SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षिसन्धौ ज्योत्स्ना पेया चकोरैर्जलधर-समये मानसं यान्ति हंसाः ।। पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैयूनामङ्गेषु हाराः स्फुटति च हृदयं विप्रयोगस्य तापैः । मौर्वी रोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतोभिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ।। अहन्यम्भोजं निशायां विकसति कुमुदं चन्द्रिकाशुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिना नाऽप्यशोके फलानि । न स्याज्जाती वसन्ते न च कुसुमफले गन्धसारद्रुमाणामित्याधुन्नेयमन्यत् कविसमयगतं सत्कवीनां प्रबन्धे ॥ इति । मुनीन्द्र - योगीश । लोके - जगति । सूर्योतिशायि - दिवाकराधिकानुभावः । असि - भवसि । "व्यतिरेकालङ्कारः । “व्यतिरेको विशेषश्चेदुपमानोपमेययोः" इति चन्द्रालोकीय-तल्लक्षणस्मरणात् ॥१७॥ ज्योत्स्ना समग्रभुवनेऽस्ति यशःस्वरूपा त्वत्संस्थितिर्न च कदाऽपि बुधारिरूपा । त्वदर्शनं मधुरयेत् कटुकं नु निम्बं विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ अन्वयः समग्रभुवने, (ते) यशःस्वरूपा, ज्योत्स्ना, अस्ति, त्वत्संस्थितिः, कदाऽपि, बुधारिरूपा, न, त्वद्दर्शनम्, निम्बम्, कटुकम्, मधुरयत्, नु, जगत् विद्योतयत्, अपूर्वशशाङ्कबिम्बम्, (अस्ति) ||१८|| वृत्तिः समग्रभुवने - समग्रं समस्तं च भुवनं जगत् समग्रभुवनं तस्मिंस्तथा । "सर्वं समस्तम् न्यून समग्रं सकलं समम् । विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले" ६६९।। इत्यभिधानचिन्तामणिः । (ते - श्रीमतो भवतः), यश:स्वरूपा - यशः कीर्तिः स्वरूपमाकारो यस्याः सा तथा । ज्योत्स्ना - कौमुदी । "चन्द्रिका कौमुदी ज्योत्स्ना" इत्यमरः । अस्ति - वर्तते । चन्द्रस्य चन्द्रिका तावन्न समग्रजगति न वा सर्वदा. अमावास्यादौ सर्वथा लोपदर्शनात भवतां त यशश्चन्द्रिका सर्वभवनव्यापिका सर्वकालावच्छेदेन वरीवर्तमाना चाऽस्तीति भावः । त्वत्संस्थितिः - तव भवतः संस्थितिः स्वस्थानं मर्यादा वा तथा । "स्थितिः स्त्रियामवस्थाने मर्यादायां च योषिति" इति मेदिनी । कदाऽपि - कस्मिन्नपि कालेऽपि । बुधारिरूपा - बुध-शात्रवलक्षणा । न - नहि । चन्द्रस्थितिबुंधात्मग्रहविरोधिनी भवतस्तु विदुषामानुकूल्या पादिकेति भावः । त्वदर्शनम् - श्रीमद्भवत्साक्षात्कारः भवदीयं ज्ञानं वा । "दर्शनं नयनस्वप्नबुद्धि धर्मोपलब्धिषु । शास्त्र-दर्पणयोः" इति मेदिनी । कटुकम् - कटुत्वदोषकवलितम् । निम्बम् - सर्वतोभद्रफलम् । मधुरयेत् - मधुरतारसपरिपूर्णं करोति । "यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं ४०
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy