________________
कथा
समर्पणं श्रेष्ठदानम्
मुनिः रम्याङ्गरत्नविजयः
एकदा महात्मा गान्धी महोदय: स्वकीयतर्कुसमूहार्थम् 'ओरिस्साराज्यस्य ग्रामानुग्रामं विहृत्य धनराशिप्रचया यत्नं करोति स्म ।
भारतवर्षस्य नैकेषु राज्येषु एतद्राज्यस्य गणना दरिद्रतायां ख्याता । एकस्यां सभायां अस्मद्राष्ट्रपिता जनान्नुद्दिश्य 'दानं ददतु' इति सातिशयतया निवेदितवान् । तदा अर्धावनतकन्धरी जीर्णशीर्णवस्त्रवती च कर्पासकणिकेव श्वेतकेशवती एका वयोवृद्धा उत्थिता । राष्ट्रपित्रनुयायिनश्च महात्मसमीपं गमनप्रवृत्तां तामवरोद्धुं लग्नाः । किन्तु सा दृढतया त्वरितगत्या च यत्र पिता आसीनः, तत्र गता । तदनन्तरं पितुश्चरणस्पर्शं कृत्वा तया स्वीयजीर्णकशाटिकाया अन्तस्थबद्धाया ग्रन्थेर्मध्यादेकं रूप्यकं पितुः पादारविन्दयोः समर्पितम् । शीघ्रमेव तद्रूप्यकं गृहीत्वा पित्रा रक्षणीयत्वेन समुद्ग स्थापितम् । तदा तर्कसङ्घस्य सर्वराशेर्व्यवस्थाकारी "जमनालाल बजाज "नामा पितरं वक्ति स्म - 'हे पितः ! एतद्रूप्यकं मह्यं ददातु। अहं दानपेटिकायां निधाय संरक्षिष्यामि । लक्ष - सहस्राणामपि दानस्य रक्षणमस्माभिः क्रियते एव - तदैकस्याऽस्य रूपकस्य किमस्माकं भारो लगिष्यति वा ?'
-
सगौरवं पिता उवाच वृद्धासत्करूप्यकस्य लक्षकोटीदानादपि महत्तमं माहात्म्यं, न किमपि वस्तु तस्य मूल्याङ्कनं कर्तुमर्हति । भ्रातः ! लक्षाधिपतीनां सहस्रदानादप्यस्या दरिद्रवृद्धाया रूप्यकदानमपि तत्कारणात् श्लाघ्यं यत्तैः श्रीमद्भिः स्वीयनिधौ बहु संरक्ष्य किञ्चिदेव दत्तम् । अनया वृद्धया तु समग्रं जीवनसर्वस्वं स्वकीयं दत्तम्, कतिचिद् वेलानां भोजनमपि त्यक्तं सम्भवेत्, अतः मन्मनसि कोटिरूप्यकेभ्योऽपि एतद्रूप्यकं महार्घ्यमस्ति । एतादृशं समीचीनं वृत्तं निशम्याऽस्याऽवतारणं वयं स्वजीवने एवं कुर्महे यत् - धनस्य मूर्च्छा परित्यज्याऽस्माभिरुदारवृत्तिभिर्भविर्तव्यम् । तेन आत्मा त्यागसंस्कारवान् भवेत् । धनं च वायुतरत्तरङ्गवत् सर्वथा तरलं ज्ञातव्यम् । ततश्च आत्मा कदाचित्तस्य नाशेऽपि स्वस्थतया वसेत् ।
I
१०५