________________
कस्मिश्चिद्दिने 'बालभूपालसिद्धराजो गूर्जरराज्यं पालयति' इति सन्देशो दिल्हीसिंहासनस्थयवनराजेन प्राप्तः । तेन चिन्तितम् - 'कीदृशोऽयं बालराजः ? स भीरुरस्ति शूरोऽस्ति वेति ज्ञातव्यमस्ति ।' । ___ यवनराजेन बालनृपमाकारयितुं सन्देशः प्रेषितः । यवनराजस्य वार्ताहरो गूर्जरदेशस्य राजसभायामागत्य सन्देशं दत्तवान् । __तदा गूर्जरराजमात्रा प्रोक्तम् - "बालनृपः कैश्चिद् दिनैदिल्हीनगरं नूनमागमिष्यति ।"
वार्ताहरः सत्कृत्य प्रतिप्रेषितः । परं, राजमाता भयं प्राप्तवती, यतः सा जानाति स्म 'यवनराजेन मम पुत्रः परीक्षणार्थमेवाऽऽकारितोऽस्ति । यदि सिद्धराजस्तस्य परीक्षणे निर्बलो हीनश्च प्रमाणितो भविष्यति तर्हि स आक्रमणकारी नरेशो गूर्जरदेशं प्रत्याक्रामेदपि ।
__ अतस्तयाऽऽन्वहं सिद्धराजस्य शिक्षणमारब्धम् - "पुत्र ! राजा यदीमं प्रश्नं कुर्यात् तीदमुत्तरं देयम्, यदि तेनाऽयं प्रश्नः क्रियेत तीदमुत्तरं देयमिति ।"
एवं गमनस्य समय आगतः । अधुनाऽपि राजमात्रा पृष्टम् - "वत्स ! उत्तराणि तु ते स्मरणे सन्ति ननु ?" . . सिद्धराजेन सात्मविश्वासं प्रत्युक्तम् - "मातः ! तेषां चिन्तां मा कुरु । एवमपि चिन्तय - त्वया यत् शिक्षणं न दत्तम्, तादृशं किञ्चित् प्रक्ष्यते तदाऽहं किं करिष्यामि ? अत आशीर्वादो देयः 'अहं सफलो भवेयमि'ति ।"
सिद्धराज राजपुरुषैः सह दिल्हीनगरं गतः । राजसभायां राज्ञा सह प्रथमं मिलनं जातम् । प्रथमे च मिलनप्रसङ्ग एव दिल्हीनरेशः सहसा सिद्धराजस्य करौ गृहीत्वा पृष्टवान् - "अधुना त्वं नितरां ममाऽधीनोऽस्मि । वद, अथ किं करिष्यसि ?"
प्रश्नं श्रुत्वाऽनन्तरक्षण एव सिद्धराजो मुक्तहास्योऽभवत् । दिल्हीनरेशः पुनरुक्तवान् - "बालराज ! हास्यं न कर्तव्यम्, शीघ्रमुत्तरं देयम् ।" ___ सिद्धराजो मिष्टभाषायां प्राह - "राजन् ! अथ मया किञ्चिदपि कर्तव्यं नास्ति । भवानस्मत्वैदिकपरम्परां न जानाति । तत्र पाणिग्रहणवेलायां पुंसा स्त्र्यि एक एव करो गृह्येत, तत आजीवनं तस्याः संरक्षणस्य भारं स पुरुषो निर्वहति । भवता तु मम द्वौ करौ गृहीतौ स्तः, अतो न केवलं मम, अपि तु मम राज्यस्य संरक्षणभारोऽपि भवतोऽभूत् । अतो मम का चिन्ता भवेत् ? किं च कृत्यं भवेत् ?"
लघोः सिद्धराजस्य चातुर्यपूर्ण निर्भयमुत्तरं श्रुत्वा समग्रसभायां 'अहो अहो' इति ध्वनिर्जातः । दिल्हीनरेशोऽपि प्रभावितः सञ्जातः । अथ सिद्धराजः सत्कृत्य सबहुमानं प्रतिप्रेषितः । ___ जीवने प्रतिसमयं प्रतिप्रसङ्गं सिद्धराजवत् स्वस्थता धार्या । यतः स्वस्थता कार्यसाधिका भवति, अस्वस्थता च कार्यबाधिका भवतीति कथातात्पर्यम् ।
१०३