SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कोऽपि विरोधः समापततीति, तथाहि - तस्य च कारणं कविगता केवला प्रतिभा । सा च काव्यघटनानुकूला शब्दार्थोपस्थितिः । तद्गतप्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धे जातिविशेष उपाधिरूपं वाऽखण्डम् । तस्याश्च हेतुः क्वचिद्देवता महापुरुषप्रसादादिजन्यमदृष्टम्, क्वचिच्च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासो न तु त्रयमेव, बालादैस्तौ विनाऽपि केवलमहापुरुषप्रसादादपि प्रतिभोत्पत्तेरिति । लोके - जगति । "लोकस्तु भुवने जने" इत्यमरः "स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्" ६।१॥ इत्यभिधानचिन्तामणिश्च । श्रीमद्यशोविजयवाचकमुख्यग्रन्थान् - श्रीमद्यशोविजयवाचको मुख्यः प्रधानं येषां ते श्रीमद्यशोविजय वाचकमुख्यास्तेषां ग्रन्थाः श्रीमहावीरस्तुत्यपरनामकखण्डनखण्डखाद्यादयः श्रीमद्यशोविजयवाचकमुख्य ग्रन्थास्तास्तथा । अकन्थान् - अकच्चरान्, संगृह्य लक्षणाऽपि मुद्राभिरेकैकं पत्रं संस्कृत्य मुद्रापयित्वा कृतार्थमिति यावत् । कृतवती - अकरोत् । विषयमिमं दृष्टान्तेन समर्थयति "आशाः पराः" इत्यादिना । परा: - पूर्वभिन्नाः पश्चिमादयः । आशा - दिशः । आशा दिगतितृष्णगयो: इति मेदिनी । परम् - केवलम् । "परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले" इति मेदिनी । प्रसवते - उत्पादयन्ति । कश्चिदिति शेषः । स्फुरदंशुजालम् - समुल्लसितकिरणकरम्बितम् । अर्कमालम् - सूर्यम्, प्राची - पूर्वा । एव - अवधारणे । दिक् - दिशा । जनयति - समुत्पादयति । यथा सत्यामप्यन्यस्यामाशायां स्फुरदंशुजालं सूर्यं प्राच्येव जनयति तथैव सत्यामप्यन्यदीयायां प्रतिभायां भवतां प्रतिभैव श्रीमद्यशोविजयप्रभृत्यमुद्रितच्छिन्नप्रायान् ग्रन्थान् सफ्लयति स्मेति निदर्शनालङ्कारः । अभवद्वस्तुसम्बन्धी उपमापरिकल्पकः निदर्शना इति तदीयलक्षणस्मरणात् ॥२२॥ सद्दर्शनाविकलचिच्चरणानि तानि मार्गोऽयमेव ननु पारगतोदितानि । उद्घोषितं नु भवताऽपि भवस्य मन्था नाऽन्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ अन्वयः पारगतोदितानि, तानि सद्दर्शनाविकलचिच्चरणानि, अयम्, एव, मार्गः, ननु, मुनीन्द्र ! भवता, अपि, भवस्य, मन्थाः, अन्यः, शिवपदस्य, पन्थाः, न, (इति) उद्घोषितम्, नु ॥२३|| वृत्तिः पारगतोदितानि - संसारस्य ये पारं पर्यन्तं गताः पारगतास्तीर्थङ्कराः श्रीमदृषभदेवप्रमुखास्तै रुदितानि त्रिपद्योपदिष्टानि पारगतोदितानि । "अर्हन् जिनः पारगतस्त्रिकालवित् क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः । शम्भुः स्वयम्भूर्भगवान् जगत्प्रभुस्तीर्थंकरः १।२४॥ इत्यभिधानचिन्तामणिः । तानि - प्रसिद्धानि । सद्दर्शनाविकलंचिच्चरणानि - दर्शनानि चाऽविकलचितः पूर्णज्ञानानि च चरणानि चरित्राणि च दर्शनाविकलचिच्चरणानि, सन्ति समीचीनानि च तानि दर्शनाविकलचिच्चरणानि सद्दर्शनाविकलचिच्चरणानि । "सम्यग्-दर्शन-ज्ञानचारित्राणि मोक्षमार्गः" इति तत्त्वार्थसूत्रम् । “चरित्रं चरिता-चारौ चारित्रचरणे अपि" ।३।५०७।। इत्यभिधानचिन्तामणिः । अयम् - एषः । एव - अवधारणार्थकमव्ययम् । मार्गः - पन्थाः, ४४
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy