________________
इति दशानां शब्दगुणानाम्
'ओजः प्रसादो माधुर्य्यं, सौकुमार्य्यमुदारता । तदभावस्य दोषत्वात्, स्वीकृता अर्थगा गुणाः ॥ अर्थव्यक्तिः स्वभावोक्त्य - लङ्कारेण तथा पुनः । स च ध्वनिगुणीभूत- व्यङ्ग्याभ्यां कान्तिनामकः ॥
श्लेषो विचित्रतामात्रमदोषः, समतापरम् ।
न गुणत्वं समाधेश्च तेन नाऽर्थगुणाः पृथक् ॥
इति दशानामर्थगुणानां चाऽन्ततस्त्रिष्वेवाऽन्तर्भावसम्भवादित्याकलनीयम् ।
अन्ते - अवसाने, अन्तिके वा । "अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु" इति मेदिनी । इष्टम् - अभिमतम्, अभिलषितमिति यावत् । ते - श्रीमतो भगवतो भवतः । स्तोत्रम् - स्तवः । सताम् -सज्जनानाम् । हृदयम् - अन्तःकरणम् । आविशति प्रविशति । सज्जना भवन्तं मनसा स्तुवन्तीति भावः । एषः भावः अनुभावः, प्रभाव इति यावत् । तव श्रीमतो भवत एव । एव - अवधारणार्थ कमव्ययम् । अर्थान्तरन्यासेन पुनरर्थमिमं द्रढयति - हि सरोजदले " इत्यादिना । हि - निश्चयेन । सरोजदले कमलपत्रे । सर्वं वाक्यं सावधारणं भवतीति नियमात्कमलपत्र एवेत्यर्थः । उदबिन्दुः- जलपृषतः, शीकर इति यावत् । सदिन्दुमुक्ताफलद्युतिम् - सच्चन्द्रमौक्तिककान्तिम् । उपैति - प्राप्नोति । ननु - वाक्यालङ्कारे || अर्थान्तरन्यासालङ्कारः । तत्त्वमुक्तं प्राक् ॥८॥
-
स्तोत्रेण किं त्वदभिधानत एव नव्यं
नानाविधं भवति शं भुवि भव्यभव्यम् । भानुं विनाऽपि किरणैर्मधुरं विराञ्जि
पद्माकरेषु जलजानि विकाशभाञ्जि ॥९॥
अन्वयः स्तोत्रेण, किम्, त्वदभिधानतः, एव, भुवि, भव्यभव्यम्, नव्यम्, नानाविधम्, शम्, भवति, भानुम्, विनाऽपि, किरणैः, विराज्ञ्जि, जलजानि, पद्माकरेषु, मधुरम्, विकाशभाञ्जि, भवन्ति ॥९॥
-
1
वृत्ति: स्तोत्रेण - स्तवनेन । तत्रभवच्छ्रीमत्सम्बन्धिनेत्यर्थतः । किम् ? - किमपि प्रयोजनं नास्तीति भावः । त्वदभिधानतः तव श्रीमतो भवतः सूरीश्वरस्याऽभिधानं नामधेयन्त्वदभिधानन्तस्मात्तथा । “प्रत्ययोत्तरपदयोश्च” इति पाणिनीयसूत्रेण युष्मच्छब्दस्य त्वादेशस्ततः पञ्चम्यन्तात्तसिल्प्रत्ययः । एव अवधारणार्थमव्ययम्, तेन चेतरव्यवच्छेदः, नाऽन्यस्मादिति फलितं भवति । भुवि - लोके । भव्यभव्यम् - भविकभविकम्, अत्यन्तक्षेमकरमिति यावत् । नव्यम् - नवीनम्, अपूर्वमिति यावत् । नानाविधम् - अनेकप्रकारकम् । शम् - कल्याणम् । भवति - जायते । वैधर्म्येण दृष्टान्तेन समर्थयति - भानुं विनाऽपी त्यादिना - भानुम् - भाति प्रकाशते जगदस्मादिति भानुः सूर्यस्तन्तथा । विनाऽपि अन्तरेण खलु ।
३२