SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कथा विश्लानि संस्कारमूल्यानि मुनिः अक्षयरत्नविजयः (१) विरलं संशोधनप्रेम थोमसआल्वाओडिसनः । येन विद्युद्दीपसंशोधनाय ३६ सहस्राणि प्रयोगाः कृताः । तदनु साफल्यमपि . प्राप्तम् । इयं तदीया जीवनघटना - .. विद्युद्दीपसंशोधनकार्यं तदा प्रवर्तमानमासीत् । तत्रान्तरे थोमसआल्वाओडिसनः स्वस्य पूर्ण समयं संशोधनालये व्यतीतं करोति स्म । स्वस्य स्त्रिया सहाऽपि वार्तालापं न करोति स्म । अत एकस्मिन् दिने तस्य गृहिण्या कथितम् - "भोः ! रविवासरे तु संशोधनालयं त्यक्तव्यम् । यतो मनो हरितं भवेत् ।" अडिसन उक्तवान् - "त्वदीया वार्ता नूनं सत्या । परं, संशोधनालयं प्रतिषिध्याऽहं क्व गच्छेयम् ?" पत्नी उक्तवती - “यत्र गन्तुं मनो भवेत्, तत्र गन्तव्यम् ।" 'ओम्' - अडिसन उक्तवान् । तत्पश्चाद् रविवासर आगतः । ओडिसनो यथानित्यक्रमं वस्त्राणि परिधाय गृहाद् बहिनिर्गच्छति स्म, तदा पत्नी पृष्टवती - "भोः ! अद्य रविवासरोऽस्ति । क्व गच्छति भवान् ?" ओडिसनः प्रत्युक्तवान् - "यत्र गमनार्थं मे मनोऽस्ति ।" "अद्य क्व गन्तुं मनोऽस्ति भवतः ?" - पत्नी पुनः पृष्टवती । अथ अडिसनः सस्मितं प्रत्युक्तवान् - "संशोधनालयगमनं विना मे मनो क्व भवेत् ?" उत्तरं श्रुत्वा पत्नी अपि तस्य संशोधनप्रेम हृदयेन वन्दितवती । एतावत्संशोधनस्नेहादेव थोमसआल्वाओडिसनः सिद्धि प्राप्तवान् । नाऽनुभूयते यदस्माकं परमात्मस्नेहोऽपि एतावद् भवेत्तदा मोक्षप्राप्तिः - परमात्मप्राप्तिर्नूनं भवेत् ? १०१
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy