________________
समीचीनानि वा तर्कलक्षणसुलक्षणानि सत्तर्कलक्षणसुलक्षणानि, “द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येक मभिसंबध्यते" इति नियमात् त्रिष्वपि पदेषु सत्पदस्य सम्बन्धात् समीचीनो यस्तदीयस्तर्कः सम्यक् यत् तत्कृतपदार्थसार्थलक्षणम्, सुशोभनं यत्तदीयं सुलक्षणमित्यर्थः तैः प्रीतप्रीतैः - अत्यन्तं प्रसन्नैः । सुगीतैः सुष्ठु शोभनं गीतं गायनं लोककदम्बककृतप्रशंसनं येषां ते सुगीताः प्रख्यातयशसस्तैस्तथा । सूरीश्वरैः सुवन्ति समुत्पादयन्ति सन्देहमिति सूरयो विद्वांसस्तेषाम् ईश्वराः श्रेष्ठाः सूरीश्वरा विद्वद्वरेण्यास्तैस्तथा । “विद्वान् सुधीः कविविचक्षणलब्धवर्णाः, ज्ञः प्राप्तरूप - कृति - कृष्ट्यभिरूपधीराः । मेधावि - कोविद - विशारदसूरि" ३|५|| इत्यभिधानचिन्तामणिः । स्तुतिपथम् - स्तुतिः स्तवनं स्तोत्रमिति यावत्, तस्याः पन्थाः मार्गः स्तुतिपथ: “समासान्तोऽत् प्रत्ययस्तं तथा । गमितं प्रापितम् । तादृशैरपि सूरिवरेण्यैः श्रद्धया स्तुतमिति यावत् । त्वाम् - त्वद्रूपं गुरुवरम् । भक्तिनिर्भरहृदा - भक्तिनिर्भरण - अनुरागातिशयेन समुपलक्षितं हृद् हृदयं भक्तिनिर्भरहृद् तेन तथा । "चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः " इत्यमरकोशात् स्वतन्त्रस्य हृदयपर्य्यायस्य हृच्छब्दस्याऽस्तित्वमवसेयम् । प्रणिपत्य - प्रणत्य । अहम्, अपि सम्मावनायाम् । सेन्द्रम् - इन्द्रेण - सौधर्मेन्द्रेण सहितः सेन्द्रस्तं तथा । तम् - प्रसिद्धम् । प्रथमम् - आद्यम् । जिनेन्द्रम्जयन्ति रागद्वेषमोहानिति जिनाः, तेष्विन्द्रः श्रेष्ठो जिनेन्द्रस्तं तथा । स्तोष्ये प्रशंसिष्यामि स्तवनकर्म करिष्ये इति यावत् । किल - संभावनायाम् । "वार्तासंभाव्ययोः किल" इत्यमरकोशः । अत्र प्रस्तुतस्य गुरुवरश्रीविजयनेमिसूरीश्वरस्य विद्वच्चक्रवर्तित्वबोधनाय विशेषणयोः साभिप्रायत्वेन परिकरालङ्कारः ।" “उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः" इति साहित्यदर्पणे तल्लक्षणात् । " ननु साभिप्रायपदार्थवाक्यार्थ विन्यसनरूप-परिकरालङ्कारप्रसङ्गो सर्वत्र काव्यलिङ्गस्य वर्तमानतया तस्य स्वातन्त्र्येणाऽलङ्कारत्वाभाव इति . चेदत्र ब्रूमः - परिकरे पदार्थ - वाक्यार्थ- बलात्प्रतीयमानानामर्थानां वाच्योपस्कारकता, काव्यलिङ्गे तु पदार्थवाक्यार्थयोरेव वाच्यार्थापस्कृतिहेतुनेति परिकरस्याऽलङ्कारत्वं निर्विवादम्, अत एव व्यङ्ग्यार्थस्य वाच्यपरिकरत्वात्परिकर इति नामाऽप्यस्याऽलङ्कारस्य । केचित्तु निष्प्रयोजनविशेषणोपादानेऽपुष्टार्थत्वदोषस्य विद्यमानत्वात् विशेषणस्य सप्रयोजनत्वं दोषाभावमात्रं न कश्चिदलङ्कारः, एकनिष्ठतादृशानेकविशेषणोपन्यासे केवलं वैचित्र्यविशेषात् परिकर इत्यलङ्कारमध्ये परिगणित इत्याहुः । वस्तुतस्त्वनेकविशेषणोपन्यास एव परिकर इति न नियमः, श्लेषयमकादावपुष्टार्थस्य दोषाभावेन नैकस्याऽपि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषात् परिकरः स्वीकरणीय इति ॥२॥
त्वां रूपरूपणचणं विदितात्मरूपं
सेष्टेऽजडः कवयितुं कथमिष्टरूपम् । मन्दं विना दिनकरं गगने वरीतु
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥३॥
२५