SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रतिषिध्यमानत्वात्, अतिशयोक्तिनिदर्शनयोश्च साध्यावसानलक्षणामूलकत्वात्, उपमेयतावच्छेदकस्य नास्ति पुरस्कारः । शब्दादिति विशेषणात् "मुखमिदं चन्द्रः" इति प्रात्यक्षिकाहार्यनिश्चयगोचरचन्द्रतादात्म्यव्यवच्छेदः । निश्चीयमानमिति विशेषणात् संभावनात्मनो "नूनं मुखं चन्द्रः" इत्युत्प्रेक्षाया व्यावृत्तिः । उपमानोपमेयविशेषणाभ्यां सादृश्यलाभात् "सुखं मनोरमा रामा" इत्यादिशुद्धारोपविषय तादात्म्याध्यासः, सादृश्यमूलकमेव च रूपकमामनन्ति । इदं च रूपकं सावयवं निरवयवं परम्परितञ्चेति तावत्रिविधम्, तत्राऽऽद्यं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम्, द्वितीयमपि केवलं मालारूपकञ्चेति द्विविधम् । तृतीयञ्च श्लिष्टपरम्परितं शुद्धपरम्परितञ्चेति द्विविधं सत् प्रत्येकं केवलमाला रूपत्वाभ्यां चतुर्विधम् । प्रकृतपद्ये समस्तवस्तुविषयसावयवरूपकमवसेयम्, परस्पर-सापेक्षनिष्पत्तिकाणां रूपकाणां संघातः सावयवम्, तत्राऽपि - समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत् समस्तवस्तुविषयमवगनव्यमिति शम् ॥१६॥ सूर्य्यः खरैः करभरैर्भुवनं निहन्ति न त्वां तथा बुधजना उपमां नयन्ति । प्रीतिं दधासि सततं ननु भव्यकोके सूर्योतिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ अन्वयः सूर्यः, खरैः, करभरैः, भुवनम्, निहन्ति, बुधजनाः, त्वाम्, तथा, उपमाम्, न, नयन्ति, ननु, सततम्, भव्यकोके, प्रीतिम्, दधासि, मुनीन्द्र ! लोके, सूर्योतिशायिमहिमा, असि ॥१७॥ __वृत्तिः सूर्य्यः - सरति सुवति वा कर्मसु लोकानिति सूर्यः "कुप्यभिद्य०" ५।१।३९॥ इत्यादिना कृन्निपातः, सूर एव वा सूर्यो मूर्तादित्वाद्यः । दिवाकर इत्यर्थः । खरैः - तीक्ष्णैः । “तिग्मं तीक्ष्णं खरं तद्ववत्" इत्यमरकोशः । करभरैः - किरणातिशयैः । “बलिहस्तांशवः कराः" इत्यमरनानार्थः । “अप्य थाऽतिशयो भरः" इत्यमरः । भुवनम् - जगत् । “स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्" ६।१।। इत्यभिधानचिन्तामणिः । निहन्ति - प्रणिहन्ति । बुधजनाः - मनीषिलोकाः । त्वाम् - श्रीमन्तं मृदुल स्वभावं तत्रभवन्तं भवन्तं सूरीश्वरम् । तथा - तेन प्रकारेण । उपमाम् - सादृश्यम् । सूर्यस्येत्यर्थतः । न - नहि । नयन्ति - प्रापयन्ति । खरतरकरकरणकभुवनतापकत्वेन सूर्य्यसादृश्यं न तत्रभवति भवति बुधाः स्वीकुर्वन्ति, मृदुस्वभावत्वाद्भवत इति भावः । ननु - निश्चयेन । सततम् - सन्ततम् । भव्यकोके - भव्यो भविक एव कोकश्चक्रवाको भव्यकोकस्तस्मिंस्तथा । प्रीतिम् - हर्षम् । "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः" इत्यमरः । दधासि - धारयसि । कोकप्रीतिसम्पादकत्वेन सूर्य्यसादृश्यमभ्युपगच्छन्ति बुधा भवन्तीति भावः । सूर्यस्य कोक-प्रसादकारकत्वं कविसमयप्रसिद्धम् ! कविसमयश्चेत्थम् - मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यते हासकीर्यो रक्तौ च क्रोधरागौ सरिदुदधिगतं पङ्कजेन्दीवरादि । ३९
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy