SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अन्वयः त्वया, सदैव, सत्तर्कलक्षणजिनागमकाव्यदैवविद्याः, अवगमिताः, अथ, शिष्याः, समस्त विषयेषु, इष्टम्, चरन्ति, यथेष्टम्, सञ्चरतः, तान्, कः, निवारयति ॥१४॥ वृत्ति: त्वया तत्रभवता श्रीमता सूरीश्वरेण भवता । सदैव सर्वदा खलु । मुनयः साधवः, गृहीतभागवतदीक्षा अनगारा इति यावत् । सत्तर्कलक्षणजिनागमकाव्यदैवविद्या: - द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इति नियमात् सत्पदस्य विद्यापदस्य सर्वत्र सम्बन्धात् समीचीनतर्कविद्यालक्षणविद्याऽऽर्हतागमविद्या - काव्यविद्या - ज्योतिर्विद्या इत्यर्थः । अवगमिताः - बोधिताः, अध्यापिता इति यावत् । तत्र तर्कविद्यया तर्कमूलानि चार्वाक -सौगत- सांख्य- न्याय-वैशेषिक- पूर्वोत्तरमीमांसार्हतदर्शनानि गृह्यन्ते, लक्षणविद्यया हस्त्यश्वपुरुष - स्त्रीगुरुशिष्यादिलक्षणानि गृह्यन्ते, जिनागमविद्यया चाऽन्तरङ्ग-बहिर ङ्गतया कल्पसूत्रोत्तराध्ययन-स्थानाङ्गप्रमुखद्वादशाङ्गीविद्या ग्राह्याः, काव्यविद्यया च काव्यानुशासनच्छन्दोनुशासनादीनि द्वयाश्रय-त्रिषष्टिप्रमुखमहाकाव्यादीनि ग्राह्यानि । ननु प्रोक्तासु विद्यासु व्याकरणस्याऽनुक्तेः “मुखं व्याकरणं स्मृतम्” इत्यभियुक्तोक्त्या प्रमुखविद्याया अनवगमनान्यूनतेति नाऽऽशङ्कनीयम्, जिनागम 'विद्यया व्याकरणस्याऽपि ग्रहणसंभवात्, कल्पसूत्रादौ जिनेन्द्रव्याकरणस्येन्द्रसन्निधौ भगवच्चरमतीर्थंकरवर्धमान-महावीरार्थमुपदिष्टत्वाच्च, अत एवाऽष्टविधव्याकरणेषु जैनेन्द्रव्याकरणमद्याऽपि लोके समुपलभ्यमानं दरीदृश्यत एवेति सुधीभिर्विचार्यम् । अथ - अनन्तरम् । शिष्याः- श्रीदर्शनसूरीश्वरप्रमुखा अन्तेवासिनः। समस्तविषयेषु - समस्ताः सर्वे च विषया अर्थाः देशाश्च समस्तविषयास्तेषु तथा । "विषयो गोचरे देशे तथा जनपदेऽपि च" इति मेदिनी । इष्टम् - अभिमतम् । चरन्ति - विचरन्ति । यथेष्टम् - कामम् । सञ्चरतः - सञ्चरणशीलान् । तान् - तदीयशिष्यान् । कः को नाम । निवारयति - प्रतिरोधयति । कोऽपि नेत्यर्थः ॥१४॥ - आजन्मनोऽपि विषये न धृतं प्रशान्तं स्वान्तं त्वया स्ववशतो विहितं नितान्तम् । शब्दादिनाऽप्यचलिता दृढता नु काचित् किं मन्दराद्रिशिखरं चलितं कदाचित् ॥१५॥ अन्वयः त्वया, आजन्मनः, अपि, नितान्तम्, स्ववशत:, विहितम्, प्रशान्तम्, स्वान्तम्, विषये, न, धृतम्, नु, शब्दादिना, अपि, अचलिता, काचित्, दृढता, मन्दराद्रिशिखरम्, कदाचित् चलितम्, किम् ? ॥१५॥ - वृत्तिः त्वया - महामहिमशालिना लोकविदितानुभावेन सूरिचक्रचक्रवर्तिना श्रीमता भवता । आजन्मनः जन्मन उत्पत्तेरा इति विग्रहे " आङ्मर्य्यादाभिविध्योः" इत्यनेनाऽव्ययीभावसमासविकल्पपक्षे रूपम्, सति च समासे “अव्ययीभावस्याऽव्ययसंज्ञायां सत्याम् अव्ययादाप्सुपः" इत्यनेन सुपो लुकि तथा रूपं न स्यादित्याकलनीयम् । “जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः" इत्यमरः । नितान्तम् - अतिशयम् । 'अथाऽतिशयो भरः | अतिवेलभृशात्यर्थाऽतिमात्रोद्गाढनिर्भरम् । तीव्रैकान्तनितान्तानि” इत्यमरः । स्ववशतः 44 ३७
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy