________________
कठिनवर्णघटनारूपविकटत्वलक्षणोदारता ७ संयोगपरहस्वप्राचुर्य्यरूपगाढत्वमोजः ८ अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्तिः ९ बन्धगाढत्वशिथिलत्वयोः क्रमेणाऽवस्थानं समाधिः १० इतीमे दश शब्दगुणाः । एवं क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च सामानाधिकरण्यरूप: संसर्गः श्लेषः १ यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः २ प्रक्रमाभङ्गेनाऽर्थघटनात्मकवैषम्यं समता ३ एकस्या एवोक्तेर्भङ्ग्यन्तरेण पुनः कथनात्मकमुक्तिवैचित्र्यं माधुर्य्यम् ४
अकाण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता ५ • वस्तुनो वर्णनीयस्याऽसाधारणक्रियारूपयोर्वर्णनमर्थव्यक्तिः ६
चुम्बनं देहि मे भार्थे ! कामचाण्डालतृप्तये" इत्यादिग्राम्यार्थ-परिहार उदारता ७
एकस्य पदार्थस्य बहुभिः पदैरभिधानम्, बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर्वाक्यैबहुवाक्यार्थस्यैकवाक्येनाऽभिधानम्, विशेषणानां साभिप्रायत्वञ्चेति पञ्चविधमोजः ८
दीप्तरसत्वं कान्तिः ९ अवर्णितपूर्वोऽयमर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं समाधिः १० इतीमे दशार्थगुणाः सन्तीति कथं गुणानां त्रित्वमिति शक्यते शङ्कितुम् । तथापि - "श्लेष: समाधिरौदार्य प्रसाद इति ये पुनः । गुणाश्चिरन्तनैरुक्ता ओजस्यन्तर्भवन्ति ते ॥१॥ माधुर्यव्यञ्जकत्वं य-दसमासस्य दर्शितम् । पृथक्पदत्वं माधुर्म्य, तेनैवाऽङ्गीकृतं पुनः ॥२॥ अर्थव्यक्तेः प्रसादाख्य-गुणेनैव परिग्रहः । अर्थव्यक्तिः पदानां हि, झटित्यर्थसमर्पणम् ॥३॥ ग्राम्यदुःश्रवतात्यागात् कान्तिश्च सुकुमारता । क्वचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी । अन्यथोक्तगुणेष्वस्य अन्तःपातो यथायथम् ॥४॥