________________
अन्वयः भक्त्या, शक्तिम्, विचारपदवीम्, अविधाय, विरक्त्या, तव, स्तवनम्, बाढम्, आचरितुम्, उत्साहितः, अस्मि, ना, वै, समवेक्ष्य, निजशिशोः, परिपालनार्थम्, महार्थम्, न, अभ्येति, किम् ? __ वृत्तिः भक्त्या - भजनं सेवनमिति भक्तिः सेवा, तया तथा । "भक्तिविभागे सेवायां स्त्रियाम्" इति मेदिनी । शक्तिम् - सामर्थ्यविशेषम्, बलमिति यावत् । “शक्तिरस्त्रान्तरे गौ-मुत्साहादौ बले स्त्रियाम्" इति मेदिनी । विचारपदवीम् - विचारणासरणिम् । अविधाय - अकृत्वा । मयेदं कार्यं कर्तुं शक्यते न वा? एतत्कार्यप्रयोजकशक्तिमानहमस्मि नवेत्यादि विचारधारायामवगाहनमकृत्वैवेति भावः । विरक्त्या - रञ्जनं रक्ती राग इति यावत्, विशिष्टा चाऽसौ रक्तिः विरक्तिर्विशिष्टानुरागस्तया तथा । सव - महामहिमशालिन: श्रीनेमिसुगुरोः । स्तवनम् - स्तुतिम्, स्तोत्रमिति यावत् । बाढम् - भृशम् । अत्यर्थमिति यावत् । “अतिवेल भृशात्यतिमात्रोद्गाढनिर्भरम् । तीनैकान्तनितान्तानि गाढबाढदृढानि चे"त्यमरः । आचरितुम् - कृतिविषयतामापादयितुम्, कर्तुमिति यावत् । उत्साहितः - दत्तोत्साहः, उत्साहं प्रापय्य संप्रेरित इति यावत् । अस्मि - भवामि । ननु प्रेक्षावतामिष्टसाधनत्व-कृतिसाध्यत्व-बलवदनिष्टाननुबन्धित्वज्ञानानामेव प्रयोजकत्वेन दृष्टचरत्वात्कथं शक्तिविषयताबहिर्भूतेऽपि प्रवर्तते भवानित्याशक्य अर्थान्तरन्यासच्छलेन समवेक्ष्येत्यादि समादधदाह - समवेक्ष्येत्यादि - ना - नरः विचक्षणोऽपीति शेषः । "मर्त्यः पञ्चजनो भूस्पृक् पुरुषः । पूरुषो नरः । मनुष्यो मानुषो ना विट मनुजो मानवः पुमान्" ३/१।। इत्यभिधानचिन्तामणिः । वै - निश्चयेन । समवेक्ष्य - सम्यक् प-लोच्य । निजशिशोः - निजः स्वीयश्चाऽसौ शिशुर्बालः कुमारक इति यावत्, निजशिशुस्तस्य तथा, तात्पर्य्यतः स्वतनयस्येति बोध्यम् । परिपालनार्थम् - परि सर्वतोभावेन पालनं रक्षणमर्थः प्रयोजनं यस्मिन् कर्मणि तत्तथा स्यात्तथा, क्रियाविशेषणानां कर्मत्वमेकत्वं चेत्यनुशासनात् । "अर्थो विषयार्थनयोर्धनकारणवस्तुषु । अभिधेये च शब्दानां निवृत्तौ च प्रयोजने" इति मेदिनी । महार्थम् - महांश्चासावर्थश्चेति महार्थस्तं तथा । न - नहि । अभ्येति - स्वीकरोति । किम् - वितर्केऽव्ययम् । “किं कुत्सायां विकल्पे च निषेधप्रश्नयोरपि" इति मेदिनी । अत्र लोककर्तृकनिजशिशुपालनार्थं महार्थाभ्युपगमा त्मकेन सामान्येनाऽर्थेन विशेषस्य भवत्स्तवनोद्योगस्य समर्थनात् "उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः" इति चन्द्रालोकीयलक्षण-लक्षितोऽर्थान्तरन्यासोऽलङ्कारः ।।५।।
रूपं विशुद्धतरमत्र गुरो ! त्वदीयं
संकर्षते नवनवे हृदयं मदीयम् । यद्रौति पञ्चमरवं भुवि काककेतु
स्तच्चारुचूतकलिकानिकरैकहेतु ॥६॥ अन्वयः गुरो !, विशुद्धतरम्, तव, रूपम्, अत्र, नवनवे, मदीयम्, हृदयम्, संकर्षते, काककेतुः, यत्, भुवि, पञ्चमरवम्, रौति, तत्, चारुचूतकलिकानिकरैकहेतु ॥६॥
वृत्तिः गुरो ! – सद्धर्मोपदेशनविचक्षण ! परमैश्वर्यविलसितसूरिचक्रचक्रवर्तिन् भगवन् !, "गुरुधर्मोपदेशकः" इति हैमस्मरणात् । विशुद्धतरम् - अतिशयेन विशुद्ध तथा "द्वयोविभज्य" इत्यादिना