________________
अन्वयः सः, अजडः, (अपि) रूपरूपणचणम्, विदितात्मरूपम्, इष्टरूपम्, त्वाम्, कवयितुम्, कथम्, ईष्टे, मन्दम्, विना, दिनकरम्, गगने वरीतुम्, सहसा ग्रहीतुम्, अन्यः कः, इच्छति ? ॥३॥
वृत्तिः सः प्रसिद्धः | अजडः - सचेताः, जडो मन्दः, न जडोऽजड इति व्युत्पत्तेः तथा च जडत्वनिषेधसामानाधिकरण्येन सचेतस्त्वप्रतीतेर्महाकवित्वं लक्ष्यतावच्छेदकतया प्रतीयते । अपीति शेषः । रूपरूपणचणम् – रूपयति निरूपयतीति रूपण:, रूपस्य स्वरूपस्य स्वमावस्य वा रूपणो रूपरूपणः, प्रशस्तो रूपरूपणो रूपरूपणचणः, अथवा रूपस्य स्वरूपस्य स्वभावस्य वा रूपणं रूपरूपणं तेन वित्तो रूपरूपणचणस्तं तथा । विदितात्मरूपम् - विदितं ज्ञातमात्मनः परमात्मनो रूपं स्वरूपं येन स विदितात्म रूपस्तं तथा, “रूपं स्वभावे सौन्दर्य्ये नामगे पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकार श्लोकयोरपि " इति मेदिनी । इष्टरूपम् - इष्यतेऽभिलष्यते स्मेतीष्टम्, तत्तादृशं रूपं स्वभावः सौन्दर्य्यमाकारो वा यस्य स इष्टरूपस्तं तथा । त्वाम् - भवन्तम्, तत्रभवन्तम् भगवन्तमिति यावत् । कवयितुम् - विद्यायशस्तपस्त्याग संयम-वादिवशीकरणादिप्रकाशनद्वारेण वर्णयितुम् । कथम् केन प्रकारेण ? । ईष्टे - प्रभवति समर्थो भवतीति यावत् । अत्र यत्तदोर्नित्यसम्बन्धः इत्यनुशासनात्तयोरन्यतरस्याऽनुपादाने स्फुटतयोद्देश्यविधेयभावाद्य प्रतीतिनियमात् तच्छब्दमात्रस्यैव सत्त्वेन कथं विधेयो विमर्शदोषोद्धार इति नाऽऽशङ्कनीयम् - उक्तनियमस्य सत्त्वेऽपि प्रक्रान्ताप्रसिद्धानुभूतार्थकत्वे तच्छब्दस्य यच्छब्दाकाङ्क्षाविरहसिद्धान्तात् ।
-
अत एव " स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते ।
धातोः स्थान इवाऽऽदेशं सुग्रीवं सन्यवेशयत् ॥"
“स वः शशिकलामौलिस्तादात्म्यायोपकल्प्यताम् ॥"
I
“तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि " इत्यादौ न यच्छब्दोपादानापेक्षेति भावः । दृष्टान्तेन समर्थयति - मन्दमित्यादि - मन्दम् - अज्ञम्, जडम्, शनैश्वरञ्च । " मन्दोऽतीक्ष्णे च मूर्खे च स्वैरे चाऽभाग्यरोगिणोः । अल्पे च त्रिषु पुंसिस्याद्धस्तिजात्यन्तरे शनौ ” इति मेदिनी । विना अन्तरेण । दिनकरम् - करोतीति करः, दिनस्य करो दिनकर : सूर्य्यस्तं तथा । गगने आकाशे । वरीतुम् - अवरोद्धुम् । सहसा हठात्, अविचिन्त्येत्यर्थः । ग्रहीतुम् - उपादातुम् । अन्यः परः, मूर्खादितरः, विद्वानिति यावत् । कः - इच्छति - अभिलषति ? कोऽपि नेत्यर्थः ॥३॥
-
-
-
स्तोत्रं विधातुमिह कोऽविकलोऽपि हीशः
सद्धर्मधुर्य्य ! तव दिव्यगिरा मुनीश ! । को गन्तुमत्र गहनान्तमरं पदाभ्यां ?
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥४॥
२६
अन्वयः सद्धर्मधुर्य्य! मुनीश ! इह, दिव्यगिरा, तव स्तोत्रं विधातुम्, अविकलः, अपि, कः, ईशः, अत्र, पदाभ्याम्, अरम्, गहनान्तम्, गन्तुम्, कः, वा, भुजाभ्याम्, अम्बुनिधिम् तरीतुम्, कः, अलम् ? ॥४॥