SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ (४) मतेर्जाड्यम् काचिन्मुग्धा महिलाऽऽसीत् । साऽतिधर्मानुरागिणी आसीत्, परमज्ञाऽऽसीत् ।। एकदा सा कस्यचित् संन्यासिनः प्रवचनश्रवणं कर्तुं बहिर्नगरं गता। अनुप्रवचनं तया सन्यासिनः पार्वे जपक्रियार्थमेको मन्त्रो याचितः । सन्न्यासिना मन्त्री दत्तः 'ॐ नमो भगवते वासुदेवाय' इति । मन्त्रमन्तःकरणे स्थापित्वा सा गृहं गता। तस्या आनन्दस्तस्मिन् दिनेऽपरिमितो दृश्यते स्म । यतस्तया गुरोः समीपान्मन्त्रोऽधिगत आसीत् । गृहकार्य समाप्य शुद्धवस्त्राणि च परिधाय सा जपक्रियार्थमुपविष्टा । परं तदैव तन्मनसि स्वस्थताहारकं चिन्तनं समुद्भुतम् । ___यतस्तस्याः पत्यु माऽपि 'वासुदेव' इत्यासीत् । मन्त्रेऽपि 'वासुदेव' इति शब्द आसीत् । अतस्तया चिन्तितं यत् - आर्यमहिलया पत्युर्नाम न ग्राह्यम् । इतो मन्त्रजपोऽपि आवश्यकोऽस्ति । अथ किं कर्तव्यमिति सा चिन्तितवती। ___कतिपयः समयव्ययो जातः । तदनु तया महिलया निर्णीतं यत् पत्यु माऽपि न ग्राह्यम्, तथाऽपि जपक्रिया त्ववश्यं करणीया' इति । तया जपमन्त्रः परिवर्तितः । अथ मन्त्र ईदृश आसीत् - 'ॐ नमो भगवते मच्छिशोर्जनकाय' इति । लघुप्रसङ्गोऽयं हास्योत्पादको ज्ञायते । परमस्मिन् प्रसङ्गेऽप्येका वार्ता नूनमवगन्तव्याऽस्ति यदुक्तमहिलाया मौयं जाड्यं वा हृदयस्य न, अपि तु बुद्धेर्जाड्यमासीत् । आर्षः कथयतीदृशं मतेर्जाड्यमल्पहानिकारकं भवति, परं हृदयस्य जाड्यं त्वत्यन्तहानिकारकं भवतीति नूनं ज्ञातव्यम् । हृदयस्य जाड्यं नाम भावनाशून्यता । इयं भावनाशून्यताऽस्माकमात्मानमसत्स्थानेषु पातयति । अतो हृदयं नित्यं भावनासम्पन्न विधेयम् । १०४
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy