________________
बलिन्दमः । असि - भवसि । (अत एव) व्यक्तम् - प्रकटम् । (त्वमेव) पुरुषोत्तमः - पुरुषश्रेष्ठः, विष्णुरूप इति भावः । अत्रोल्लेखालङ्कारः । “एकस्य वस्तुनो निमित्तवशाद्यदनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणं तदुल्लेखः" इति रसगङ्गाधरे पण्डितराजो जगन्नाथः । अत्र लक्षणे "अधरं बिम्बमाज्ञाय मुखमब्जं च तन्वि ! ते । कीराश्च चञ्चरीकाश्च विन्दन्ति परमां मुदम्" इति पद्ये कीरचञ्चरीकाभ्यामधरवदनयोबिम्बत्वेन पद्मत्वेन च ग्रहणे भ्रान्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति, "धर्मस्याऽऽत्मा भागधेयं क्षमायाः" इत्यादिमालारूपकेऽतिप्रसङ्गवारणायाऽनेकैर्ग्रहीतृभिरित्यविवक्षितबहुत्वकं ग्रहणविशेषणम् इति ॥२५।।
अद्याऽपि तत्स्मृतिपथं न जहाति सूक्तं
भक्त्या त्वया जिनवरं प्रणिपत्य सूक्तम् । तुभ्यं नमस्त्रिजगतः परितोषणाय
तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥ अन्वयः त्वया, जिनवरम्, प्रणिपत्य, सूक्तम्, तत्, सूक्तम्, अद्यापि, स्मृतिपथम्, न, जहाति, "जिन !, त्रिजगतः, परितोषणाय, तुभ्यम्, नमः, भवोदधिशोषणाय, तुभ्यम्, नमः" ॥२६।।
· वृत्तिः त्वया - ज्ञानदर्शनचारित्रात्मरत्नत्रितयाराधकेन निजजननपवित्रीकृतधरित्रीतलेन रक्षितवसुधातलेन श्रीमता तत्रभवता भवता । जिनवरम् - जिनेश्वरं देवाधिदेवम् । प्रणिपत्य - प्रणम्य । सूक्तम् - सु - सुष्ठ उक्तं गदितं तथा । तत् - अनुभूतपूर्वम् । सूक्तम् - स्तुतिपद्यम् । अद्याऽपि - अधुना खलु यावदिदानीमिति यावत्, अव्ययानामनेकार्थत्वात् । स्मृतिपथम् - स्मरणसरणिम् । स्मृतेः पन्था इति विग्रहे षष्ठीतत्पुरुषसमासोत्तरम् "ऋक्-पू-पथ्यपोऽत् ६।३।७६" इत्यनेन समासान्तोऽत्प्रत्ययः अथवा "बाटः पथश्च मार्गश्चे" ति त्रिकाण्डशेषकोशेऽकारान्तपथशब्दोपलब्धेः स्मृतेः पथः स्मृतिपथस्तं तथेत्यवसेयम् । न - नहि । जहाति - त्यजति । कीदृशं किस्वरूपं वा सूक्तमित्याकाङ्क्षाभ्यामुत्तरार्द्धमाह - "तुभ्यं नमस्त्रिजगतः" इत्यादिना, जिन - विजितरागद्वेषादिदेवाधिदेव ! त्रिजगतः - त्रयाणां जगतां लोकानां समाहारस्त्रिजगत् तस्य तथा, स्वर्गमर्त्यपातालात्मभुवनत्रितयस्येत्यर्थः । परितोषणाय - परि सर्वतोभावेन तोषणं सन्तोषप्रदानम्, परितोषणन्तस्मै तथा । तुभ्यम् - श्रीमते तत्रभवते भवते । नमः - नमस्कारः, नमोवाद इति यावत् । “नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च" इत्यनेन नमःशब्दयोगे चतुर्थी द्रष्टव्या । स्वावधिकोत्कृष्टत्व प्रकारकज्ञानानुकूलव्यापारो नम्धात्वर्थोऽवसेयः । भवोदधिशोषणाय - भवः संसारो - जन्मपरम्परा वोदधिः - समुद्रो भवोदधिस्तस्य शोषणं विनाशनं भवोदधिशोषणन्तस्मै तथा । तुभ्यं - श्रीमते चारित्रचूडामणये सूरिचक्रचक्रवर्तिने भवते । नमः - नमोवादः । अस्त्विति शेषः । अत्र स्मरणार्थप्रतीते: स्मरणालङ्कार इति न भ्रमितव्यम् - "सादृश्यज्ञानोबुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः" इति रसगङ्गाधरोल्लिखिततदलङ्कारलक्षणतः स्मरणस्य सादृश्यमूलकत्वे निदर्शनादिवदलङ्कारत्वम्, तस्याऽभावे व्यङ्ग्यतायाऽभावः, तयोरभावे वस्तुमात्रमिति द्रष्टव्यम् ॥२६॥
४७