SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पद्धतिरिति यावत् । “पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्तनी। अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सतिः" ४।४९।। इत्यभिधानचिन्तामणिः । ननु - निश्चयेन । मुनीन्द्र - योगिनाथ ! सूरिचक्रचक्रवर्तिन् ! भवता - तत्रभवता श्रीमता त्वया । अपि - खलु । भवस्य संसारस्य जन्ममरणपरम्पराया वा मन्था विलोडकः विध्वंसक इति यावत् । अन्यः - सम्यग्ज्ञानदर्शनचारित्रातिरिक्तः । शिवपदस्य - शिवस्य मोक्षस्य शिवं सुखकरं वा पदमास्पदं स्थानमिति यावत् शिवपदम् तस्य तथा। "पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः । पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः ॥ श्लोकपादेऽपि च क्लीबं पुल्लिङ्गः किरणे पुनः" इति मेदिनी। पन्थाः - मार्गः । न - नहि । (इति) उद्घोषितम् - प्रकाशितम् । ज्ञानदर्शनचारित्राणि विना कथमपि केनाऽपि भविकेनाऽपि मोक्षपदं न प्राप्तुं शक्यते इति यत्र तत्राऽनेकशः श्रीमद्भिर्व्याख्यानावसरे श्रावकाः सम्बोध्य भुजोत्क्षेपं प्रतिबोधिता इति भवन्त एव नितान्तमेतेषां मोक्षमार्गोपदेशकत्वेन हितैषिणो नाऽन्ये तादृशाः केचन बभूवतुरिति तात्पर्य्यार्थः । यद्यपि प्रकृतिपुरुषविवेकज्ञानान्मोक्षः ब्रह्म-साक्षात्कारान्मोक्षः, इत्यादि तैस्तैरपरैर्मोक्षमार्गः प्रदर्शितस्तथाऽपि सर्वज्ञ-दर्शनानुसारं तेषां पूर्वपक्षाः क्षपिता भवद्भिरिति न दोषशङ्कालेशकलङ्कणिकाऽपीति सुधीभिरपरोक्षम् ॥२३।। व्याख्यानभूरतिविशालतरा यदीयं __स्यात् श्रोतुमात्महितकृद् वचनं त्वदीयम्। . कीर्णाऽऽगतैः समजनैस्तदिहोल्लसन्तो। ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ ___ अन्वयः ज्ञानस्वरूपम्, अमलम्, आत्महितकृत्, त्वदीयम्, वचनम्, श्रोतुम्, आगतै, समजनैः, कीर्णा, इयम्, व्याख्यानभूः, यदि, अतिविशालतरा, स्यात्, तत्, इह, उल्लसन्तः, सन्तः, प्रवदन्ति ॥२४॥ वृत्तिः ज्ञानस्वरूपम् - ज्ञानं मोक्षोपयोगि बोधः स्वरूपं स्वभावो यस्य तत्तथा । अमलम् - निर्मलम्, पदपदांशवाक्यार्थरसालपञ्चविधदोषविवर्जितं काव्यमयमिति यावत् । यद्यप्येतेषामुद्देश्यप्रतीतिविघातकानामुक्तानां पञ्चविधानामपि दोषाणां काव्यदोषतया काव्य एव हेयत्वेन तदीयवचने तेषां हेयत्वाभावेन तादृशदोषराहित्यं न प्रयोजकमिति प्रतिभाति तथापि सत्प्रतिभावतां महाकवीनां सूरीश्वराणां वचनस्य गद्यपद्यान्यतरकाव्यात्मत्वेन तत्राऽपि तादृशदोषाणां शान्तरसापकर्षकतया हेयत्वमिति । आत्महितकृत् - आत्मोपकारपरायणम् । त्वदीयम् - भवत्सम्बन्धि । वचनम् - उपदेशात्मकवचः । “व्याहार उक्तिर्लपितं भाषितं वचनं वचः" इत्यमरकोशः । श्रोतुम् - सादरमाकर्णितुम् । आगतैः - समायातैः । समजनैः - समताशोभितलोकैः, अथवा समशब्दस्य सर्वप-यत्वेन समे सर्वे च ते जना लोकाः समजनास्तैस्तथा । "सर्वं समग्रमन्यूनं समग्रं सकलं समम्" ६६९।। इत्यभिधानचिन्तामणिः । कीर्णा - व्याप्ता । इयम् - प्रत्यक्षदृश्या । व्याख्यानभूः - व्याख्यानस्थानम्, व्याख्यानशालायां तात्पर्य्यम्, तस्या अपि व्याख्यानस्थानत्वानपायात्, भूशब्दस्य पृथिवीवाचकत्वेन स्थानवाचकत्वं नास्तीति न भ्रमितव्यम्, भूः ४५
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy