SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ दीक्षाङ्गनां विरतितः परिणीय प्रीत्या . तामेव चारु रमयस्यनिशं सुरीत्या । रागङ्गतरस्तरललोचनयेक्षितोऽपि । स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ . अन्वयः विरतितः, दीक्षाङ्गनाम्, परिणीय, प्रीत्या, सुरीत्या, ताम्, एव, चारु, अनिशम्, रमयसि, तरललोचनया, ईक्षितः, अपि, रागङ्गतः, स्वप्नान्तरे, अपि, कदाचित्, अपि, न, ईक्षितः, असि ॥२७॥ वृत्तिः विरतितः - विशिष्टा रती रागोऽध्यात्मप्रेमानुबन्धो विरतिस्तस्यास्तथा । "रतिः स्त्रीस्मरदारेषु रागे सुरतगुह्ययोः" इति मेदिनी । दीक्षाङ्गनाम् - दीक्षा भागवती दीक्षैवाऽङ्गना विशिष्टरमणी, प्रशस्तान्यङ्गानि शरीरावयवा अस्या इति दीक्षाङ्गना तान्तथा । तथाहि विशिष्टरमणीनिरूपणेऽमरः “विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना । प्रमदा मानिनी कान्ता ललना च नितम्बिनी । सुन्दरी रमणी रामा कोपना सैव भामिनी । वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी" इति । परिणीय - उद्वाह्य । प्रीत्या - प्रेम्णा । सुरीत्या - सुष्ठ शोभना चाऽसौ रीतिः परिपालनप्रकारो नीतिरिति यावत् सुरीतिस्तया तथा । ताम् -- बुद्धिविषयी भूतत्वेन प्रसिद्धां दीक्षाङ्गनाम् । एव - अवधारणे । न त्वन्यां लौकिकीं काञ्चनेति फलिम् । चारु - रमणीयं यथा स्यात्तथा । अनिशम् - सततम् । रमयसि - क्रीडयसि । तरललोचनया - तरले चञ्चले लोचने नेत्रे यस्याः सा चारुलोचना मगशावकनेत्रेति यावत् तान्तथा । "अथ चञ्चलम् । तरलं कम्पनं कम्प्रं परिप्लवचलाचले । चटुलं चपलं लोलं चलं पारिप्लवास्थिरे" ६।९१।। इत्यभिधानचिन्तामणिः । ईक्षितः - सकटाक्षमवलोकितः । अपि - सम्भावनायाम् । स्वप्नान्तरे - स्वप्नस्य स्वापस्याऽन्तरं मध्यं स्वप्नान्तर-स्तस्मिंस्तथा । अपि - खलु । रागङ्गतः - अनुरागं प्राप्त: । “रागोऽनुरागे क्लेशादौ मात्सर्ये लोहितादिषु" इति शाश्वतः । कदाचित् - जातुचित् । अपि - खलु । न - नहि । ईक्षितः - दृष्टः । असि - भवसि । वामलोचनासु श्रीमन्तं भवन्तमवलोक्यैव रागमधिगतासु सकटाक्षं विलोकमानासु सतीष्वपि श्रीमन्तः कमलपत्र-वनिर्लिप्त एवाऽभवन्निति भावः । अत्र दीक्षायामङ्गनात्वारोपाद्रूपकमलङ्कारः । तच्च कविगतसूरीश्वरविषय-करत्याख्यभावस्य प्रधानतया ध्वनित्वास्पदस्य पोषकतयाऽलङ्कारत्वभाजनमपृथग्यत्ननिर्वर्त्यत्वात् । तस्मिश्च सूरीश्वरगतदीक्षाङ्गनाविषयकरतेरङ्गतया प्रायोऽलङ्कारताऽवसेया, तथा चोक्तं ध्वन्यालोके श्रीमदानन्द-वर्धनाचाय्र्यैः "प्रधानेऽन्यतमवाक्यार्थे यत्राऽङ्गन्तु रसादयः । काव्ये तस्मिन्नालङ्कारो रसादिरिति मे मतिः" इति । तथा चोक्तं कुवलयानन्देऽप्पय्यदीक्षितैः - "रसभावतदाभासभावशान्तिनिबन्धनाः । चत्वारो रसवत्प्रेय ऊर्जस्वि च समाहितम् ॥ भावस्य चोदयः सन्धिः शबलत्वमिति त्रयः ।" इति ॥२७॥ ४८
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy