________________
(२) तदाकारव्यक्तित्वम् वैज्ञानिकथोमसआल्वाओडिसनस्य जीवने दृश्यमानेयमन्या प्रेरकघटना । अडिसनः प्रयोगशालायां नित्यं विभिन्नप्रयोगान् करोति स्म । स प्रयोगशालायां प्रविशेत्, प्रयोगांश्च प्रारभेत तदनु प्रयोगेष्वेतादृशस्तदाकारो भवेद् यद् देहस्याऽस्तित्वमपि विस्मरेत् ।
अथैकदा अडिसनः प्रयोगशालायां प्रयोगकार्ये निमग्न आसीत् । अडिसनस्य निःशेषमस्तित्वं ननु प्रयोगमयमभवत् । तदानीं तस्य कश्चित् सुहृत् तत्राऽऽगतः । प्रयोगे तन्मयमेडिसनं दृष्ट्वा मौनमवधार्य स उच्चासनं (Chair) गृहीत्वोपविष्टवान् । . केनचित् क्षणेन अडिसनस्य किङ्करः स्थाल्यां भोजनं नीत्वाऽऽगतः । अडिसनस्य कृते लघुपल्यङ्के भोजनस्थाली रक्षित्वा किङ्करः प्रत्यागतः ।
तत्रोपविष्टं मित्रं मनसि चिन्तितवद् - 'अधुनाऽहं क्षुधापीडितोऽस्मि । अतो भोजनमिदमहमेव भक्षयेयम् ।' विचिन्त्येदं सर्वं भोजनं तेन भक्षितम् ।
पश्चात् स सहचर: 'अथ अडिसनस्य किमुत्तरं देयमिति विमोहितो जातः । रिक्ता स्थाली लघुपल्यङ्के रक्षिताऽऽसीत् ।
अत्रान्तरे अडिसनः प्रयोगाद् विमुक्तोऽभूत् । स स्वस्थानादुत्थिवान्, मित्रं च दृष्टवान् । स उपमित्रमागतः । तत्र रिक्तां स्थालीं दृष्ट्वा अडिसनो मित्रमुक्तवान् -"रे मित्र ! त्वं मनाग् विलम्बेनाऽऽगतः । पश्य, रिक्तेयं स्थाली । मयाऽधुनैव भोजनं कृतम् । अहं दुःखमनुभवामि, यतो मया तव भोजनं न कारितम् ।"
अडिसनस्य सहचरस्तेनोक्तं श्रुत्वा साश्चर्यो बभूव । स्वस्य मित्रस्य कृते तस्य हृदयेऽतिशय आदर उद्भूतः - 'स्वं मित्रं स्वकार्ये कीदृशं तदाकारमस्ति ? प्रयोगस्य तन्मयतायां भोजनं केन कृतमिति सत्यमपि स न जानाति । धन्यवादा.ऽयं सुहृत्, धन्यवादा)ऽहमपि यत ईदृशमुत्तमं मित्रं मया प्राप्तमिति' ।
अधुना विश्वस्य जना बहुधा अदाकारा भवन्ति । अदाकारा नाम अभिनयकारकाः । परमेकं जीवनपरिवर्तकं वाक्यं नित्यं स्मरणपटे रक्षितव्यम् – 'अदाकारा मुक्तिं न प्राप्नुवन्ति, अपि तु ये सत्कार्येषु तदाकारा भवन्ति त एव निराकारा भवन्ति, अर्थात् परमपदं (मुक्ति) प्राप्तुमर्हन्ती'ति ।
आगम्यताम् - वयं थोमसआल्वाअडिसनवत् स्वसाधनासु तदाकारा भवेम, ततश्च निराकारा भवेम - संसारतीरं प्राप्नुयामेति सारांशः ।।
(३) आदर्शस्वस्थता गुर्जरभूपालसिद्धराजस्येयं कथा । सिद्धराजो बाल आसीत् तदैव पितुः कर्णदेवस्य जीवनविरामोऽभवत् । अतो निर्नाथगूर्जरस्य नाथो बालसिद्धराजोऽभवत् ।
१०२ .