________________
गन्धमालाद्यैः सर्वस्य कटुरेव सः" इत्यभियुक्तोक्त्याऽपरिवर्तनीयस्वभावतां नयतीति भावः । अथवा दर्शनपदेनोक्तकोशबलादेव शास्त्रं ग्राह्यन्तथा चाऽनेकान्तवादबलतोऽपि केवलं न स्थितं नयेदपि च माधुर्य्यादिकमित्याद्युन्नेयम् । नु - वितर्के । जगत् - लोकम् । विद्योतयत् - ज्ञानेन प्रकाशयत् । अपूर्वशशाङ्कबिम्बम् - नूतनचन्द्रमण्डलम् । अस्तीति शेषः । अत्राऽपि व्यतिरेकालङ्कारः । अपूर्वशशाङ्क अन्यधर्मसम्बन्धनिमित्तेनाऽन्यस्याऽन्यसम्भावनमिति बिम्बमिति सम्भावनादुत्प्रेक्षाप्यस्ति । उत्प्रेक्षा च कुवलयानन्दकारोऽप्पय्यदीक्षितः । रसगङ्गाधरकारः पण्डितराजो जगन्नाथस्तु " तद्भिन्नत्वेन तद्भावकत्वेन वा प्रमितस्य पदार्थस्य रमणीयतद्वृत्ति - तत्समानाधिकरणतद्धर्मसम्बन्धनिमित्तकं तत्त्वेन तद्वत्त्वेन वा सम्भावनात्मानमुत्प्रेक्षां निरूपितवान् ॥१८॥
-
सम्यक्त्वबीजवपनात्परमात्मभूते
क्षेत्रे वचोऽमृतप्रवर्षणतः प्रसूते । धान्यं शिवं सलिलदोऽयमसारकम्रैः
कार्य्यं कियज्जलधरैर्जलभारनम्रैः ॥१९॥
अन्वयः अयम् सलिलदः, सम्यक्त्वबीजवपनात्, परम्, आत्मभूते, क्षेत्रे, वचोऽमृतप्रवर्षणतः, धान्यम्, शिवम्, प्रसूते, असारकम्रैः, जलभारनम्रैः, जलधरैः कार्य्यम्, कियत् ? ॥१९॥
वृत्तिः अयम् - एषः, बुद्धिविषयः सूरिचक्रंचक्रवर्ती । सलिलदः - जलदः, मेघरूप इति यावत् । आत्मभूते - आत्मरूपे । क्षेत्रे - केदारे । “ क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः" इति मेदिनी । सम्यक्त्वबीजवपनात् - सम्यक्त्वं परमार्हतदर्शनानुसारित्वमेव बीजं कारणभूतशाल्यादिसम्यक्त्वबीजं तस्य वपनं - वापः सम्यक्त्वबीजवपनम् तस्मात्तथा । " हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्" इत्यमरः । परम् - अनन्तरम् । “परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले" इति मेदिनी । वचोऽमृतप्रवर्षणतः वचो देशनाद्यात्मकं वचनमेवाऽमृतं पीयूषं वचोऽमृतम्, तस्य प्रवर्षणमासेचनं वचोऽमृतप्रवर्षणन्तस्मात्तथा । पीयूषममृतं सुधा इत्यमरः । शिवम् - मोक्षम् । “शिवो मोक्षे महादेवे कीलकग्रहयोगयोः । बालुके गुग्गुलो वेदे पुण्डरीकद्रुमे पुमान् । सुखक्षेमजले क्लीबम्" इति मेदिनी । मोक्षरूपमिति यावत् । धान्यम् सस्यम् । प्रसूते - जनयति । श्रीमान् महामहिमशाली सूरिचक्रचक्रवर्ती मेघः कस्मिश्चिद्भव्यात्मनि पूर्वं सम्यक्त्वं गाढं निदधाति पश्चात् उपदेशामृतवर्षणद्वारेण मोक्षं प्रापयतीति भावः । असारकम्रैः असारास्तुच्छाश्च ते कम्राः कमनीया असारक्रमास्तैस्तथा । जलभारनम्रैः - जलभारेण सलिलवहनभारेण नम्रा नता जलभारनम्रास्तैस्तथा । जलधरैः - मेघैः । कार्य्यम्-प्रयोजनम् । कियत् - किंपरिमाणम् ? किमपि तैः प्रयोजनं नास्तीति भावः । अत्र श्रीमत्सूरीश्वरधर्मिकजलधरतादात्म्यारोपं प्रधानं प्रति सम्यक्त्वा दौ बीजादेरारोपस्याऽङ्गतया सर्वेषामारोप्यमाणानां वस्तूनां शब्दोपात्तत्वेन च "सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकाऽसि नाऽत्र सन्देहः" इत्यादाविव समस्त
-
४१