________________
-
-
तव
वृत्तिः सद्धर्मधुर्य्य ! सन् शोभनश्चाऽसौ धर्मः सुकृतं सद्धर्मः “सन्महत्परमोत्तमोत्कृष्टैः पूज्यमानम्” इत्यनेन कर्मधारयसमासः । तत्र धुर्य्यो धूर्वहः सद्धर्मधुर्य्यस्तदामन्त्रणे तथा । "धुरीणधुर्य्यधौरेय धौरेयकधुरन्धराः । धूर्वहे" ४।३२८ ॥ इत्यभिधानचिन्तामणिः । मुनीश ! मन्तारः शास्त्रतत्त्वावगन्तारो मुनयः “मनेरुच्च” इत्युणादिसूत्रेणेन्प्रत्ययोऽकारस्योकारादेशश्च । तेषामीशः स्वामी मुनीशस्तदामन्त्रणे तथा । इह अत्र लोके । दिव्यगिरा - दिवि स्वर्गे भवा दिव्या स्वर्गीया, अलौकिकीत्यर्थः, सा चाऽसौ गीर्वाणी दिव्यगीस्तया, मनोहारिवचसेति यावत् । "दिव्यं लवङ्गे धात्र्यां स्त्री- वल्गौ दिवि भवे त्रिषु " इति मेदिनी । . श्रीमतो भवतः सूरिचक्रवर्तिनः । स्तोत्रम् - स्तवनं स्तोत्रम् "त्रट्" (हैमोणादि ४४६ ) इति त्रट् तत्तथा प्रशंसाम् । "वर्णनेडा स्तवः स्तोत्रं स्तुतिनुतिः । श्लाघा प्रशंसाऽर्थवादः " २ / १८३ इत्यभिधानचिन्तामणिः । विधातुम् - कर्तुम् | अविकलः विगता कलाकौशलं यस्य स विकलोऽपरिपूर्णः, न विकलस्तथा । सकलकलाकुशलः । अपि संभावनायाम् । “अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये," इति मेदिनी । कः - अनिर्दिष्टनामा को नाम कविः । ईशः - ईष्टे इतीशः समर्थः । अपि तु नैव कोऽपि प्रौढोऽपि कवयिता भवदीयगुणगणप्रशंसनेऽस्ति प्रभुरिति भावः । अमुमेवाऽर्थमुपपादयति को गन्तुमत्रेत्यादि - अत्र - लोकेऽस्मिन् । पदाभ्याम् - चरणाभ्याम् । “पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः । पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः" इति मेदिनी । अरम् सत्वरम् । "अथ शीघ्रं त्वरितं लघुक्षिप्रमरं द्रुतम् । सत्वरं चपलं तूर्णम्" इत्यमरः । गहनान्तम् - काननान्तम् । गन्तुम् - प्राप्तुम् । कः को नाम । अलम् - समर्थः वा अथवा | भुजाभ्याम् - बाहुभ्याम् । अम्बुनिधिम् - अम्बूनि जलानि निधीयन्ते ऽस्मिन्नित्यम्बुनिधिः "व्याप्यादाधारे" ५/३/८८|| इत्यनेन कि: प्रत्यय: । तं तथा, जलधिम् - समुद्रमिति यावत् । तरीतुम् - पारयितुम् । कः को नाम । अलम् - • समर्थ: । "अलं भूषण - पर्य्याप्ति-वारणेषु निरर्थके । शक्तौ " इति मेदिनी । अत्र चरणद्वयकरणकगहनान्तगमनं बाहुद्वयकरणकसमुद्रतरणं वा यथाऽसम्भवितं तथा कविकर्तृक- स्वशक्ति- व्युत्पत्त्यादिकरणकसूरिचक्र चक्रवर्तिगुणस्तवनमसम्भवमिति, “अरण्यरुदितं कृतं शव - शरीरमुद्वर्तितं, स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितं; श्वपुच्छमवनामितं बधिरकर्णजापः कृतो, धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः”, “दोर्भ्यामब्धि तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम्" इत्यादाविव निदर्शनालङ्कारः । “वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना" इति चन्द्रालोकीयलक्षण - वाक्यस्य बिम्बप्रतिबिम्बभावापन्न-वस्तुस्वरूपविशिष्टप्रस्तुताप्रस्तुतधर्मयोरैक्यारोपो निदर्शनेत्यत्रैव कुवलयानन्दे तात्पर्य्यवर्णनादिति शम् ॥४॥
-
-
-
शक्तिं विचारपदवीमविधाय भक्त्या
बाढं तव स्तवनमाचरितुं विरक्त्या । उत्साहितोऽस्मि समवेक्ष्य न वै महार्थं
२७
-
नाऽभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५ ॥
-