________________
हसन्तमपरं दृष्ट्वा विभावश्चोपजायते । योऽसौ हास्यरसस्तज्जैः परस्थः परिकीर्तितः ॥२॥ उत्तमानां मध्यमानां नीचानामप्यसौ भवेत् । व्यवस्थ: कथितस्तस्य षड्भेदाः सन्ति चाऽपरे ॥३॥ स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः । भवेद्विहसितं चोपहसितं मध्यमे नरे ॥४॥ नीचेऽपहसितं चाऽतिहसितं परकीर्तितम् । ईषत्फुल्लकपोलाभ्यां कटाक्षैरप्यनुल्बणैः ।।५।। अदृश्यदशनो हासो मधुरः स्मितमुच्यते । वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः ॥६॥ किञ्चिल्लक्षितदन्तश्च तदा हसितमिष्यते । सशब्दं मधुरं कायगतं वदनरागवत् ।।७।। आकुञ्चिताक्षिमन्द्रं च विदुर्विहसितं बुधाः । निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः ॥८॥ उत्फुल्लनासिको हासो नाम्नोपहसितं मतम् । अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः ॥९॥ शार्ङ्गदेवेन गदितो हासोऽपहसिताह्वयः । स्थूलकर्णकटुध्वानो बाष्पपूरप्लुतेक्षणः ॥ करोपगूढपार्श्वश्च हासोऽतिहसितं मतम् ॥ इति ॥१०॥
तत्र - भवदीयवदने । सदा - सर्वदा । एव - अवधारणार्थकमव्ययम् । स्वाभाविकम् - नैसर्गिकम् । हास्यम् - हासः । स्फुरति - विलसति । यत् - यस्मात् । तव - श्रीमतां भवतः । पुरः - अग्रे । पापात्मनाम् - पापिनाम् । सजल्पम् - जल्पसहितम्, जल्पोन्मुखमिति यावत् । वदनम् - आस्यम् । वासरे - दिवसे । पाण्डुपलाशकल्पम् - विपाण्डुरपलाशसदृशम् । भवति - जायते ॥ उपमालङ्कारः ॥१३।।
सत्तर्कलक्षणजिनागमकाव्यदैव
विद्यास्त्वयाऽवगमिता मुनयः सदैव । शिष्याः समस्तविषयेषु चरन्त्यथेष्टं
कस्तान्निवारयति सञ्चरतो यथेष्टम् ॥१४॥