SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ विदेशे स्वदेशे मरौ मेरुपृष्ठे, निकेते वनादौ सुरागारभागे । अहीनां निवासेऽपरे लोकलोके, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३७॥ विभातं प्रभातं प्रभाभासिताङ्गं, विशोकं विलोभं विमोहं विरागम् । विचारे प्रचारे सदाचारचारे, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३८॥ निदाघे जनानां पयोदाप्तितुल्यं, भयादौ सहायं सुरारामकल्पम् । भवव्याधिनाशेऽगदङ्कारसत्कं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥३९॥ सुशिष्टं सुमिष्टं महाक्लेशपिष्ट-मरिष्टादिकष्टापतल्लोकयष्टि । सुपुण्यप्रभावात् सुधादीर्घिकाभं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः ॥४०॥ भूयोऽपि भव्या वचनं मदीयं, सानन्दभावं शृणुतेति नम्रम् । यत्राऽस्ति वृद्धिः किल तत्र चन्द्रो, धन्यं ततः किं वदताऽत्र यूयम् ॥४१॥ काव्यं न तादृग् न च शास्त्रमाला, विद्वान्न तादृग् न च काव्यवेत्ता । प्राकाशि नो येन माहामहात्म्य-माकाशवेदी-स्थितशीतरश्मेः ॥४२॥ एवं धिया धीधनशस्तमानै-धंदावबोधे नयने पिधाय । इन्दोविमर्शो मनसा विधेयः, पश्चाद्रुचिस्तत्र सतां प्रमाणम् ॥४३॥ दृश्यो न धार्यः परमेष धार्य-स्तापी न, तापी बत तोषदायी । दूरे न चाऽऽरात् किल चैष चाऽऽरात्, क्षीणोऽस्ति नोऽयं तु सदा प्रकाशी ॥४४|| गामी सदाऽसौ परमेष कार्ये, ताराधिपस्त्वेष तु सर्वनाथः । निशाविकाशी न दिवाविकाशी ह्ययं दिवारात्रि-विकाशमानः ॥४५॥ राजा द्विजानां न जनौघराजः, स्वामी रसानां न तु सर्वभूतेः । ज्योत्स्ना चकोरैः सततं सुपेया, कान्तिः समस्तैः सुखमत्र पेया ॥४६|| धार्यः कथं सोऽत्र वियद्विहारी, धार्यः सुखेनैव धरा-विहारी । तुर्याष्टरन्ध्रेऽशुभपाकदायी, चेलानिवासी निखिलेष्टदाता ॥४७॥ पञ्चेषुबाणानलदेहदायी, तत्तापहारी हृदये विहारी । . मेघाविकीर्णो भवतीह जातु, कर्माभिघातादमुको विशुद्धः ॥४८॥ दोषैरनेकैर्ग्रहसंविभागे, व्याप्तः शशाङ्कोऽम्बरमध्यवर्ती । भूभागराजी गुणराशिरेष, त्वन्वर्थसंज्ञां सफलीकरोति ॥४९॥
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy