्यो रात्रौ स्वप्ने मया नूतनं गृहं क्रीतम् !' 'एवम् ? तर्हि सहैव गृहोपस्करोऽपि क्रीतो वा ?' 'नैव भोः !, समकालं तादृशं व्ययं कर्तुं नाऽहं शक्तः !!'
- +
'भवान् वर्षशतायुष्को जातस्तत्र किं वा रहस्यम् ?' 'तत्र किं वा रहस्यं भवेत् ? अहं वर्षशतात् पूर्वं जातस्तदेव........!'
.. 'किञ्चन सङ्गीतं तथा भवति यद् बाधिर्यनिवारणे लाभप्रदं भवति' ।
'किञ्चन सङ्गीतं तादृशमपि भवति यत्र बाधिर्यमेव लाभप्रदं भवेत् !!'
+
एकस्मिन् शाटिकापणे फलकमेकं लम्बितमासीत्, तत्र च लिखितमासीत् यद् - "यदि भवती घण्टार्धेनैव क्रेतव्यां शाटिकां चिनुयात् तदा सा मूल्यार्धेनैव प्रदास्यते" ।
१०६
Page #114
--------------------------------------------------------------------------
________________
+
रुग्णः
चिकित्सकः भवते रुचितं वा ?
रुग्ण:
निद्रानाशमधिकृत्य भवतः प्रवचनमुत्तममासीत् ।
अभिभाषकमहोदय ! मया श्रुतं यद् भवान् द्वयोः प्रश्नयोरुत्तरदानार्थं द्विशतं रूप्यकाणि गृह्णातीति, किं तत् सत्यम् ?
आम् सत्यम् । अधुना द्वितीयं प्रश्नं पृच्छतु !!
शिक्षक:
आम्, तत् शृण्वत एव मम निद्रा समागता ! !
(न्यायालये)
अभिभाषकः (साक्षिणं) महोदय ! भवता यः शपथ गृहीतोऽस्ति तस्य तात्पर्यं बुध्यते भवान् ? बाढं बुध्ये । तस्य तात्पर्यमिदं यत् मया यदप्युच्येत तत्र न किमपि परिवर्तनं कर्तव्यमिति !!
कमल:
(विद्यार्थिभ्यः) अस्मिन् वर्षे भवन्तः सर्वेऽपि पूर्वतनकक्षातोऽग्रेतनकक्षां प्राप्ताः । अद्या भवतः प्रथमं दिनम् । अत्र तादृशं किमस्ति यदितो दशवर्षेभ्यः पूर्वं नाऽऽसीत् ? किं कोsप्युत्तरं दास्यति ?
महोदय ! अहं मम भ्राता च !!
१०७
Page #115
--------------------------------------------------------------------------
________________
न्यायाधीशः (साक्षिणं) यदा कलहः प्रवर्तमानो भवता दृष्टस्तदा किमर्थं भवान् अपराधिनः सहायतार्थं
न गतः ? साक्षी महोदय ! यदा कलहः प्रवर्तमान आसीत् तदा को वाऽपराधी भविष्यतीति निश्चितं
नाऽऽसीत् !!
(न्यायालये) साक्षिणी मदीयशब्दानां विश्वासो यदि न स्यात् तदा भवतु, मम न काऽपि हानिः । वस्तुतोऽहं
सत्येन वृता। अभिभाषकः एवं, तर्हि भवती विधवा कदाऽभवत् ??
वृद्धो मुल्ला नासीरुद्दीन: सुहृद्-गोष्ठ्यां प्रवर्तमानायां कथितवान् -
"भो ! यदाऽहं विंशतिवयस्क आसं तदा यादृशी दैहिकशक्तिर्मयि विद्यते स्म तादृशी त्वद्याऽपि विद्यते" ।
" नैव स्यात् तथा, भवता सप्रमाणं सिद्धं कर्तव्यं भवद्वचनम्" - इति मित्राण्यवदन् ।
"भोः ! मम गृहे या पेषणी वर्तते तस्या एकं प्रस्तरखण्डमहं विंशतितमे वयस्यपि वोढुं न शक्त आसीत्, इदानीमपि च नैव शक्तः !!
१०८
Page #116
--------------------------------------------------------------------------
________________
प्राकृतविभाग:
कथा
नमुक्कारमंतष्पहावे सिरिजिणदाससेडिकहा (सिरिभद्देसरसूरिविरइय - कहावलीगंथे ) आ.भद्रेश्वरसूरिः
अत्थि मगहाविसए रायगिहे नयरे सेणिओ राया । तेण य कयाइ सव्वसुत्थत्तणओ संपत्ते सरयसमए उग्घोसावियं जहा- 'भो ! सव्वेण वि नयरजणेण गंतूणुज्जाणं सविभवाणुरूवो कायव्वो .कोमुइमहूसवो' । परिवसइ य तत्थ सुप्पसिद्धो भावियप्पओ सावओ जिणदासो नाम इब्भो । तस्स य भज्जाओ अट्ठ । तं जहा पउमावई १, वीहिणी २, तरुणी ३, चमरी ४, पंडिया ५, छन्निया ६, सरणी ७, अमया ८ य । सो य जिणदासो कोमुईमहूसवुग्घोसणं सोऊण 'कहं पुण चाउम्मासियाइतिहीसु सव्वपव्वेसु चेइयपूयमहं काहं ?' ति चितित्ता ढोयणयं गहायाऽऽगओ रायंतियं । समप्पियं च दरिसणिज्जं । पणओ पुच्छइ राया- 'भणह कज्जं' । जिणदासो भणइ 'अहं चाउम्मासियं चेइयपूयं काउमिच्छामि । भणियं चाऽऽगमे -
-
संवच्छर-चाउम्मासिय-अट्ठाहियासु य तिहीसु ।
सव्वायरेण लग्गइ, जिणवरपूया - तवगुणेसु ॥ ( उपदेशमाला)
ता पसायं काउं तं ममाऽणुजाणेउ' । रन्ना भणियं 'जिणदास ! कुणसु जहासमीहियं धम्मकिच्चं, पितमणुमयामि' । तओ जिणदासो 'महापसायं 'ति वोत्तुं गओ सगिहं । तत्तो य सकलत्तो चेइयभवणे भत्ती कुणइ जिणिदाणं ण्हवणाइपूयं । कहियं च -
ण्हाणं-विलेवणं-मल्लं - गंधं चाऽलंकियं बलिं । दीवजुयं जिणे कुज्जा, निच्चं पूयट्ठगं गिही ॥ हा सगुणं पुणं, सहस्सं च विलेवणे । सयसाहस्सियं मल्ले, अणंतं गीय-वाइये ॥
कपूयाविहाणा य देवे वंदित्ता सव्वे वि कुणंति धम्मजागरियं । तत्थ वि जिणदासो सयं वाएइ मद्दलं । तब्भज्जाणं च चत्तारि जणीओ गायंति देवाहिदेवथुइओ, तिण्णि य वाइंति वंसं, एगा पुण लहुगा
१०९
Page #117
--------------------------------------------------------------------------
________________
ट्टं कुइ । तस्स चेइयभवणस्स जगईए चेव देवपूजानिमित्तं कराविया चिट्ठइ जाइवाडिया जाए पविट्ठा न जाणिज्जंति चोरा वि जहा रुप्पखुरय- लोहखुरय त्ति रुप्पखुरय- लोहखुरयकहा भण्ण
रायगिहे नयरे सेणियनामाऽऽसि राया । तहा रुप्पखुरओ नाम चोरो । सो य विहत्थिमेत्तेण वि खत्तविवरेणं पविसइ पावेइ य महंतं दव्वसंचयं । न य सो महाजत्तेण वि हेरिज्जतों पाविज्जइ । तस्स य बहुविहवित्ताण चोरियाकुसलो लोहखुरओ नाम पुत्तो । सो य बालभावो चेव सिक्खविओ कउलप्पारण पिउणा, जहा - 'पुत्त ! न तए सेवडएहिं सह संसग्गा कायव्वा, न तव्वयणं सोयव्वं । सुए वि य अरडणा करेहिं पिहाणीया कन्ना । कायव्वं च सव्वहा तए ममेगमेयं वयणं'ति मन्त्रमाणो पेच्छइ जत्थ साहुणो तओ दूरं वच्चइ | मुसइ य तो अट्टंगुलेणाऽवि खत्तविवरेण समिद्धट्ठाणं । समिद्धं च तं जिणदासचेइयभवणं ति सणाए लोहखुरो सुन्नं नगरं वियाणिऊण जहा कोइ न याणइ तहा पओससमए पविट्ठो तच्चेइयजाइवाडियाए निल्लुक्कित्ता य ठिओ त्ति ।
ओ सेणिओ राया 'किं सो जिणदासो देवपूयं करेइ ? किं वा ईसालुयत्तणेणं सभज्जाओ मेल्लिउं नसक्केइ ? ता निच्छयं जाणामि'त्ति चिंतित्ता सहाऽभयकुमारेणाऽऽगओ चेइयभवणे विट्ठिउं च तज्जाइगुम्मेगदेसे जाव सच्चवेइ जिणदासाईणं पेच्छणयं ताव अमया नच्चंती पभणइ - 'भो ! किमत्थं तुब्भे गायह वाएह नच्चह ?' जिणदासो भणइ 'धम्मत्थं' । 'सो वि किमत्थं ?' ति तीए भणिए जिणदासो कहेइ 'परलोगसाहणत्थं' भणियं च -
एक्को वि नमोक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा' ॥
-
अमया भणइ - 'को परलोगं पेच्छिऊणाऽऽगओ ? न य केणइ दिट्ठमिहलोगे जिणधम्मनमोक्कारफलं ।' तम्मा नित्यं किलिस्सह' । जिणदासो भणइ - 'कुलक्कमागओ मे ताव जिणधम्मो । दिट्ठे च मए नमुक्कारफलं, जेण देवीहूओ रुप्पखुरो' । अमया भणइ - 'कहं ?' जिणदासो भणइ 'इहेव जंबुद्दी रायगिहे पसेणइरज्जेऽन्नया होंतो रुप्पखुरयचोरो । तया अरहदासो नामाऽऽसि सेट्ठी । भद्दा से भारिया । तेसिं पुत्तो अहयं जिणदासो नाम । परमसावगो य सो मे वि पिया बालावत्थं मं घेत्तुं चेइयसाहुवंदणत्थं जाइ मणोरमुज्जाणे । रायगिह-मणोरमुज्जाणाणं च विचाले धुधुलं नाम मसाणमत्थि ।
इओ य सो रुप्पखुरयचोरो रायभवणाओ दव्वसंचयं चोरित्तु वच्चमाणो कहं वि पत्तो तलारेहिं निवेदिओ पसेणइरायस्स । तेणाऽवि दुट्ठनिग्गहो रायधम्मो त्ति काऊणाऽऽणत्तो वज्झो निउत्तनरेहिं य वज्झपडहो । तओ तंमि मसाणे घल्लिओ सूलीहिं रुप्पखुरो । तव्वेलाए गच्छंतं चाऽरहदासं दट्टु पाणियं मग्गइ, इमो वि लोगविरुद्धं ति काउं न देइ । तओ रुप्पखुरो 'तुब्भ वए संगहिस्सं 'ति भणंतो पुणो मग्गइ । सोउं चेमं सेट्ठिणा 'धम्मत्थि 'त्ति दाउं भत्तपच्चक्खाणं सिक्खविउं सो नमोक्कारं भणियं - 'घोसंतो चिट्ठ तावेमं जावाऽऽणेमि पाणियं' । पडिवन्नं च । जलं गहाय जावाऽऽगच्छइ सेट्ठी ताव नमोक्कारं घोसितो
११०
Page #118
--------------------------------------------------------------------------
________________
च्चिय सूलियाभिन्नहियओ मओ रुप्पखुरो । सेट्ठी पुण 'चोरचिंतगो'त्ति गहिओ निउत्तपुरिसेहिं निवेइओ रायस्स । तेण वि पुट्ठो सेट्ठी, परं गहियाभिग्गहो न किंचि जंपइ त्ति कुविएण भणिय'मिमं पि नेउं सूलीए पोयह' ।
इओ य रुप्पखुरदेवो पढमुप्पन्नो च्चिय चितेइ - 'किं मए पुव्वं कयं जेण देवो जाओ ?' । दटुं चोहिणा जहावट्ठियं 'कहं मे गुरू वज्झठाणंमि निज्जइ ?'त्ति कुविओ बाराणि बंदित्ता नगरोवरि विउव्वइ थरथरितिं महासिलं । तं च दटुं सपुरजणो भीओ राया पहाइऊणोल्लसाडओ उल्लवडओ धूवडयहत्थो भणइ - 'जक्खा ! अवरद्धं किंचि देवदाणवाइणो सो खामेउ इममम्हमवराह' । तओ देवो गयणत्थो भणइ - 'कीस विणासिज्जइ निरवराहो सेट्ठी ? ता जइ तं पूइत्ता पुरे पवेसेह तो परमुवसमामि' । सोउं चेमं तुरियमाणाविओ रन्ना अरहदाससेट्ठी । करावियण्हाण-विलेवण-मल्लालंकारो य चडाविओ हत्थिखंधे धरिओवरिछत्तो य सव्वत्थ जयजयाविज्जतो गायणेहिं सतूरनिनायं पयाहिणावइत्ता पुरे पवेसिउं ससिणेहं खमाविओ सपरिवारेण रम्ना जणवएण य । तओ देवेणाऽवणीया सिला । दिनाणि य 'महोवयारि'त्ति सेट्ठिणो तेण तिण्णि रयणाणि । तहा 'छंदाणुवत्तओ'त्ति रण्णो वि तिण्णि, 'पुत्तो'त्ति मोहओ लोहखुरस्स वि तिण्णि दाउं रयणाणि रुप्पखुरदेवो गओ सट्ठाणं ति । ताणि य सेट्ठिणा तिण्णि रयणाणि देवकोट्ठए बद्धाणि संपयं पि समुज्जोएंताणि चिट्ठति । लोहखुरस्स वि जूयारत्तणेण न जाणामि कत्थ चिटुंति ? दटुं चेममहं बालभावे संजायपच्चओ दढो जाओ जिणधम्मे । तेणेवं मद्दलं वाएमि । ता तुमं पि सम्म नच्चसु' । ___ तओ मिच्छदिट्ठित्तणेणाऽमया भणइ - 'सव्वमेयमलीयं लविज्जइ तुब्भेहिं' । सोउं चेमं लोहखुरो चिंतेइ - पेच्छ जं मे पिउणो वित्तं मए य दिटुं, तं जहा अवलवेइ ता एत्थ नत्थीमाए ममाओ छोट्टिक्कओ' । सेणिओ वि चिंतेइ - 'जं मे पिउरज्जे वित्तं मए वि दिटुं तमवलवंतीए जो अलीयवाइनिग्गहो सो मए कल्लं इमाए कायव्वो' ।
तओ अमयाए पुच्छिया पउमावई - "किं तए वि दिटुं किंचि जेण गाएसि ?' पउमावई भणइ - 'भगिणि ! दिटुं नमोक्कारफलं मए जेण रुप्पखुरो व्व नित्थरिया जयसेण त्ति । रुप्पखुरो त्ति गयं जयसेणकहा भण्णइ -
अत्थि अवंतीजणवए उज्जेणीनयरीए जियसत्तू नाम राया । धारिणी से महादेवी । तहा तत्थेवोसहदत्तो नाम सेट्ठी । तस्स य जयसेणा नाम साविया । सा य अपुत्त त्ति चिताउरो सेट्ठी । तं च लक्खिय जयसेणाए सयमेव वरित्तु परिणाविओ सेट्ठी सुंदर नाम सवक्किं । तीसे य कालेणं जाओ पुत्तो । तओ तुट्ठो सेट्ठी । सुंदरीमाया य नियधूयाए निस्सावक्कयमिच्छंती विज्जासिद्धं ढेड्डमुवयारेणोलग्गइ । भणियं च -
१११
Page #119
--------------------------------------------------------------------------
________________
जो होइ गेण्हियव्वो तं पुव्वं आमिसेण गेहाहि ।
आमिसनिद्धो काही सव्वं कज्जं अकज्जं वा ॥
ताहे ढेढो भइ 'जयसेणं विणासेहि' । तओ तेण कालपक्खचउद्दसीए रतिं मसाणं गंतूणं उट्ठविओ मंतेहिं मडओ । भणियं च - 'खग्गं गहाय जाहि जयसेणं विणासेहि' । तओ सो गहियखग्गो वेयालो पत्तो भीसणसद्दं कुणंतो जयसेणा वि तद्दिवसं पोसहिया तं पासिऊण भीया पंचनमोक्कारं परावत्तेइ । तप्पहावेणाऽपहावेंतो य तीसे वेयालो गंतुं पडिओ ढेढमूले । तेणाऽवि 'न मारिय' त्ति नाउं पुणरवि मंतबलेणुट्ठविऊण पेसिओ जाव तहेवाऽऽगओ । एवं तइयवेलाए वि । तओ भणिओ ढेड्डेण I 'जं किंचि पुरओ पेच्छसि तं चिय मारेज्जसु' । गओ य जाव वेयालो ताव तव्वेलाए नीसरिया सुंदरी सरीरचिंताए । तओ तं चिय मारेइ । दट्टु चेमं जयसेणा 'हा कहमजसो ममाऽऽगओ ? ता भयवइ ! सासणदेवए ! ममोवसग्गमिममवणेहि त्ति चितिय ठिया काउस्सग्गेण ।
-
-
पहाए य किंचि तत्तिगवेसणत्थमागयाए दिट्ठा विणट्ठा मायाए सुंदरी । तओ सा विलवंती गया राउलं । पुच्छिया य ‘किं ?' ति रण्णा भणइ - 'सवक्किवेहएणोसहसेट्ठिभज्जाए जयसेणाए माराविया मम पुत्ती सुंदरी' । सोउं चेमं रन्ना तत्थेवाऽऽणाविया जयसेणा । भणिया य - 'ववसियमइरुद्दं कम्मं' । सा वि नमोक्कारपरा तुन्हिक्का चिट्ठइ । तओ राया देवयाभिओगओ पलोइत्तु तीसे नयण - वयणविसरे 'नेयारिसी इमस्स कम्मस्स कारिणि'त्ति चिंतेंतो भणइ - 'तुहाऽभयं । साहेसु सब्भावं' । तहा वि मोणत्थाए जयसेणाए देवयाभिओगओ च्चिय भणियं रण्णा 'भो ! गवेसह तं खुद्दविज्जासिद्धियं ढेड्डूं' । गवेसिंतेहि य पुरिसेहि दिट्ठो सो मसाणे च्चिय थंभिओ देवयाए । आणीओ य पुच्छिओ तत्तो रन्ना - 'कहेहि सब्भावं' । ताहे तुको चिट्ठ ढेडो । तओ ताव पिट्टाविओ कसेहिं जाव साहिओ सब्भावो । तओ सव्वस्सहरणं काऊणाऽऽणत्ता निव्विसयं सुंदरिमाया। ढेड्डो पुणाऽऽणत्तो वज्झो। परं जयसेणाए पसायं मग्गिऊण दवावियं तस्साऽभयं । जयसेणा वि रन्ना 'भगिणी तुमं ममऽज्जप्पभिरं । ता सुहंसुहेण चिट्ठसु' त्ति वोत्तुं पूजित्ता य विसज्जिया गया सगिहं | दट्टु चेमं मए पडिवण्णो जिणधम्मो । तेण गाएमि । ता तुमं पि सम्मं नच्चसु' । अमया भणइ – ‘चप्फलिया तुमं जा ममेवं वुब्भाविउमिच्छसि अण्णहा भणउ बीहिणी जर किंचि दिट्ठे' । सा भ 'भगिणि ! मए विदिट्टं नमोक्कारफलं जेण नित्थरिया जयसेण व्व सोम त्ति । जयसेण त्ति गयं । सोमाका भाइ
—
-
-
कविट्ठपुरे बंभणस्सेगस्स दुहिया सोमा नाम । तीसे य सही वाणियस्सेगस्स धीया जिणदासी नाम । सा य साहुसगासे घेत्तूण वयाणि साविया जाया । तओ सोमं भणइ - 'तुमं पि साविया होहि' । जाया य सुस्साविया सोमा मट्टियाए पच्चक्खाणं करेइ । विवाहिया य सा गामे । समयंमि य गब्भवईए जाओ सोमाए दोहलो - जह मट्टियं खामि' । तं चाऽकुणंती सा दुब्बलीहूया । पुच्छिया य सासूए 'पुत्ति ! किं भो ! दुब्बलिया ?' सा भणइ - 'मट्टियाए दोहलो' । सासू भइ 'कीस न खासि
११२
-
Page #120
--------------------------------------------------------------------------
________________
सोमा भणइ - ‘पच्चक्खायं' । सासू भणइ - किं कीरइ पच्चक्खाणेणं ? जओ न तारिसो दोसो पच्चक्खाणभंगे जारिसो दोहलयभंगे । सा भणइ-‘पाणच्चाए वि न मट्टियं खामि' ।
एवं च गाहलग्गाणं वि सासू-ससुराईणं जाहे न मन्नइ ताहे ससुरो सोमं घेत्तुं गओ पेइयं । कविठ्ठपुरस्स य हेट्ठा तया नई अताघा वहइ । तीए य धरिया जाव अच्छंति ताव 'सोम'त्ति भणइ भणंती अवरकूले कह वि नगराओ आगया जिणदासी । परोप्परदरिसणेण तासिं जाओ चुल्लालावो । तओ सोमा पियवयंसियाए विओयमसहमाणी ससुरं भणइ 'उत्तरामो नई' । सो भणइ - 'कहं हिंडिज्जिहामो ?' सा वि - 'जं होइ तं होउ, तहा वि गंतव्वं'ति वोत्तुं परावत्तिती नमोक्कारं पविट्ठा जंमि ठाणे तट्ठाणाओ च्चिय वंकवलणेणं गया मग्गंतरं नई । मिलियाओ य सोमाजिणदासीओ । पविट्ठाओ नयरं । सोमानिमित्तनईवंकट्ठाणे य पइट्ठियं लोएण सोमावंकं नाम तित्थं जमज्ज वि सेविज्जइ धम्मत्थीहिं । तं चाऽइसयं दटुं बहुलोगेण सहाऽहं पडिवन्ना जिणधम्मं । तेण गाएमि । ता तुमंपि सम्म नच्चसु' ।
अमया भणइ - 'तुमं पि चप्फलिया । भणेउ वा तरुणी जइ किंचि दिटुं' । सा भणइ - 'भगिणि ! मए वि दिटुं नमोक्कारफलं जेणुद्धरिओ सोम व्व अज्जुणगो त्ति । सोम त्ति गयं । अज्जुगणकहा भण्णइ -
वसंतउरे नयरे जियसत्तू राया धारिणी से महादेवी । तीसे पुत्तो धारो नाम अईववल्लहो रण्णो । नगरस्स हेट्ठा नई गुग्गुलंतसद्दाला पाउसपढमे सूरे उम्मिसहस्ससंकिण्णा । तं दट्ठण वहति रन्ना संजायकोउहल्लेणं 'संतेउरो करिस्सं जलकीलमिहं'ति चित्ते ठियं । तं च सया वि कुणंतो नईपूरोपरि दवावियं जालं लोहमयं नईतडिदुगनिक्खयखीलेहिं दढबद्धं चडिओ जहातह च्चिय कीलंतो लेइ दट्ठमाणीयं नईपुरेण रुइरं राया बिज्जउरयदुगं । सो देइ सुयस्सेगं । तो पुण देइ तस्स बीयं पि मग्गंतस्स । मग्गंतो तह वि जा, ता रण्णा भणिया नियपुरिसा - 'अरे ! एयाए नईए तडं तडेण गंतुमेएसिमुप्पत्तिठाणं जाणह । तेहिं पि गवसंतेहिं दूरे दिट्ठो नईतीरत्थो पागारपरिक्खित्तो माहुलिंगारामो । तंमि य तेसिं पुरिसाणमद्धेल्लया पविट्ठा । सेसा बहिं ट्ठिया । जे य पविट्ठा ते बाहिं पक्खित्तमेत्तमाहुलिंगा चेवाऽऽरामवासिणा विणासिया किलिकिलंतजक्खेणं । बहिट्ठिया ताण घेत्तूणाऽऽगया जहावत्तं साहिति रन्नो । तेणाऽवि बुद्धिविसेसओ मेलियसयलनयरलोएणं घरं घरा परिएसो काउं लिहाविया सव्वेसु पुरिसा पत्तए । जस्स य पत्तगमुटुंइ सो पविसिऊणाऽऽरामे माहुलिंगं खिवइ । बहिट्ठिओ उण आणेइ ।।
एवं वच्चंते काले तत्थाऽऽगओ देसंतराओ एगो चित्तयरसावगो । सो य तत्थेव निवसंतस्स अल्लीणो थेरीपुत्तयचित्तयरस्स । तं भणइ - 'पसायं काउं साइसयं चित्तयम्मं सिक्खवेहि' । थेरीपुत्तेण भणियं - 'करिस्सं सोहणे दिणे सिक्खारंभं । संपयं जहब्भसियं चेवाऽऽलिहंतो चिट्ठसु' । सा य थेरी निच्चं पभाए रोयंती पुच्छिया अज्जुणगेण - 'अम्मो ! कीस रोवसि ?' साहियपरमत्था य थेरी भणइ - ‘ममेक्को चेव
११३
Page #121
--------------------------------------------------------------------------
________________
पुत्तो । जइ कहं वीमस्स वारगो आगच्छेज्जा ता मरियव्वमरणाहाए । नत्थि को वि जीवणोवाओ एएण विरहियाए' । तो सा अज्जुणएण भणिया - ‘एयस्स वारगे अहं गच्छिस्सामि । मा बीहेहि' । सा भणइ - 'तुमं पि मम पुत्तो चेव' । तेण भणियं - 'केणइ उवाएणं रक्खिस्सामि ते पुत्तं' ।
तओ अण्णंमि दिणे थेरीपुत्तस्स वारगे समागए गओ अज्जुणगो, सागारं भत्तपच्चक्खाणं च काउं पविट्ठो उज्जाणे नमोक्कारं सरंतो । तं च समागच्छंतं दट्ठण किलिकिलंतो जक्खो तं मारिउं धाविओ। परं नमोक्कारपहावेण न किंचि काउं तरइ । ताहे 'किमेयं ?' ति चिंतेंतो ओहिनाणं पउंजिउं पवत्तो । नायं च जहा 'विराहियसामन्नत्तणेणेत्थाऽहं वाणमंतरजक्खो उववन्नो । महंतं चाऽकिच्चं कयं जमन्नाणदोसेण विराहिया बहवो जीवा । ता अज्जप्पभिई सव्वसत्ताणमभयं देमि । तहोवगारी य ममेसो सावओ जिणधम्मपवत्तओ । ता पच्चुवगारं करेमि' ।
तओ भणिओ जक्खेणाऽज्जुणओ - 'किं ते करेमि ?' । सो भणइ - 'रण्णो दिणे दिणे बीजउरगाणि तत्थेवाऽऽणेसु' । जक्खो भणइ - 'बालस्सोसीसगे पलोएज्जह' । तओ अज्जुणगो जक्खसयासाओ अप्पबीओत्ति आगओ । रन्नो नयरलोयस्स य कोउयं जायं । पुच्छिएण य निवेइयं जहावत्तं । तओ रन्ना महाविभूईए वरहत्थिखंधगओ नगरस्साऽभयदाणुग्घोसणाए हिंडाविऊण पूइओ अज्जुणगो । पुणो थेरीगिहमागओ । दटुं चेमं नमोक्कारफलं पडिवनो मए जिणधम्मो । तेण गाएमि । ता तुमं पि सम्म नच्चसु' । ___ अमया भणइ - 'सच्चमिणं जइ समत्थेइ चमरी' । सा भणइ 'भगिणि ! मए वि दिटुं नमोक्कारफलं जेण अज्जुणगो व्व नित्थारिया सुंदरि त्ति । अज्जुणगो त्ति गयं । सुंदरीकहा भण्णइ -
अवंतीजणवए उज्जेणीनयरीए जियसत्तू नाम राया । धारिणी से महादेवी । तहा तस्स राइणो विदिन्नछत्त-चामराओ दो गणियाओ - सुंदरी बउला य । परोप्परं मच्छरमुव्वहंति । तीए य नयरीए जिणदासो नाम सेट्ठी । तस्स भद्दा भारिया । उसहसेणो नाम पुत्तो । सो य अईवरूवस्सी । परं सुसीलोत्ति माया-वित्तेहिं पच्चक्खाणं काराविओ जहा - 'तए गणियाघरं न पविसियव्वं' ।
अन्नया सो य रायकुलं पविसइ सुंदरी य गणिया नीसरइ । ताए य दिट्ठो हिययमइगओ । दासी य पुच्छिया - 'को एसो ?' ताहे कहियं - 'उसहसेणो नाम जिणदाससेट्ठिणो पुत्तो' । तओ सुंदरीए चमरहारी पेसिया । सा दारपालेण छाणपाणिएण छंदित्तु धाडिया । पुणो वि माया विसज्जिया । सा वि धाडिया । तओ तम्मित्ता निउत्ता । तेहिं य घेत्तूणाऽऽसंधओ पवेसिओ सो सुंदरीहरे सुहासणोववेसिओ य । दिण्णफुल्लतंबोलाए भणिओ तीए - ‘कीस तुब्भे मम पाहुणया न एह ?' उसहसेणो भणइ - 'अम्हं ववहाराउलाणं काइ वेला भइणि ! नत्थि' । सा भणइ - 'मए जाणियं जहा तुब्भेहिं सह भोगा भुंजियव्वा । संपयं पुण जावाऽहं भइणि त्ति भणिया ता तुमं पि मे भाया चेव । तहा अज्जप्पभिई तुम्हंतणओ
११४
Page #122
--------------------------------------------------------------------------
________________
अणुराएण मए पडिवन्नो धम्मो । ता चेइयपूयाकज्जे मं निमंतेज्जसु' । जाए य तेसि परोप्परं साहम्मियत्तणे सुंदरीए अप्पणो समीवे करावियं चेइयहरं । तस्स य पइट्ठाए महतिं पूर्व सा करेइ । तं च नाउं बउलाए मच्छरेण पुव्वगहियसप्पं छोढूण दासचेडीए हत्थे विसज्जिओ घडओ भणावियं च - 'तुज्झ सहीए फुल्लाणि पट्टवियाणि' । सुंदरीए वि 'न जाणामो किमेत्थ छूढ'ति चिंतिय दासचेडीए च्चिय पुरओ उग्घाडिओ । अहासन्निहियदेवयाकयपणामाए य भणित्ता पंचनमोक्कारं छूढो तंमि हत्थो । देवयाए तब्भत्तिसमावज्जियाए सो सप्पो कया दिव्वा पुष्पमाला । सा च दटुं सुंदरीए धरिया तहिं चेव घडए । दासचेडी वि - 'न एसा केण वि सज्जिया ता कहं जाय ?'त्ति कोउगेणं तं जाव घेत्तुमारद्धा ता देवयाए पुणो कओ सो सप्पो । तेण य सा डक्का 'खद्धा खद्ध'त्ति कूएइ । तओ 'अहो ! सुंदरीए खाविया सप्पेणं'ति जाओ जणुल्लावो । तं च सोउं सुंदरी 'ममेसो अयसो समागओ'त्ति चिंतिय ठिया देवयाराहणत्थं काउस्सग्गेणं । देवयाए वि 'जुत्तो साहम्मिओवयारो'त्ति काउं लोयस्स मज्झे सव्वं जहावत्तं कहियं । तओ लोएण धिक्कारिया बउला । भणियं च -
'अपावह माणुसह पावु जो चिंतेइ परस्सु । पच्चुम्फिडि विनियत्तु तउ तं तहु एइ अवस्सु' ॥
तह वि देवयाए सुंदरिं मज्झत्थेउं जीवाविया दासचेडी । दटुं च सयमिमं मए गहिओ धम्मो'त्ति जिणपुरओ गाएमि ता तुमं पि सम्मं नच्चसु ।।
अमया भणइ - 'जाणामि सच्चमिमं जइ पडिऊरेइ पंडिया' । सा भणइ - 'भगिणि ! मए वि दिटुं नमोक्कारफलं जेण सुंदरि व्व नित्थरिओ मसाणपालो त्ति । सुंदरि त्ति गयं । मसाणपालकहा भण्णइ -
कासीजणवए वाणारसीनयरीए जियसत्तू नाम राया । नयरिप्पहाणा चउरसुंदरी नाम गणिया । तीए य समं रायपुत्तमित्तो अच्छए । सा य गणिया मंसेण विणा न भुंजइ । सो य राया धम्मपरो त्ति वरिसे वरिसे फिरंतमासक्कमेणाऽमारिं घोसावेइ । सुंदरी वि अणागया चेव मंसाणि सुक्कविऊणं संगहं कुणइ । अन्नया य भोगासत्तत्ताओ तीए न जाणिओ अमारिघोसणासमओ । तओ मग्गिओ पुरोहियपुत्तो मंसं । तेण वि रायपुत्तस्स मित्तत्तणओ कारणओ अवन्नाए मेसं मारावित्ता दिनो तीसे । तं च नाउं नियत्तणओ दंडवासिएण साणुरक्खो कराविओ पुरोहियपुत्तो । पुण्णे य अमारिमासे दरिसिओ रन्नो । तेणाऽवि रुटेणाऽऽणत्तो य वज्झो । तत्थ य मसाणपालो नाम पाणो । जो य कोइ वहेयव्वो सो तस्स समप्पिज्जइ त्ति भणिओ सो रन्ना - 'अरे ! पुरोहियपुत्तमिमं मारेहि' । सो नेच्छइ मारेउं । रन्ना भणियं - 'किंकारणं न मारेसि ?' सो भणइ - 'मए निव्वित्ती गहिया मारेयव्वस्स' । रण्णा भणियं - 'कहं ?' पाणो भणइ - 'साहेमि, सुण -
Page #123
--------------------------------------------------------------------------
________________
'अहं ताव
1
ममाऽसुहकम्मोदएण पडिया पुरीए मारी । तीए गहिओ अहं पि । तओ चितियं मए बज्झो । तत्थ य मसाणपालो । एए उद्दिद्वंति मेऽसिवं । मा मं पुरीओ निस्सारिज्जंतं' दट्ठूण मोरहा पुज्जंतु एयाण । तम्हा सयमेव मसाणे गंतुं मरामि जेण ते न पुच्छंति । तओ गंतुं पडिओ | जाव मसाणेगदेसे चिट्ठामि तावाऽचितिओ कुओ वि समागओ सीयलो वाओ । तेण य सा मारी नट्ठा। तओ अहं ओ तव्वायागमणदिसाणुसारेण जाव थोवतरं ताव पेच्छामि पडिमापडिवन्नं साहुं । तं च दद्धुं जाओ सत्थसरीरो अहं सव्वं पि फल-फुल्लयं घेत्तुं गओ अहिणंदिउं पयाहिणं काउं वंदामि तं समणसीहं । दिट्ठा य तदंतिए मए पुरिसा पुच्छिया य ते - 'के तुब्भे ?' तेहि भणियं - 'एयस्स रायरिसिणो पुत्तो राया चिंतेइ । सो य दिवसे दिवसे इमस्स वत्तं गवेसावेइ । तेण य अम्हे पट्ठविया इहाऽऽगया' त्ति । एत्थंतरंमि य पुण्णसमओ त्ति काउस्सग्गमूसारिडं सो य रायरिसी धम्मं साहिउमाढत्तो । तं च सोउं संजायवासणस्स में दिण्णाणि पाणाइवायविरमणाईणि तेणाऽणुव्वयाणि त्ति न जीवं मारेमि' ।
भणइ
रण्णा भणियं – ‘किमम्हमणुव्वएहिं ? जइ पुरोहियपुत्तमिमं न मारेसि तो तुमं मरिस्ससि' । पाणो 'जइ मरिस्समहं तो वि जीवंतो पाणिघायं न करेमि । तओ रन्ना भणियं - 'पाणमेयं वावीए छुहह' । तहा य कए झाइओ तेण पंचनमोक्कारो । तप्पभावेण य न बुड्डो । वाविमज्झे पउमं जायं । तत्थोवविट्ठो चिट्ठइ । तं च दट्टु सव्वेसि कोउयं जायं । तओ उत्ताराविओ रन्ना पुच्छिओ य - 'कहं तुमं न बुड्डो ?' तेण भणियं नमोक्कारप्पभावेण' । तं चाऽइसयं दद्धुं केइ पवन्ना पव्वज्जं, केइ पुण मए समं सावगधम्मं । तेणाऽहं वंसं वाएमि । ता तुमं पि सम्मं नच्चसु' ।
अमया भणइ - 'सव्वमिममलीयं । अण्णहा किं न कहिं चेव माणेहिं तं सच्चवियं होज्ज ? तह वि जाणामि सच्चमिणं जइ समत्थेइ किं पि छण्णिया' । सा भणइ 'भगणि । मए दिट्ठ नमोक्कारफलं, जेण मसाणपालो व्व पत्ता समीहियमुप्पलमाल त्ति । मसाणपालो त्ति गयं । उप्पलमालाकहा भण्णइ
वच्छाजणवए कोसंबीनयरीए पसन्नचंदो राया । तस्स चंदमई महादेवी तहा रायविदिन्नछत्त-चामरा तत्थेवुप्पलमाला नाम गणिया । विहरइ य वच्छाजणवए ससीसपरिवारो उसहसेणो नामाऽऽयरिओ । तेण य वसहिगवेसणत्थं पेसिओ साहुसंघाडओ कोसंबीए । तेहि य गवेसंतेहिं लद्धाओ वसहीओ, परं सज्झायाइसंजमाणुट्ठाणे ताओ न सुज्झति । तओ नाऽइदूरे उप्पलमालातणयं दिट्ठ उज्जाणं । तं च अणुजाणाविअं तेहिं उज्जाणपालाओ । तेणाऽवि गंतुं पुच्छिया उप्पलमाला । तदणुन्नाया य ठिया तत्थ साहवो । तओ कइवयदिवसेहिं आगया आयरिया । तेहिं य पेसिओ उप्पलमालाए धम्मलाभो । सो य सिट्ठो गंतूणुज्जाणपालएहिं । तदाइट्ठेण भणिया सूरिणो 'भयवं ! पसायं काउं गेण्हह भत्तपाणं उप्पलमालाए' । आयरिया भणंति 'न कप्पइ तुब्भंतणयं साहूणं भत्तपाणं ति साहेज्जह' । तंमि य कहिए उज्जाणपालेणुप्पलमाला ठिया तुहिक्का । वित्ते य वरिसायाले सूरीहिं उज्जाणपालस्स हत्थेण पेसिओ
-
-
११६
Page #124
--------------------------------------------------------------------------
________________
धम्मलाभो । भणावियं च - 'गमिओ तुम्ह उज्जाणे वरिसायालो । विहरिस्सामो संपयं' । तं च सोउं सूरिसमीवमागया उप्पलमाला । वंदिउं च निसुयधम्मा सिक्खविया सूरीहिं नमोक्कारं । तं च घेत्तुं पणमिळणाऽऽगया गिहं । विहरिया य अन्नत्थ आयरिया ।
सा उप्पलमाला वि सओ कालं नमोक्कारं झायंती अच्छइ चिंतइ य - 'न मए तया सूरिणो पुच्छियाऽऽसि - केरिसं नमोक्कारफलं' । इओ य तत्थ निवसइ दढसुप्पओ नाम खत्तहाणओ । सो य जाए गणियाए गाढमासत्तो ताए पडित्ता भण्णइ - 'जइ ममाऽऽभरणं न देसि तो तए मम न कज्जं' । तओ दढसुप्पएण एगाए गणियाए गिहे खत्तं खणिऊणाऽऽणीया आभरणकरंडिया । न य केणइ तव्वेलाए वेइयं । पच्छा विचारे चिंधोवलंभाभावओ न नाओ उत्तमं चाऽऽभरणाण जीरविओ सो । दढसुप्पणेगाऽवि दिनो य करंडियाओ घित्तुं हारो गणियाए । भणिया य सा - ‘मा हारमिमं पयासेज्जसु । जओ गणियातणओ मए खत्तं खणिऊण आणीओ । ता जइ कह वि नज्जिही ता मे नत्थि जीवियं' । गणियाए वि ‘एवं करिस्सं'ति वोत्तुं कयाइ जाए दासीमहे तं हारं परिहिऊण बहुगणिगाणं मज्झे अप्पाणं दाहंती हिंडइ । परियाणिओ य तीसे गणियाए दासीहिं । मंतियं परोप्परं - 'हला ! अम्हं सामिणीए तणओ एसो हारो जो तया हरिओ । तं गंतूण साहामो सामिणीए' । तहा य ताहिं कए गणियाए कहियं रण्णो । तेणाऽवि आणाविया सा गणिया, पुच्छिया य - 'कत्तो ते एस हारो ?' सा भणइ - 'दढसुप्पएणं दिन्नो' । तओ तं हारं घेत्तूणाऽऽणाविओ दढसुप्पओ । सेसाभरणसाहणत्थं च सो पिट्टिज्जंतो भणइ - 'अण्णाणि विक्कीयाणि मए' । तओ राइणा आणत्तो वज्झो । ___ तं च नीणिज्जंतं दट्ठणुप्पलमाला चिंतेइ - ‘एत्थ एयं पंचनमोक्कारं परिक्खेमि' । तओ विणासट्ठाणं गंतुं सा दढंसुप्पयं भणइ - 'नमोक्कारं गेण्हसु' । सो भणइ - ‘नमुक्कारेण मरंतस्स किं होज्जा ?' सा भणइ - 'सोहणा गई' । तेण वि - 'जइ एवं ता गिण्हामि' त्ति वोत्तुं पडिच्छिओ तद्दिण्णो पंचनमुक्कारो । भणियं च तीए - 'नियाणं करेहि जहा - "नमोक्कारस्स फलेणाऽहं एयस्स रण्णो पुत्तो होज्जं" ।' तहा य काउं मओ दढसुप्पओ चंदमईदेवीगब्भे संभूओ पुत्तो । विण्णवंतीए तीए चेव रयणीए चंदभरियं थालमुप्पलमालाए दिटुं सुमिणमि महादेवीए । पीयं च तीए । तओ पहाए गंतूणमुप्पलमालाए कहियं रण्णो जहा - 'ते पुत्तो होही' । रन्ना भणियं - 'जइ होज्ज सच्चं तो सो तुज्झ चेव दिज्जिही' ।
तओ राया गओ दंडजत्ताए । देवी य तइयमासे जाए धम्मसवणडोहलेसा उप्पलमालं भणइ - 'जो तुम्हमुज्जाणे चिट्ठइ उसभसेणायरिओ तदंतिए जामि, जइ धम्मं सुणेमित्ति मे दोहलो' । उप्पलमाला भणइ - 'विहरिया ते भयवंतो । चिट्ठइ य सेट्ठिहरे सुव्वया नामऽज्जा । जइ परं तत्थ वच्चामो' । तओ देवी उप्पलमाला य गया सुव्वयज्जाए समीवं वंदिया य देवीए पुच्छिया धम्मं । साहिओ य सो तीए अहिंसालक्खणो । तओ पुच्छिया पव्वज्जागहणकारणं । सुव्वया भणइ -
११७
Page #125
--------------------------------------------------------------------------
________________
'इंदपुरे इंदसेणो राया । तस्स गुणवई महादेवी । तीसे दो पुत्ता - उसभसेणो सीहसेणो य । तहा अहं च सुव्वया नाम धीया । अन्नया य तत्थाऽऽगया मुणिसुव्वयारिया । ठिया उज्जाणे । तेसिं वंदणत्थं महाविभूईए बहुजणेण समं निग्गओ राया। सुयधम्मो य संबुद्धो सीहसेणस्स रज्जं दाउं पव्वइओ उसभसेणेण य समं सूरिसमीवे । विहियपव्वज्जो य सुबहुं कालं सिद्धो राया । उसभसेणो वि आयरिओ जाओ । सा वि य सुव्वयज्जा अहं पच्चक्खा चेव' ।
सोउं चे वंदिय तं गयाओ सट्ठाणं देवी-उप्पलमालाओ । राया वि आगओ । देवी वि पसूया समए । सलक्खणो पुत्तो जाओ । सो य पुव्वपडिवनो दिनो उप्पलमालाए । तीए वि तस्सोचियसमए कयं नामं नमोक्कारचंदो त्ति । हुल्लाविज्जंतो य दढसुप्पओ त्ति पुव्वभवनामेणुप्पलमालाए वड्डिओ नमोक्कारचंदो । जोव्वणत्थो जाओ । परिणाविओ य सीलरायधूयं सिरिकंतं नाम । तीए सह विसयसुहमणुहवंतो सो अहिसित्तो रण्णा जुवरज्जे । तं चाऽणुपालंतस्स एसा सव्वा वि रिद्धी नमोक्कारपहावेणं तस्स संपण्ण त्ति संजायपच्चया उप्पलमाला रायाणं भणइ - "निविण्णाऽहं पव्वइस्सामि' । राया भणइ - "किं ते निव्वेयकारणं ?' सा भणइ - 'नमोक्कारचंदो' । राया भणइ - 'कहं ?' तओ कहिओ तीए सव्वो वि जहावुत्तंतो । तं च सोउं राया वि निम्विन्नो सह महादेवीए ।
एत्थंतरंमि य तत्थेवाऽऽगओ विहरंतो उसभसेणसूरी । तदंतिए य पव्वइओ राया। महादेवी उप्पलमाला य पव्वाविय सूरिणा दिनाओ सुव्वयज्जाए सिस्सिणीओ विहरिया अण्णत्थ ।
कालेण पुणो तत्थाऽऽगओ सूरी । तव्वंदणत्थं च निग्गओ नमोक्कारचंदो । सुयधम्मो य पुच्छइ पिउ-माया-उप्पलमालाणं गईओ । सूरी भणइ - 'तुह पिया माया य भवेणेऽणेणेव सिज्झिस्संति । उप्पलमाला उण देवलोयं गमिस्सइ' । सोउं चेमं संविग्गो नमोक्कारचंदो नियपुत्तं बलचंदं नामाऽहिसिंचित्तु रज्जे पव्वइओ । दटुं चेममइसयं पडिवण्णो मए जिणधम्मो । तेण वंसं वाएमि । ता तुमं पि सम्म नच्चसु' ।
अमया भणइ - "किमलीयं जंपसि? भणउ वा सारणिया जइ किं चि सच्चं' । सा भणइ - 'भगिणि ! नमोक्कारफलेणुप्पलमाल व्व पुज्जणिज्जा पउमसिरि 'त्ति । उप्पलमाल त्ति गयं । पउमसिरीकहा भण्णइ -
अवंतीजणवए उज्जेणीनयरीए अरिदमणो राया । तस्स धारिणी महादेवी । तहा तत्थेव धणो नाम वाणियओ। तस्स जुयंजुयगिहेसु दो भज्जाओ - पउमसिरी बुद्धसिरी य । तहा तस्स बुद्धिकुसलो कालुओ नाम सुणहो । तं च कयाइ धणो भणइ 'देसंतरमहं जाइस्सं । ता तए रक्खयव्वाणीमाणि दोण्णि वि घराणि' । कालुओ 'काहामेवं'ति जाणावणत्थं धणपुरओ पुच्छं कण्णे य चालेंतो ठिओ । तओ धणो गओ दिसाजत्ताए । कालुओ वि तिकालं दोण्णि वि गिहाणि पडियग्गेइ ।
११८
Page #126
--------------------------------------------------------------------------
________________
सा य बुद्धसिरी दुस्सीला जाया । कालुओ य तग्गिहं विसेसेण रक्खेइ । तं च नाउं पउमसिरी भणइ - 'कीस तुमं निग्गमिज्जमाणो वि तग्गिहं यासि ? विरुद्धाए एयाए विणासिज्जिहिसि' । कालुओ न थक्कइ त्ति बुद्धसिरीए दटुं तस्सुण्हकंजिएण मुहं । सो खिक्खियंतो गओ पउमसिरिघरं । तीए वि तहा दटुं भणिओ - 'मए वारिओ तुमं न थक्को । संपयं पुण नियकुकम्माणि उइण्णाणि त्ति भावेंतो मा तीए उवरिं पओसं वहेज्जासु, करेसु य अणसणं पंचनमोक्कारमिमं झायंतो जेण सुगई गच्छसि' । मण्णिए य तंमि निज्जामिओ पउमसिरीए कालं काउं गओ देवलोयं । तत्थ य 'किं मए कयं जेणेरिसी देविड्डी पत्त ?'त्ति पउत्तावही पेच्छइ विहिमरणं ।
धणो वि तया पडिनियत्तो समुद्दमझे पवहणेणाऽऽगच्छइ । तस्स य दरिसेइ सुणहरूवं कालुयदेवो । तं च दलृ 'कर्हि एत्थ कालुओ ?' त्ति चिंतइ जाव धणो ताव दरिसियं देवरूवं । पुच्छिओ एसो - 'किमेयं ?'ति धणेण, साहइ से जहावत्तं । तओ भणियं धणेण - 'आसि किंचि जम्मंतरनिमित्तं तुम्हं न वा ?' कालुयदेवो भणइ - 'साहेमि, सुण । अहं कालुयभवाओ पच्छिमे जम्मे गिरिनयरे मिच्छदिट्ठी मणुस्सो आसि । बुद्धसिरी पउमसिरी दुवे य मे भज्जाओ । तासिं च पढमा तब्भवे वि दुस्सीलाऽऽसि त्ति पिट्टिऊण मए नीसारिया गिहाओ । बीया उण साविय त्ति कयाइ धिज्जाइयाणमदाउं पढम चिय साहूणं भत्तपाणं देइ । तओ अंबाडिया मए, अणसणं काउं मया तुहेसा जाया पउमसिरी भज्जा । पढमा उण मरित्ता जाया बुद्धसिरी । पुणो वि दुस्सील त्ति मच्छरिओऽहं मारिओ तीए । जम्मंतराणुरत्तो य नियामिओ पउमसिरीए देवो जाओ । अमोहं च देवदरिसणं, ता करिस्सं तीसे पच्चुवगारं' ति वोत्तुं समप्पियं तेण पउमसिरीनिमित्तं धणस्स दिव्वमाभरणं । तओ गओ सट्ठाणं देवो ।
धणो वि पहुत्तो कमेण नियनयरं तेणाऽऽभरणेणाऽलंकारेइ पउमसिरिं । तं च दटुं विम्हिओ जणो धणं पुच्छइ - 'कुओ ते संपन्नमिमं दिव्वाभरणं' ? धणेण वि साहिया सव्वा वि कालुयदेवाइवत्तव्वया । तं च सोउं मया लोगेण य पडिवन्नो जिणधम्मो । तेण वंसं वाएमि । ता तुमं पि सच्चं नच्चसु' त्ति । पउमसिरि त्ति गयं ।
अमया भणइ - 'सव्वमलीयमेयं सव्वेहिं तुब्भेहिं जंपियं ति न मन्नामि' । जिणदासो भणइ - 'कहं ?' सा भणइ - ‘जइ सच्चं होतं ता तुब्भे घरवासे न अच्छंता' । जिणदासो भणइ - 'जमम्हेहिं साणुभवं साहियं तं तए वि सुयं । ता तुमं किं पव्वइहिसि ?' सा भणइ - 'कीस न पव्वइस्सामि ?' जिणदासो भणइ 'अम्हे वि पव्वइस्सामो' । ___ सोउं चे सेणियाभयकुमारा हरिसिया तप्पव्वज्जागहणसमयजाणणत्थं तत्थ ठाविऊण पच्छनपुरिसे गया सट्ठाणं । पभाए य जिणदासो काऊण महारिद्धीए पाभाइयपूयं दाउं च जहोचियं धण-धन्नाइं सह अट्ठ भज्जाहिं पयट्टो उज्जाणसंठियसंतिसूरिसमीवं । एत्थंतरंमि य नियत्तपुरिसजाणाविएहिं सेणियाभयकुमारेहिं
११९
Page #127
--------------------------------------------------------------------------
________________
निक्खमणमहिमत्थमाणाविओ जिणदासो सपरिवारो राउलं । विभूसियं च हत्थिखंधं समारूढा महाविभूईए सव्वे वि नीया तेहिं सूरिसमीवं । पव्वाविया य विहिणा पालियसामण्णा काऊणाऽणसणं देवलोयं गय त्ति । जिणदासो त्ति गयं ।
जो य लोहखुरयचोरो जिणदासचेइयमुसणत्थं जाईगुम्मे निलुक्को आसि सो असंधिकज्जो चेव तओ गओ सट्ठाणं । अन्नया य कयाइ पाउसकाले लोहखुरओ जिणभवणासण्णरायपहेणं जाव वच्चइ ताव जलहरो धारानिवाएहिं वरिसिउं पवत्तो । तओ सो जलभएण कन्ने करहिं पिहित्ता ठिओ जिणभवणदुवारदेसे । दिट्ठो य णेणं तंमि जिणहरे सावयाण साहेंतो धम्मं धम्मघोसो नामाऽऽयरिओ । चिंतियं च - 'न मए कयाइ सेवडयसाहिज्जंतं सिलोयमेत्तं पि निसुयं । संपयं पुण अहाणुभावेणेवाऽऽगओ इहई । न य कोइ दोसो संभाविज्जइ । ता सुणामि केरिसमिमे जंपंति ?' । तओ लोहखुरएणुग्घाडिया कण्णा । सूरिणा वि तस्समए नियदेसणावसरागयं साहियं सुरलक्खणं । अवि य -
'अगिलाणमल्लदामा, अणिमिसनयणा नीरुयसरीरा । चउरंगुलं भुवं न छिवंति अमरा' जिणो भणइ ।।
तहा वि थिरत्तणओ मेहावित्तणओ य सुयमेत्ता चेवाऽवहारिया लोहखुरएणसा गाहा । तओ अवकंतो तप्पएसाओ । संतावियं चऽणेण दिणे दिणे खत्ताणि पाडितेण सव्वं पि नयरं । तओ पहाणजणाईहिं विनविओ सेणियराया। जहा - ‘णेण अईवोवद्दविआ चोरियाए' । तं च नाऊणाऽमरिसिओ राया सभाए भणइ - 'भो ! अस्थि कोइ सो जो चोरं लभइ ?' अभयकुमारेण भणियं - 'ता चोरो मए लद्धो लोहखुरओ किं तु पावाणुबंधिपुन्नोदयओ न कह वि सो सलोत्तो पाविज्जइ' । चिंतियं च अभएण जहा - 'अईव इत्थीलोलो लोहखुरओ । तावप्पवंचेण चेव केणइ जइ परं सो घेत्तुं सक्किज्जिही' । तओ पच्छण्णं सिक्खवियाओ तरुणिवेसाओ जहा - 'तुब्भेहि देवि-देवववहारसच्चवणेणाऽऽवज्जिओ लोहखुरओ चोरो कामए सच्चावियव्वो' । तओ पुरिसा - 'जया चोरियाकामयं सावेइ लोहखुरओ तया तुब्भेहिं निब्भरं बंधिऊणाऽऽणेयव्वो सो सेणियमहारायस्संऽतियं'।
गयाओ य सुसिंगाराओ होउं मज्जासत्तस्सुज्जाणे लोहखुरयचोरस्संऽतियं निउत्तवेसाओ । तच्चाउद्दिसिं ठिया गहियाउहा सुत्तावेड्डुएणं निउत्तपुरिसा । लोहखुरेण वि दटुं दिव्वविलेवण-कुसुमालंकाराइकलियाओ ताओ गणियाओ विम्हियमाणसेण भणियं - 'का तुब्भे?' ताहि भणियं - 'अम्हे देवयाओ महापओयणेणं तुम्हं समीवमागयाओ' । लोहखुरेण वि मयणुम्माहियमणेण भणियं - 'आइसंतु भट्टारिगाओ जं मए कायव्वं' । ताहिं भणियं - 'पंचसेलयं नाम दीवं । तत्थऽम्हे परिवसामो । अन्नया य अहं सामी कालविहाणेण असणं गओ। तओ अम्हे सामिरहियाओ अण्णं सामिपुरिसं अण्णेसामो । दिट्ठो य भुवणं विहरंतीहिं तुममम्हेहिं । विनाओ य सामिजोग्गो त्ति तुम्हमल्लीणाओ । ता आरुहह विमाणं जेण देविडि
१२०
Page #128
--------------------------------------------------------------------------
________________
अम्हेहिं समं विसयसुहं च माणेसि । न य कामयसावणं विणा देविड्डी पाविज्जइ । ता जं किंचि आजम्माओ सुहमसुहं बा चेट्ठियं तं सव्वं पि संकित्तेसु संपयं' ।।
एत्थंतरंमि य लोहखुरेण सुमरिउं तं सूरिसाहियं सुरलक्खणगाहं चिंतियं च - 'नऽनहा जिणभासिय'ति निउणं निरूवियाओ वेसाओ, जाव मिलायंति तासिं मल्लदामाणि, कुणंति निमेसुम्मेसे लोयणाणि, पसरइ सरीरे पस्सेओ, छिवंति भूमि चलणा। तओ लोहखुरएणं - 'नेयाओ नूणं देवयाओ। ता सव्वहा भवियव्वमणेणाऽभयकुमारस्स केणाऽवि कवडेणं'ति निच्छिऊण भणियं - 'सुंदरीओ ! न मए आजम्माओ इहलोयपरलोयविरुद्धं किंचि कयाइ आयरियं । कओ दाणाइधम्मो चेवाऽऽजीवियं । न लग्गइ मे मणो तुमासु ता अण्णं कंचि सामिपुरिसं गवेसह तुब्भे' वेसाहिं वि बहुविहालीयवयणविण्णासेण जाहे न सक्किओ सो छलिउं ताहे नयरं पविसित्तु साहियं जहावट्ठियमभयस्स । ____ लोहखुरओ वि उज्जाणाओ आगओ सभवणं भावेंतो य 'सव्वमेयं रायविलसियं । परं रक्खिओ अहं महावसणसंकडाओ जिणवयणगाहाए । ता जत्थेक्कस्स वि पयत्थस्सेत्तियं माहप्पं, सो चेव मए जिणधम्मो सेवियव्वो'त्ति निवण्णो सयणिज्जे । वोलीणा रयणी । पहाए य गओ साहुसमीवं पच्चक्खिअं च तदंतिए जावज्जीवं चोरत्तणाओ परजुवईमेहुणसेवणाओ य । गहिया ससम्मत्ता देसविरई । ___ एत्यंतरे तत्थेवाऽऽगओ अभयकुमारो । वंदिउं च सो विहिणा, साहुणा कयपच्चक्खाणो उवविट्ठो धरणियले । लोहखुरेण य तस्सुट्ठिऊण कयं वंदणयं । अभयकुमारेण वि तम्मुहं पलोइऊण 'किमेयं ?'ति भणिए साहिओ साहहिं तव्वइयरो । तं च सोऊणाऽभएण वंदणं दाउं भणिओ सो - 'भद्द ! अप्पमाओ सीलव्वएसु कायव्वो' । लोहखुरओ वि ‘एवं'ति वोत्तुं पालियसावयधम्मो गओ देवलोयं ।।
१२१
Page #129
--------------------------------------------------------------------------
Page #130
--------------------------------------------------------------------------
________________ मया प्रसारितः मम परीस्पृशद् हस्तो बहिरन्धकारे मदीयहस्तादपि कस्यचिद् अधिकसमर्थहस्तस्योपलब्धेराशया, मदीयहस्तादपि कस्यचिद् अधिकविशालहस्तस्योपलब्धेराशया मया प्रसारितः मम परीस्पृशद् हस्तो बहिरन्धकारे; मया चोपलब्धः / कश्चन अन्यः परीस्पृशद् हस्तः !! मिलितौ हर्षाह्लादितौ हस्तौ स्वीयमानन्दं व्यक्तीकुर्वन्तौ !!! बोडवर गुड्मुड्सन् (आइसलेण्डीयकविः) Kirit Graphics: 09898490091