________________
तरप् प्रत्ययः । तव - महामहिमशालिनः श्रीमतो भवतः । रूपम् - स्वभावः, सौन्दर्य्यम्, शब्दः, आकारो वा। "रूपं स्वभावे सौन्दर्ये नामगे पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकार-श्लोकयोरपि" इति मेदिनी । अत्र - अस्मिन् बुद्धिविषये । नवनवे - नवो नूतनश्चाऽसौ नवः स्तवो नवनवस्तस्मिंस्तथा, वीप्सायां द्वित्वविधानाद् भूयो भूयः स्तुतौ वा । मदीयम् - मम - मल्लक्षणजनस्येदं तथा, मत्सम्बन्धीत्यर्थः । हृदयम् - ह्रियते इति हृदयं "गय हृदय" (उणा० ३७०) इत्यनेन निपात्यते, अन्तःकरणम्, “अन्तःकरणं मानसं मनः । हच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले" ६/५॥ इत्यभिधान-चिन्तामणिः । संकर्षते - अवबध्नाति आवर्जयतीति यावत् । दृष्टान्तेन समर्थयति यद्रौतीत्यादि - काककेतुः - कोकिलस्तस्य काकशत्रुत्वात् । भुवि - लोके । यत् । पञ्चमरवम्, पञ्चमः - पञ्चत्वसंख्या पूरको, रवः शब्दः कूजनं यत्र कर्मणि तद्यथा स्यात्तथा । रौति - आलपति । तव - पञ्चमस्वरसाहित्येन कोकिलकर्तृककूजनम् । चारुचूतकलिकानिकरैकहेतु - चारुर्मनोहरा या चूतानामामृतरूणां कलिका चारुचूतकलिका सैवैक: प्रधानोऽद्वितीयो हेतुः कारणं यस्मिंस्तथा । "आम्रचूतो रसालोऽसौ सहकारः", "हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्" इत्यमरः । "एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा" इति कोशः । "कलिकाकोरकः पुमान्" इत्यमरः । “चारु हारि रुचिरं मनोहरम्" ६/८१ ॥ इत्यभिधानचिन्तामणिः । सुवर्णस्य विशुद्धः श्यामिकाया वा संलक्षणमग्नावेवेति - तत्र तस्यैव सामर्थ्यन्तद्वत् मदीयहृदयाकर्षणे भवतां रूपस्यैव माहात्म्यमित्यवसेयम् । दृष्टान्तालङ्कारः । "चेद् बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कतिः" इति चन्द्रालोके तल्लक्षणस्मरणात् । उपमानोपमेयवाक्यार्थघटकधर्मयोः बिम्बप्रतिबिम्बभावो दृष्टान्त इत्यवसेयम् । बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मादिकं वाक्यार्थयोरार्थमौपम्यं दृष्टान्त इति निष्कर्षः । विवरणकारास्तु "प्रतिवाक्यं विभिन्नस्याऽपि साधारणधर्मस्य तुल्यरूपतया वाक्यार्थयोरुपमासम्पादकत्वे दृष्टान्तालङ्कार इति फलितम्" इत्याहुः । एकस्याऽर्थस्य शब्दद्वयेनाऽभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोद्विरुपादानं बिम्बप्रतिबिम्बभाव इति प्रतापरुद्रयशोभूषणे स्पष्टम् ॥६॥
ज्ञानावृति त्वदभिधानहतं हताशं - कर्मारमस्तसमयं वृणुते विनाशम् । लोके दुरन्तमखिलं निहतप्रचारम्
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ अन्वयः अस्तसमयम्, त्वदभिधानहतम्, हताशम्, ज्ञानावृति, कर्म, लोके, दुरन्तम्, निहतप्रचारम्, सूर्यांशुभिन्नम्, अरं, वृणुते ॥७॥
वृत्तिः अस्तसमयम् - अस्तः क्षिप्रः समयः सिद्धान्तो यस्मात्तत्तथा । "समयः शपथाचारसिद्धान्तेषु तथा धियि । क्रियाकारे च निर्देशे सङ्केते कालभाषयोः" इति मेदिनी । त्वदभिधानहतम् - भवन्नामप्रतापविनाशितम् । हताशम् - हता विनष्टा आशा तृष्णा यस्य तत्तथा । "आशादिगतितृष्णयोः" इति
२९