SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तया । और स्थानमात्रे कथिता धरण्यामपि योषिति" इति मेदिनीकोषात् स्थानवाचकत्वानपायादिति । यदि - चेत् । अतिविशालतरा - अत्यन्तमहत्तरा । स्यात - भवेत । तत - तथा । इह - अस्मिल्लोके । सन्तः - सज्जनाः । प्रवदन्ति - निगदन्ति । कदाचित् कञ्चिद् ग्रामं विहृत्य प्राप्ते सूरीश्वरे तदीयं व्याख्यानममृतायमानमाणितुमागतैर्लोकैर्विशालायामपि व्याख्यानशालायामामूलचूल परिपूर्णायां सत्यां पश्चादागतानां जनानां प्रवेशकाठिन्यं विचिन्त्य तत्रत्यैः प्रधानजैनैः सभायामेव प्रस्तावोऽयं स्थापितो यत् यदीयं व्याख्यानशाला ऽतिविशालतरा स्यात्तदा समेषामागतानां जनानां व्याख्यानश्रवणाद् भवेन्मनोऽभिलाषपूर्तिरिति सूचितमनेन शब्दसन्दर्भेणेति ॥२४॥ दुर्गत्यभावकरणान्नरकान्तकोऽसि को मोदकारकतया तु कुमोदकोऽसि दुर्दान्तकामदमनान्नु बलिन्दमोऽसि व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ __ अन्वयः भगवन् ! त्वम्, एव, दुर्गत्यभावकरणात्, नरकान्तकः, असि, तु, कौ, मोदकारकतया, कुमोदकः, असि, नु, दुर्दान्तकामदमनात्, बलिन्दमः, असि, (अत एव) व्यक्तम्, (त्वमेव) पुरुषोत्तमः, असि ॥२५।। वृत्तिः भगवन् - श्रीवीर्येच्छाज्ञानवैराग्यकीर्तिमाहात्मैश्वर्ययत्नधर्ममोक्षशालिन् सूरीश्वर ! "भगं श्रीयोनिवीयेच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्यैश्वर्य्ययत्नेषु धर्मे मोक्षे" इति मेदिनी । त्वम् - श्रीमान् तत्रभवान्, भवान् । एव अवधारणार्थमव्ययम् । इदमत्र तत्त्वम् - एवकारस्याऽर्थत्रयम् । यदुक्तम् - "अयोग मन्ययोगं च अत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य एवकारस्त्रिधा मतः" इति । अयमर्थः - यत्र विशेषणान्वित एवकारस्तत्र विशेष्ये विशेषणस्याऽसम्बन्धरूपमयोगं निषेधति, यथा सम एवाऽयमित्यत्र समस्य विशेषणत्वेन तदन्वितेनैवकारेणेदमर्थे विशेष्ये समत्वायोगं व्यवच्छिन्दन् अस्य समत्वं नियमयति, यत्र पुनर्विशेष्यगत एवकारस्तत्र विशेष्येतरस्मिन् विशेषणीभूतधर्मसम्बन्धं वारयति यथा अयमेव सम इत्यत्रैतद्भिने समत्वसम्बन्धं वारयन् अस्मिन् समत्वं नियमयति । उभयरूपैवेयं सम्यक् प्रतीतिरवधारणतया। यत्र तु क्रियान्वित एवकारस्तत्राऽत्यन्तः सर्वदा योऽयोगः सम्बन्धाभावस्तस्य निषेधकः, तत्क्रियाश्रये कुत्रचिदपि सम्बन्धबोधक इति तु फलितोऽर्थः, यथा "नीलं कमलं भवत्येव" इति, अत्र हि न सकले कमले नीलत्वं नियम्यते नाऽप्यकमलेऽनीलत्वम्, अपि तु यस्मिन् कस्मिन्नपि कमले नीलत्वसम्बन्ध इति । दुर्गत्यभावकरणात् - नरकाभावसम्पादनात् । नरकान्तकः - नरकस्य निरयस्य अन्तको विनाशकस्तथा, अत एव नरकान्तकत्वात् पुरुषोत्तमरूप इति भावः, "विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टर श्रवाः । पुराणपुरुषो यज्ञपुरुषो नरकान्तकः" इत्यमरकोशः । असि - भवसि । कौ - पृथिव्याम् । “गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही"त्यमरः । मोदकारकतया - सम्मदावहतया । कुमोदकः । असि । नु - वितर्के। दुर्दान्तकामदमनात् - दुर्दान्तो दुर्दमनीयो यः कामः कन्दर्पस्तस्य दमनं दण्डो दुर्दान्तकामदमनन्तस्मात्तथा । ४६
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy