________________
मेदिनी । ज्ञानावृति - ज्ञानस्य श्रुत-दर्शनाद्यात्मकस्य आवृतिरावरणं प्रतिरोधो यस्मात्तत्तथा । कर्म - ज्ञानावरणीयाद्यात्मकमष्टविधत्वेनाऽतिप्रसिद्धम् । लोके - जगति । "स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्" ६/१।। इत्यभिधानचिन्तामणिः । दुरन्तम् - दुष्टोऽन्तोऽवसानं यस्य तत्तथा, निहतप्रचारम् - निहतः समग्रं विनाशितः प्रचारः प्रसारो व्यापकतेति यावद्यस्य तत्तादृशम् । सूर्यांशुभिन्नम् - सूर्य्यस्य दिवाकरस्यांऽशवः किरणानि सूर्यांशवस्तैभिन्नं विदारितं तथा । "किरणोत्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीचि स्त्री" इत्यमरः । अखिलम् - निवृत्तं खिलात् शून्यादित्यखिलं समस्तम् । “सर्व समस्तमन्यूनं समग्रं सकलं समम् । विश्वाशेषाखण्ड-कृत्स्नन्यक्षाणि निखिलाखिले" ६/६९ ॥ इत्यभिधानचिन्तामणिः । शार्वरम् - शृणाति चेष्टाः शर्वरी यामिनी तस्या इदन्तथा । “निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा । त्रियामा यामिनी भौती तमी तमा विभावरी" २/५५ ॥ इत्यभिधानचिन्तामणिः । अन्धकारम् - ध्वान्तम् । "ध्वान्तं भूच्छायान्धकारं तमसं समवान्धत:" २/६० ॥ इत्यभिधानचिन्तामणिः । इव - यथा । अरम् - शीघ्रम्, । "लघुक्षिप्रमरं द्रुतम्" इत्यमरः । विनाशम् - विध्वंसम् । वृणुते - स्वीकरोति । बिम्बप्रतिबिम्बभावापन्न-साधारणधर्मप्रयोज्योपमालङ्कारः ॥७॥
इत्थं विचार्य्य विहितं गुणगौरवं ते ।
स्तोत्रं सतां हृदयमाविशतीष्टमन्ते । भावस्तवैव हि सरोजदले सदिन्दु
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ अन्वयः इत्थम्, विचार्य, विहितम्, गुणगौरवम्, अन्ते, इष्टम्, ते, स्तोत्रम्, सताम्, हृदयम्, आविशति, इति, भावः, त्वयि, हि, उदबिन्दुः, सरोजदले, सदिन्दुमुक्ताफलद्युतिम्, उपैति, ननु ||८||
वृत्तिः इत्थम् - अनेन पूर्वोक्तप्रकारेण । विचार्य - अनुसन्धाय, परिशील्येति यावत् । विहितम् - रचितम् । गुणगौरवम् - गुणैर्माधुर्य्यादिभिस्त्रिभिः व्यङ्ग्यव्यञ्जकभावेन शब्दार्थरसरचनावृत्तिभिः । यद्यपि वामनादिभिराचार्यैः - "श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थ-व्यक्तिरुदारत्वमोजःकान्तिसमाधयः" इतीमान् तुल्याभिधानान् दश शब्दगुणान् दश चाऽर्थगुणानभिमन्यन्ते । तेषां स्वरूपाणि तु
शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासो गाढत्वापरपर्यायः श्लेषः १, गाढत्वशैथिलाभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः २, उपक्रमादासमाप्ते रीत्यभेदः समता ३, संयोगपरहूस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्य्यम् ४, अपरुषवर्ण-घटितत्वं सुकुमारता ५, झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः ६
३०