________________
- निजप्रभुत्वतः । “वशाऽवन्ध्यासुतायोषास्त्रीगवीकरिणीषु च । त्रिष्वायत्ते क्लीबमायत्तत्वे चेच्छाप्रभुत्वयोः" इति मेदिनी । विहितम् - कृतम् । प्रशान्तम् - अत्यन्त-निर्वृतम् । स्वान्तम् - हृदयम् । “चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः" इत्यमरः । विषये - रूपरसगन्धस्पर्शात्मनि । "रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी" इत्यमरः । स्रक्चन्दनवनितादिष्विति यावत् । न - नहि । धृतम् - स्थापितम् । नु - वितर्के। “नु वितर्कापमानयोः" इति मेदिनी । (भवतः) काचित् - अनिर्वचनीया । दृढता - आत्मिकबल शालिता । "दृढः स्थूलबलयोः" इति भगवान् पाणिनिः । शब्दादितः - शब्दप्रमुखविषयात् । अपि - खलु । अचलिता - चलिता नास्तीत्यर्थः । दृष्टान्तेन समर्थयति - किं मन्दराद्रित्यादिना - मन्दराद्रि शिखरम् - मन्दराचलशृङ्गम् । कदाचित् - जातुचित् । चलितम् - प्रचलितं कम्पितमिति यावत् । किम् ? अपि तु नैवेत्यर्थः । दृष्टान्तालङ्कारः । “दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्" इति काव्यप्रकाशे तल्लक्षणस्मरणात् ।
सद्बुद्धिवर्तिरभितो हृदयान्तराल
गाढान्धकारहरणप्रवणोऽकरालः । स्नेहेन शास्त्ररुचिना रुचिरं चकास
द्दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ अन्वयः नाथ !, सद्बुद्धिवर्तिः, अभितः, हृदयान्तराल गाढान्धकारहरणप्रवणः, अकरालः, शास्त्ररुचिना, स्नेहेन, रुचिरम्, चकासत्, जगत्प्रकाशः, अपरः, दीपः, असि ॥१६॥
वृत्तिः नाथ ! -नाथतीष्टे इति नाथ ईशिता तदामन्त्रणे तथा । “यतीन्द्र-स्वामीनाथार्थाः प्रभुर्भतेश्वरो विभुः । ईशितेनो नायकाच" ३।२२।। इत्यभिधानचिन्तामणिः । सद्बुद्धिवर्तिः - सद्बुद्धिः समीचीनप्रज्ञैव वतिर्दशा यस्य स तथा । अभितः - समन्तात् । हृदयान्तरालगाढान्धकारहरणप्रवणः - हृदयस्य मनसोऽन्तरालमभ्यन्तरं हृदयान्तरालन्तत्र गाढोऽतिशयितोऽन्धकारोऽज्ञानतमस्तस्य हरणे विनाशने प्रवणस्त त्परस्तथा । अकरालः - अभयानकः । शास्त्ररुचिना - शास्त्रेषु व्याकरणन्यायार्हतागमेषु रुचिर्ज्ञानाभिलाष: शास्त्ररुचिस्तया तथा । स्नेहेन - तैलेन । शास्त्रज्ञानाभिलाषात्मतैलेनेति व्यस्तरूपकार्थः । रुचिरम् - मनोहरम् । चकासत् - द्योतमानम् । चकासृ दीप्तौ इत्यस्माद्धातोः शतृप्रत्यये "नाऽभ्यस्नाच्छतुः" इति निषेधात् "उगिदचां सर्वनामस्थानेऽधातोः" इत्यनेन नुमागमो न भवतीति वेदनीयम् । जगत्प्रकाशः - जगतां स्वर्ग-मर्त्य-पातालात्मभुवनानां प्रकाशो यस्मात् स तथा । अपरः - अन्यः, प्रसिद्धविलक्षण इति यावत् । दीपः - प्रदीपः । असि - भवसि ।
अत्र रूपकालङ्कारः । रूपकम् - उपमेयतावच्छेदक-पुरस्कारेणोपमेये शब्दान्निश्चीयमानमुपमानतादात्म्यं रूपकम्, तदेवोपस्कारकत्वविशिष्टमलङ्कारः । उपमेयतावच्छेदकपुरस्कारेणेति विशेषणात् अपहनुतिभ्रान्तिमदतिशयोक्तिनिदर्शनायां निरासः, अपहनुतौ स्वेच्छया निषिध्यमानत्वात् भ्रान्तिमति च तज्जनकदोषेणैव
३८