SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 44 वृत्ति: संसारवारिनिधिजातदुरन्तदोषम् - वारिणी जलानि निधीयन्ते स्थाप्यन्तेऽस्मिन्निति वारिनिधिः समुद्रः, संसारो भवो जन्ममरणपरम्परैव वा वारिनिधिः समुद्रः संसारवारिनिधिस्तस्माज्जात उत्पन्नो दुरन्तो दुष्परिणामश्चाऽसौ दोषो दूषणं संसारवारिनिधिजातदुरन्तदोषस्तन्तथा । हृत्वा - विनाश्य । सदा सर्वदा । आचरितम् - आचारविषयीकृतम् सत् । आत्मपोषम् - आत्मसम्प्रदानकपरिपोषदायकम् । तव - श्रीमतो भवत: सूरीश्वरस्य । जैनम् - जिनानां श्रीमदादिदेवप्रमुखचतुर्विंशतितीर्थकृतामिदं जैनम् । वचः - देशनात्मकं वचनम् । अन्तरे - आत्मनि । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरव सरममध्येऽन्तरात्मनि च" इत्यमरः अपि - खलु । तथा तेन प्रकारेण । अलसत् - अशोभत् । (यथा) येन प्रकारेण, भवान्तरे - लोकान्तरे, परलोके इति यावत् । वस्तुतस्तु भवान्तरे इत्यस्य जन्मान्तरे इत्येवमर्थो विधेयः, तथैव प्रस्तुतोपयोगात् " भवः क्षेमेशसंसारे सतायां प्राप्तिजन्मनोः" इति मेदिनी । अपि - खलु । कश्चित् - कोऽपि । ना - पुरुषः । मनः - स्वीयमन्तःकरणम् । न नहि । हरति - चोरयति, दूरीकरोतीति यावत्, जैनागमसम्बन्धि भवदीयं तथाविधं व्याख्यानकालिकं शान्तरसप्रवाहान्वितं कठिनातिकठिनचेतोविद्रावकं जन्मान्तरीयनिजवृत्तान्तस्मारकं भवति यथा लोकः - का कथाऽस्य जन्मन: ? परस्मिन् जन्मन्यपि भवदाज्ञावशवर्ती भवितुकामो भवतीति भावः । संसारे वारिनिधित्वारोपाद् रूपकमलङ्कारः । तच्च रूपकं प्रकृते निरङ्गमवसेयम् । यत्र प्रधानस्य कस्यचिदारोपस्य पोषणार्थमन्यान्ये आरोपाः संभवन्ति तत्रैव रूपकस्य साङ्गत्वस्वीकारात् प्रकृते चाऽन्येषामारोपाणामभावान्निरङ्गत्वं स्फुटमेवेत्यवसेयम् ॥२१॥ › श्रीमद्यशोविजयवाचकमुख्यग्रन्थान् विश्वे तवैव प्रतिभा कृतवत्यकन्थान् । आशाः पराः प्रसवते परमर्कमालं प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ - अन्वयः तव, एव, प्रतिभा, लोके, श्रीमद्यशोविजयवाचकमुख्यग्रन्थान्, अकन्थान्, कृतवती, पराः, आशाः, प्रसवते, परम्, स्फुरदंशुजालम्, अर्कमालम्, प्राची, एव, दिग्, जनयति ॥२२॥ वृत्तिः तव - विविधविद्याविद्योतमानमानसस्याऽऽचार्य्यवृन्दपुरन्दरस्य भवतः । एव - अवधारणार्थकमव्ययम्, तेन नाऽन्यस्य कस्यचिदित्येतत्कलितं भवति । प्रतिभा - नवनवोन्मेषशालिनी प्रज्ञा । “प्रज्ञानवनवोन्मेषशालिनी प्रतिभा मता" इत्यभियुक्तोक्तेः । या किल काव्यकारणतया ध्वनिकारश्रीमदानन्दवर्धनाचार्य्याभिनवगुप्तमम्मटविश्वनाथाप्पय्यदीक्षितपण्डितराजजगन्नाथप्रमुखैः काव्यतत्त्वार्थपरिपक्ववासनावद्भिर्विद्वद्भिर्व्यवस्थापिताऽस्तीति । इदमत्र तत्त्वम् - "शक्तिर्निपुणता लोक-काव्यशास्त्राद्य वेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे" इति कारिकया सम्मीलितस्येव प्रतिभापरपर्य्यायशक्ति निपुणताभ्यासैतत्त्रितयस्य काव्यकारणत्वं न तु केवलायाः प्रतिभायाः अत एव " इति हेतुस्तदुद्भवे" इत्यत्रैकवचनमपि सङ्गच्छते तथापि पण्डितराजैः प्रतिभाया एव केवलायाः काव्यकारणत्वेन स्वीकारान्न ४३
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy