________________
वस्तुविषयं सावयवं रूपकमलङ्कारः । ननु रूपकस्य समासस्थले दर्शनात् धान्यं शिवमित्यादावसमस्ते कथं तत्स्वीकार इति चेदत्रोच्यते "मुखं चन्द्रः" इत्यादौ वाक्येऽपि रूपकस्वीकारस्य सर्वसम्मतत्वात् । ननु रूपकस्थले यदि सर्वत्र सारोपलक्षणाया अङ्गत्वन्तर्हि मुखं चन्द्रः "चन्द्र इव मुखम्" इत्युभयत्राऽपि चन्द्रसदृशाभिन्नं मुखमिति बोधावैलक्षण्यात् उपमितिः कथं रूपकस्य भेद इति चेदत्रोच्यते रूपकस्योपमिात. स्वरूपसंवेदनांशमादाय । वैलक्षण्येऽपि लक्षणाफलीभूतताद्रूप्यसंवेदनमादाय वैलक्षण्यं निर्बाधम् । ताद्रूप्यसंवेदनं च विषये मुखादौ विषयतावच्छेदकस्य चन्द्रसदृशमुखत्वादेः सम्प्रत्ययः इति शम् ॥१९||
नैसर्गिकं सुजनजाड्यहरं चिरत्ने
__ तेजश्चकास्ति भगवस्तव चित्तरत्ने । नाऽन्यत्र दृष्टमथवाऽस्ति विभाकरेऽपि
नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ अन्वयः भगवन् ! चिरत्ने तव, चित्तरत्ने, सुजनजाड्यहरम्, नैसर्गिकम्, तेजः, चकास्ति, एवम्, अन्यत्र, न, दृष्टम्, अथवा, विभाकरे, अपि, अस्ति, किरणाकुले, काचशकले, अपि, न ॥२०॥
वृत्तिः भगवन् ! - षड्विधैश्वर्यशालिन् सूरिचक्रचक्रवर्तिन् । चिरत्ने - चिरत्नने, सनातने इति यावत् । तव - श्रीमतो भवतः । चित्तरत्ने - चित्तं मानसमेव रत्नं चित्तरत्नन्तस्मिंस्तथा । सुजनजाड्यहरम् - सुष्ठ शोभनश्चाऽसौ जनो लोकस्तस्य जाड्यं जडत्वमज्ञानमिति यावत् तस्य हरं निवारकं सुजनजाड्यहरं तं तथा । नैसर्गिकम् - स्वाभाविकम् । तेजः ज्योतिः, प्रकाश इति यावत् । चकास्ते - द्योतते । एवम् - इत्थम् तम्, तेज इति यावत्, अन्यत्र - भवदीयचित्तरत्नादतिरिक्तस्थले कुत्राऽपि । न - नहि । दृष्टम् - अवलोकितम्, केनाऽपि प्रत्यक्षीकृतमिति यावत् । अस्तीति शेषः । अथवा - पक्षान्तरे । विभाकरे - सूर्ये । अपि - सम्भावनायाम् । “अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये" इति मेदिनी । अस्ति - वर्तते । तु - किन्तु । किरणाकुले - किरणै रश्मिभिराकुलं व्याप्तं किरणाकुलं - तस्मिंस्तथा। "किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः" इत्यमरः । अपि - खलु । काचशकले - काचखण्डे । अपि - खलु । न - नहि । अस्तीति भावः ॥२०॥
संसारवारिनिधिजातदुरन्तदोषं
___ हत्वा सदाऽऽचरितमत्र सदात्मपोषम् । जैनं वचस्तव तथा लसदन्तरेऽपि
कश्चिन्मनो हरति नाऽथ भवान्तरेऽपि ॥२१॥ अन्वयः संसारवारिनिधिजातदुरन्तदोषम्, हृत्वा, सदा, आचरितम्, सत्, आत्मपोषम्, तव, जैनम्, वचः, अन्तरे, अपि, तथा, अलसत्, (यथा) भवान्तरे, अपि, कश्चित्, ना, मनः, न, हरति ॥२१॥
४२